12.291
युधिष्ठिर उवाच॥
किं तदक्षरमित्युक्तं यस्मान्नावर्तते पुनः। किं च तत्क्षरमित्युक्तं यस्मादावर्तते पुनः ॥१२-२९१-१॥
अक्षरक्षरयोर्व्यक्तिमिच्छाम्यरिनिषूदन। उपलब्धुं महाबाहो तत्त्वेन कुरुनन्दन ॥१२-२९१-२॥
त्वं हि ज्ञाननिधिर्विप्रैरुच्यसे वेदपारगैः। ऋषिभिश्च महाभागैर्यतिभिश्च महात्मभिः ॥१२-२९१-३॥
शेषमल्पं दिनानां ते दक्षिणायनभास्करे। आवृत्ते भगवत्यर्के गन्तासि परमां गतिम् ॥१२-२९१-४॥
त्वयि प्रतिगते श्रेयः कुतः श्रोष्यामहे वयम्। कुरुवंशप्रदीपस्त्वं ज्ञानद्रव्येण दीप्यसे ॥१२-२९१-५॥
तदेतच्छ्रोतुमिच्छामि त्वत्तः कुरुकुलोद्वह। न तृप्यामीह राजेन्द्र शृण्वन्नमृतमीदृशम् ॥१२-२९१-६॥
भीष्म उवाच॥
अत्र ते वर्तयिष्येऽहमितिहासं पुरातनम्। वसिष्ठस्य च संवादं करालजनकस्य च ॥१२-२९१-७॥
वसिष्ठं श्रेष्ठमासीनमृषीणां भास्करद्युतिम्। पप्रच्छ जनको राजा ज्ञानं नैःश्रेयसं परम् ॥१२-२९१-८॥
परमध्यात्मकुशलमध्यात्मगतिनिश्चयम्। मैत्रावरुणिमासीनमभिवाद्य कृताञ्जलिः ॥१२-२९१-९॥
स्वक्षरं प्रश्रितं वाक्यं मधुरं चाप्यनुल्बणम्। पप्रच्छर्षिवरं राजा करालजनकः पुरा ॥१२-२९१-१०॥
भगवञ्श्रोतुमिच्छामि परं ब्रह्म सनातनम्। यस्मान्न पुनरावृत्तिमाप्नुवन्ति मनीषिणः ॥१२-२९१-११॥
यच्च तत्क्षरमित्युक्तं यत्रेदं क्षरते जगत्। यच्चाक्षरमिति प्रोक्तं शिवं क्षेम्यमनामयम् ॥१२-२९१-१२॥
वसिष्ठ उवाच॥
श्रूयतां पृथिवीपाल क्षरतीदं यथा जगत्। यन्न क्षरति पूर्वेण यावत्कालेन चाप्यथ ॥१२-२९१-१३॥
युगं द्वादशसाहस्रं कल्पं विद्धि चतुर्गुणम्। दशकल्पशतावृत्तं तदहर्ब्राह्ममुच्यते ॥ रात्रिश्चैतावती राजन्यस्यान्ते प्रतिबुध्यते ॥१२-२९१-१४॥
सृजत्यनन्तकर्माणं महान्तं भूतमग्रजम्। मूर्तिमन्तममूर्तात्मा विश्वं शम्भुः स्वयम्भुवः ॥ अणिमा लघिमा प्राप्तिरीशानं ज्योतिरव्ययम् ॥१२-२९१-१५॥
सर्वतःपाणिपादान्तं सर्वतोक्षिशिरोमुखम्। सर्वतःश्रुतिमल्लोके सर्वमावृत्य तिष्ठति ॥१२-२९१-१६॥
हिरण्यगर्भो भगवानेष बुद्धिरिति स्मृतः। महानिति च योगेषु विरिञ्च इति चाप्युत ॥१२-२९१-१७॥
साङ्ख्ये च पठ्यते शास्त्रे नामभिर्बहुधात्मकः। विचित्ररूपो विश्वात्मा एकाक्षर इति स्मृतः ॥१२-२९१-१८॥
वृतं नैकात्मकं येन कृत्स्नं त्रैलोक्यमात्मना। तथैव बहुरूपत्वाद्विश्वरूप इति स्मृतः ॥१२-२९१-१९॥
एष वै विक्रियापन्नः सृजत्यात्मानमात्मना। अहङ्कारं महातेजाः प्रजापतिमहङ्कृतम् ॥१२-२९१-२०॥
अव्यक्ताद्व्यक्तमुत्पन्नं विद्यासर्गं वदन्ति तम्। महान्तं चाप्यहङ्कारमविद्यासर्गमेव च ॥१२-२९१-२१॥
अविधिश्च विधिश्चैव समुत्पन्नौ तथैकतः। विद्याविद्येति विख्याते श्रुतिशास्त्रार्थचिन्तकैः ॥१२-२९१-२२॥
भूतसर्गमहङ्कारात्तृतीयं विद्धि पार्थिव। अहङ्कारेषु भूतेषु चतुर्थं विद्धि वैकृतम् ॥१२-२९१-२३॥
वायुर्ज्योतिरथाकाशमापोऽथ पृथिवी तथा। शब्दः स्पर्शश्च रूपं च रसो गन्धस्तथैव च ॥१२-२९१-२४॥
एवं युगपदुत्पन्नं दशवर्गमसंशयम्। पञ्चमं विद्धि राजेन्द्र भौतिकं सर्गमर्थवत् ॥१२-२९१-२५॥
श्रोत्रं त्वक्चक्षुषी जिह्वा घ्राणमेव च पञ्चमम्। वाक्च हस्तौ च पादौ च पायुर्मेढ्रं तथैव च ॥१२-२९१-२६॥
बुद्धीन्द्रियाणि चैतानि तथा कर्मेन्द्रियाणि च। सम्भूतानीह युगपन्मनसा सह पार्थिव ॥१२-२९१-२७॥
एषा तत्त्वचतुर्विंशा सर्वाकृतिषु वर्तते। यां ज्ञात्वा नाभिशोचन्ति ब्राह्मणास्तत्त्वदर्शिनः ॥१२-२९१-२८॥
एतद्देहं समाख्यातं त्रैलोक्ये सर्वदेहिषु। वेदितव्यं नरश्रेष्ठ सदेवनरदानवे ॥१२-२९१-२९॥
सयक्षभूतगन्धर्वे सकिंनरमहोरगे। सचारणपिशाचे वै सदेवर्षिनिशाचरे ॥१२-२९१-३०॥
सदंशकीटमशके सपूतिकृमिमूषके। शुनि श्वपाके वैणेये सचण्डाले सपुल्कसे ॥१२-२९१-३१॥
हस्त्यश्वखरशार्दूले सवृक्षे गवि चैव ह। यच्च मूर्तिमयं किञ्चित्सर्वत्रैतन्निदर्शनम् ॥१२-२९१-३२॥
जले भुवि तथाकाशे नान्यत्रेति विनिश्चयः। स्थानं देहवतामस्ति इत्येवमनुशुश्रुम ॥१२-२९१-३३॥
कृत्स्नमेतावतस्तात क्षरते व्यक्तसञ्ज्ञकम्। अहन्यहनि भूतात्मा ततः क्षर इति स्मृतः ॥१२-२९१-३४॥
एतदक्षरमित्युक्तं क्षरतीदं यथा जगत्। जगन्मोहात्मकं प्राहुरव्यक्तं व्यक्तसञ्ज्ञकम् ॥१२-२९१-३५॥
महांश्चैवाग्रजो नित्यमेतत्क्षरनिदर्शनम्। कथितं ते महाराज यस्मान्नावर्तते पुनः ॥१२-२९१-३६॥
पञ्चविंशतिमो विष्णुर्निस्तत्त्वस्तत्त्वसञ्ज्ञकः। तत्त्वसंश्रयणादेतत्तत्त्वमाहुर्मनीषिणः ॥१२-२९१-३७॥
यदमूर्त्यसृजद्व्यक्तं तत्तन्मूर्त्यधितिष्ठति। चतुर्विंशतिमो व्यक्तो ह्यमूर्तः पञ्चविंशकः ॥१२-२९१-३८॥
स एव हृदि सर्वासु मूर्तिष्वातिष्ठतेऽऽत्मवान्। चेतयंश्चेतनो नित्यः सर्वमूर्तिरमूर्तिमान् ॥१२-२९१-३९॥
सर्गप्रलयधर्मिण्या असर्गप्रलयात्मकः। गोचरे वर्तते नित्यं निर्गुणो गुणसञ्ज्ञकः ॥१२-२९१-४०॥
एवमेष महानात्मा सर्गप्रलयकोविदः। विकुर्वाणः प्रकृतिमानभिमन्यत्यबुद्धिमान् ॥१२-२९१-४१॥
तमःसत्त्वरजोयुक्तस्तासु तास्विह योनिषु। लीयतेऽप्रतिबुद्धत्वादबुद्धजनसेवनात् ॥१२-२९१-४२॥
सहवासो निवासात्मा नान्योऽहमिति मन्यते। योऽहं सोऽहमिति ह्युक्त्वा गुणाननु निवर्तते ॥१२-२९१-४३॥
तमसा तामसान्भावान्विविधान्प्रतिपद्यते। रजसा राजसांश्चैव सात्त्विकान्सत्त्वसंश्रयात् ॥१२-२९१-४४॥
शुक्ललोहितकृष्णानि रूपाण्येतानि त्रीणि तु। सर्वाण्येतानि रूपाणि जानीहि प्राकृतानि वै ॥१२-२९१-४५॥
तामसा निरयं यान्ति राजसा मानुषांस्तथा। सात्त्विका देवलोकाय गच्छन्ति सुखभागिनः ॥१२-२९१-४६॥
निष्कैवल्येन पापेन तिर्यग्योनिमवाप्नुयात्। पुण्यपापेन मानुष्यं पुण्येनैकेन देवताः ॥१२-२९१-४७॥
एवमव्यक्तविषयं क्षरमाहुर्मनीषिणः। पञ्चविंशतिमो योऽयं ज्ञानादेव प्रवर्तते ॥१२-२९१-४८॥