Mahabharata - Shanti Parva (महाभारत - शान्तिपर्वम्)
12.292
वसिष्ठ उवाच॥
एवमप्रतिबुद्धत्वादबुद्धमनुवर्तते। देहाद्देहसहस्राणि तथा समभिपद्यते ॥१२-२९२-१॥
तिर्यग्योनिसहस्रेषु कदाचिद्देवतास्वपि। उपपद्यति संयोगाद्गुणैः सह गुणक्षयात् ॥१२-२९२-२॥
मानुषत्वाद्दिवं याति दिवो मानुष्यमेव च। मानुष्यान्निरयस्थानमानन्त्यं प्रतिपद्यते ॥१२-२९२-३॥
कोशकारो यथात्मानं कीटः समनुरुन्धति। सूत्रतन्तुगुणैर्नित्यं तथायमगुणो गुणैः ॥१२-२९२-४॥
द्वंद्वमेति च निर्द्वंद्वस्तासु तास्विह योनिषु। शीर्षरोगेऽक्षिरोगे च दन्तशूले गलग्रहे ॥१२-२९२-५॥
जलोडरेऽर्शसां रोगे ज्वरगण्डविषूचिके। श्वित्रे कुष्ठेऽग्निदाहे च सिध्मापस्मारयोरपि ॥१२-२९२-६॥
यानि चान्यानि द्वंद्वानि प्राकृतानि शरीरिषु। उत्पद्यन्ते विचित्राणि तान्येषोऽप्यभिमन्यते ॥ अभिमन्यत्यभीमानात्तथैव सुकृतान्यपि ॥१२-२९२-७॥
एकवासाश्च दुर्वासाः शायी नित्यमधस्तथा। मण्डूकशायी च तथा वीरासनगतस्तथा ॥१२-२९२-८॥
चीरधारणमाकाशे शयनं स्थानमेव च। इष्टकाप्रस्तरे चैव कण्टकप्रस्तरे तथा ॥१२-२९२-९॥
भस्मप्रस्तरशायी च भूमिशय्यानुलेपनः। वीरस्थानाम्बुपङ्के च शयनं फलकेषु च ॥१२-२९२-१०॥
विविधासु च शय्यासु फलगृद्ध्यान्वितोऽफलः। मुञ्जमेखलनग्नत्वं क्षौमकृष्णाजिनानि च ॥१२-२९२-११॥
शाणीवालपरीधानो व्याघ्रचर्मपरिच्छदः। सिंहचर्मपरीधानः पट्टवासास्तथैव च ॥१२-२९२-१२॥
कीटकावसनश्चैव चीरवासास्तथैव च। वस्त्राणि चान्यानि बहून्यभिमन्यत्यबुद्धिमान् ॥१२-२९२-१३॥
भोजनानि विचित्राणि रत्नानि विविधानि च। एकवस्त्रान्तराशित्वमेककालिकभोजनम् ॥१२-२९२-१४॥
चतुर्थाष्टमकालश्च षष्ठकालिक एव च। षड्रात्रभोजनश्चैव तथैवाष्टाहभोजनः ॥१२-२९२-१५॥
सप्तरात्रदशाहारो द्वादशाहार एव च। मासोपवासी मूलाशी फलाहारस्तथैव च ॥१२-२९२-१६॥
वायुभक्षोऽम्बुपिण्याकगोमयादन एव च। गोमूत्रभोजनश्चैव शाकपुष्पाद एव च ॥१२-२९२-१७॥
शैवालभोजनश्चैव तथाचामेन वर्तयन्। वर्तयञ्शीर्णपर्णैश्च प्रकीर्णफलभोजनः ॥१२-२९२-१८॥
विविधानि च कृच्छ्राणि सेवते सुखकाङ्क्षया। चान्द्रायणानि विधिवल्लिङ्गानि विविधानि च ॥१२-२९२-१९॥
चातुराश्रम्यपन्थानमाश्रयत्याश्रमानपि। उपासीनश्च पाषण्डान्गुहाः शैलांस्तथैव च ॥१२-२९२-२०॥
विविक्ताश्च शिलाछायास्तथा प्रस्रवणानि च। विविधानि च जप्यानि विविधानि व्रतानि च ॥१२-२९२-२१॥
नियमान्सुविचित्रांश्च विविधानि तपांसि च। यज्ञांश्च विविधाकारान्विधींश्च विविधांस्तथा ॥१२-२९२-२२॥
वणिक्पथं द्विजक्षत्रं वैश्यशूद्रं तथैव च। दानं च विविधाकारं दीनान्धकृपणेष्वपि ॥१२-२९२-२३॥
अभिमन्यत्यसम्बोधात्तथैव त्रिविधान्गुणान्। सत्त्वं रजस्तमश्चैव धर्मार्थौ काम एव च ॥ प्रकृत्यात्मानमेवात्मा एवं प्रविभजत्युत ॥१२-२९२-२४॥
स्वधाकारवषट्कारौ स्वाहाकारनमस्क्रियाः। याजनाध्यापनं दानं तथैवाहुः प्रतिग्रहम् ॥ यजनाध्ययने चैव यच्चान्यदपि किञ्चन ॥१२-२९२-२५॥
जन्ममृत्युविवादे च तथा विशसनेऽपि च। शुभाशुभमयं सर्वमेतदाहुः क्रियापथम् ॥१२-२९२-२६॥
प्रकृतिः कुरुते देवी महाप्रलयमेव च। दिवसान्ते गुणानेतानभ्येत्यैकोऽवतिष्ठति ॥१२-२९२-२७॥
रश्मिजालमिवादित्यस्तत्कालेन नियच्छति। एवमेषोऽसकृत्सर्वं क्रीडार्थमभिमन्यते ॥१२-२९२-२८॥
आत्मरूपगुणानेतान्विविधान्हृदयप्रियान्। एवमेव विकुर्वाणः सर्गप्रलयकर्मणी ॥१२-२९२-२९॥
क्रियाक्रिया पथे रक्तस्त्रिगुणस्त्रिगुणातिगः। क्रियाक्रियापथोपेतस्तथा तदिति मन्यते ॥१२-२९२-३०॥
एवं द्वंद्वान्यथैतानि वर्तन्ते मम नित्यशः। ममैवैतानि जायन्ते बाधन्ते तानि मामिति ॥१२-२९२-३१॥
निस्तर्तव्यान्यथैतानि सर्वाणीति नराधिप। मन्यतेऽयं ह्यबुद्धित्वात्तथैव सुकृतान्यपि ॥१२-२९२-३२॥
भोक्तव्यानि मयैतानि देवलोकगतेन वै। इहैव चैनं भोक्ष्यामि शुभाशुभफलोदयम् ॥१२-२९२-३३॥
सुखमेव च कर्तव्यं सकृत्कृत्वा सुखं मम। यावदन्तं च मे सौख्यं जात्यां जात्यां भविष्यति ॥१२-२९२-३४॥
भविष्यति च मे दुःखं कृतेनेहाप्यनन्तकम्। महद्दुःखं हि मानुष्यं निरये चापि मज्जनम् ॥१२-२९२-३५॥
निरयाच्चापि मानुष्यं कालेनैष्याम्यहं पुनः। मनुष्यत्वाच्च देवत्वं देवत्वात्पौरुषं पुनः ॥ मनुष्यत्वाच्च निरयं पर्यायेणोपगच्छति ॥१२-२९२-३६॥
य एवं वेत्ति वै नित्यं निरात्मात्मगुणैर्वृतः। तेन देवमनुष्येषु निरये चोपपद्यते ॥१२-२९२-३७॥
ममत्वेनावृतो नित्यं तत्रैव परिवर्तते। सर्गकोटिसहस्राणि मरणान्तासु मूर्तिषु ॥१२-२९२-३८॥
य एवं कुरुते कर्म शुभाशुभफलात्मकम्। स एव फलमश्नाति त्रिषु लोकेषु मूर्तिमान् ॥१२-२९२-३९॥
प्रकृतिः कुरुते कर्म शुभाशुभफलात्मकम्। प्रकृतिश्च तदश्नाति त्रिषु लोकेषु कामगा ॥१२-२९२-४०॥
तिर्यग्योनौ मनुष्यत्वे देवलोके तथैव च। त्रीणि स्थानानि चैतानि जानीयात्प्राकृतानि ह ॥१२-२९२-४१॥
अलिङ्गां प्रकृतिं त्वाहुर्लिङ्गैरनुमिमीमहे। तथैव पौरुषं लिङ्गमनुमानाद्धि पश्यति ॥१२-२९२-४२॥
स लिङ्गान्तरमासाद्य प्राकृतं लिङ्गमव्रणम्। व्रणद्वाराण्यधिष्ठाय कर्माण्यात्मनि मन्यते ॥१२-२९२-४३॥
श्रोत्रादीनि तु सर्वाणि पञ्च कर्मेन्द्रियाणि च। वागादीनि प्रवर्तन्ते गुणेष्वेव गुणैः सह ॥ अहमेतानि वै कुर्वन्ममैतानीन्द्रियाणि च ॥१२-२९२-४४॥
निरिन्द्रियोऽभिमन्येत व्रणवानस्मि निर्व्रणः। अलिङ्गो लिङ्गमात्मानमकालः कालमात्मनः ॥१२-२९२-४५॥
असत्त्वं सत्त्वमात्मानमतत्त्वं तत्त्वमात्मनः। अमृत्युर्मृत्युमात्मानमचरश्चरमात्मनः ॥१२-२९२-४६॥
अक्षेत्रः क्षेत्रमात्मानमसर्गः सर्गमात्मनः। अतपास्तप आत्मानमगतिर्गतिमात्मनः ॥१२-२९२-४७॥
अभवो भवमात्मानमभयो भयमात्मनः। अक्षरः क्षरमात्मानमबुद्धिस्त्वभिमन्यते ॥१२-२९२-४८॥

...

ॐ असतो मा सद्गमय। तमसो मा ज्योतिर्गमय। मृत्योर्माऽमृतं गमय। ॐ शान्ति: शान्ति: शान्ति: ॥ - बृहदारण्यकोपनिषद् 1.3.28
"Ōm! Lead me from the unreal to the real, from darkness to light, and from death to immortality. Let there be peace, peace, and peace. Ōm!" - Brihadaranyaka Upanishad 1.3.28

Copyright © 2025, Incredible Wisdom.
All rights reserved.