12.293
वसिष्ठ उवाच॥
एवमप्रतिबुद्धत्वादबुद्धजनसेवनात्। सर्गकोटिसहस्राणि पतनान्तानि गच्छति ॥१२-२९३-१॥
धाम्ना धामसहस्राणि मरणान्तानि गच्छति। तिर्यग्योनौ मनुष्यत्वे देवलोके तथैव च ॥१२-२९३-२॥
चन्द्रमा इव कोशानां पुनस्तत्र सहस्रशः। लीयतेऽप्रतिबुद्धत्वादेवमेष ह्यबुद्धिमान् ॥१२-२९३-३॥
कलाः पञ्चदशा योनिस्तद्धाम इति पठ्यते। नित्यमेतद्विजानीहि सोमः षोडशमी कला ॥१२-२९३-४॥
कलायां जायतेऽजस्रं पुनः पुनरबुद्धिमान्। धाम तस्योपयुञ्जन्ति भूय एव तु जायते ॥१२-२९३-५॥
षोडशी तु कला सूक्ष्मा स सोम उपधार्यताम्। न तूपयुज्यते देवैर्देवानुपयुनक्ति सा ॥१२-२९३-६॥
एवं तां क्षपयित्वा हि जायते नृपसत्तम। सा ह्यस्य प्रकृतिर्दृष्टा तत्क्षयान्मोक्ष उच्यते ॥१२-२९३-७॥
तदेवं षोडशकलं देहमव्यक्तसञ्ज्ञकम्। ममायमिति मन्वानस्तत्रैव परिवर्तते ॥१२-२९३-८॥
पञ्चविंशस्तथैवात्मा तस्यैवा प्रतिबोधनात्। विमलस्य विशुद्धस्य शुद्धानिलनिषेवणात् ॥१२-२९३-९॥
अशुद्ध एव शुद्धात्मा तादृग्भवति पार्थिव। अबुद्धसेवनाच्चापि बुद्धोऽप्यबुधतां व्रजेत् ॥१२-२९३-१०॥
तथैवाप्रतिबुद्धोऽपि ज्ञेयो नृपतिसत्तम। प्रकृतेस्त्रिगुणायास्तु सेवनात्प्राकृतो भवेत् ॥१२-२९३-११॥
करालजनक उवाच॥
अक्षरक्षरयोरेष द्वयोः सम्बन्ध इष्यते। स्त्रीपुंसोर्वापि भगवन्सम्बन्धस्तद्वदुच्यते ॥१२-२९३-१२॥
ऋते न पुरुषेणेह स्त्री गर्भं धारयत्युत। ऋते स्त्रियं न पुरुषो रूपं निर्वर्तयेत्तथा ॥१२-२९३-१३॥
अन्योन्यस्याभिसम्बन्धादन्योन्यगुणसंश्रयात्। रूपं निर्वर्तयत्येतदेवं सर्वासु योनिषु ॥१२-२९३-१४॥
रत्यर्थमभिसंरोधादन्योन्यगुणसंश्रयात्। ऋतौ निर्वर्तते रूपं तद्वक्ष्यामि निदर्शनम् ॥१२-२९३-१५॥
ये गुणाः पुरुषस्येह ये च मातृगुणास्तथा। अस्थि स्नायु च मज्जा च जानीमः पितृतो द्विज ॥१२-२९३-१६॥
त्वङ्मांसं शोणितं चैव मातृजान्यपि शुश्रुम। एवमेतद्द्विजश्रेष्ठ वेदशास्त्रेषु पठ्यते ॥१२-२९३-१७॥
प्रमाणं यच्च वेदोक्तं शास्त्रोक्तं यच्च पठ्यते। वेदशास्त्रप्रमाणं च प्रमाणं तत्सनातनम् ॥१२-२९३-१८॥
एवमेवाभिसम्बद्धौ नित्यं प्रकृतिपूरुषौ। पश्यामि भगवंस्तस्मान्मोक्षधर्मो न विद्यते ॥१२-२९३-१९॥
अथ वानन्तरकृतं किञ्चिदेव निदर्शनम्। तन्ममाचक्ष्व तत्त्वेन प्रत्यक्षो ह्यसि सर्वथा ॥१२-२९३-२०॥
मोक्षकामा वयं चापि काङ्क्षामो यदनामयम्। अदेहमजरं दिव्यमतीन्द्रियमनीश्वरम् ॥१२-२९३-२१॥
वसिष्ठ उवाच॥
यदेतदुक्तं भवता वेदशास्त्रनिदर्शनम्। एवमेतद्यथा चैतन्न गृह्णाति तथा भवान् ॥१२-२९३-२२॥
धार्यते हि त्वया ग्रन्थ उभयोर्वेदशास्त्रयोः। न तु ग्रन्थस्य तत्त्वज्ञो यथावत्त्वं नरेश्वर ॥१२-२९३-२३॥
यो हि वेदे च शास्त्रे च ग्रन्थधारणतत्परः। न च ग्रन्थार्थतत्त्वज्ञस्तस्य तद्धारणं वृथा ॥१२-२९३-२४॥
भारं स वहते तस्य ग्रन्थस्यार्थं न वेत्ति यः। यस्तु ग्रन्थार्थतत्त्वज्ञो नास्य ग्रन्थागमो वृथा ॥१२-२९३-२५॥
ग्रन्थस्यार्थं च पृष्टः संस्तादृशो वक्तुमर्हति। यथा तत्त्वाभिगमनादर्थं तस्य स विन्दति ॥१२-२९३-२६॥
यस्तु संसत्सु कथयेद्ग्रन्थार्थं स्थूलबुद्धिमान्। स कथं मन्दविज्ञानो ग्रन्थं वक्ष्यति निर्णयात् ॥१२-२९३-२७॥
निर्णयं चापि छिद्रात्मा न तं वक्ष्यति तत्त्वतः। सोपहासात्मतामेति यस्माच्चैवात्मवानपि ॥१२-२९३-२८॥
तस्मात्त्वं शृणु राजेन्द्र यथैतदनुदृश्यते। याथातथ्येन साङ्ख्येषु योगेषु च महात्मसु ॥१२-२९३-२९॥
यदेव योगाः पश्यन्ति साङ्ख्यैस्तदनुगम्यते। एकं साङ्ख्यं च योगं च यः पश्यति स बुद्धिमान् ॥१२-२९३-३०॥
त्वङ्मांसं रुधिरं मेदः पित्तं मज्जास्थि स्नायु च। एतदैन्द्रियकं तात यद्भवानिदमाह वै ॥१२-२९३-३१॥
द्रव्याद्द्रव्यस्य निष्पत्तिरिन्द्रियादिन्द्रियं तथा। देहाद्देहमवाप्नोति बीजाद्बीजं तथैव च ॥१२-२९३-३२॥
निरिन्द्रियस्याबीजस्य निर्द्रव्यस्यास्य देहिनः। कथं गुणा भविष्यन्ति निर्गुणत्वान्महात्मनः ॥१२-२९३-३३॥
गुणा गुणेषु जायन्ते तत्रैव निविशन्ति च। एवं गुणाः प्रकृतितो जायन्ते च न सन्ति च ॥१२-२९३-३४॥
त्वङ्मांसं रुधिरं मेदः पित्तं मज्जास्थि स्नायु च। अष्टौ तान्यथ शुक्रेण जानीहि प्राकृतानि वै ॥१२-२९३-३५॥
पुमांश्चैवापुमांश्चैव त्रैलिङ्ग्यं प्राकृतं स्मृतम्। नैव पुमान्पुमांश्चैव स लिङ्गीत्यभिधीयते ॥१२-२९३-३६॥
अलिङ्गा प्रकृतिर्लिङ्गैरुपलभ्यति सात्मजैः। यथा पुष्पफलैर्नित्यमृतवो मूर्तयस्तथा ॥१२-२९३-३७॥
एवमप्यनुमानेन ह्यलिङ्गमुपलभ्यते। पञ्चविंशतिमस्तात लिङ्गेष्वनियतात्मकः ॥१२-२९३-३८॥
अनादिनिधनोऽनन्तः सर्वदर्शी निरामयः। केवलं त्वभिमानित्वाद्गुणेष्वगुण उच्यते ॥१२-२९३-३९॥
गुणा गुणवतः सन्ति निर्गुणस्य कुतो गुणाः। तस्मादेवं विजानन्ति ये जना गुणदर्शिनः ॥१२-२९३-४०॥
यदा त्वेष गुणान्सर्वान्प्राकृतानभिमन्यते। तदा स गुणवानेव परमेणानुपश्यति ॥१२-२९३-४१॥
यत्तद्बुद्धेः परं प्राहुः साङ्ख्या योगाश्च सर्वशः। बुध्यमानं महाप्राज्ञमबुद्धपरिवर्जनात् ॥१२-२९३-४२॥
अप्रबुद्धमथाव्यक्तं सगुणं प्राहुरीश्वरम्। निर्गुणं चेश्वरं नित्यमधिष्ठातारमेव च ॥१२-२९३-४३॥
प्रकृतेश्च गुणानां च पञ्चविंशतिकं बुधाः। साङ्ख्ययोगे च कुशला बुध्यन्ते परमैषिणः ॥१२-२९३-४४॥
यदा प्रबुद्धास्त्वव्यक्तमवस्थाजन्मभीरवः। बुध्यमानं प्रबुध्यन्ति गमयन्ति समं तदा ॥१२-२९३-४५॥
एतन्निदर्शनं सम्यगसम्यगनुदर्शनम्। बुध्यमानाप्रबुद्धाभ्यां पृथक्पृथगरिंदम ॥१२-२९३-४६॥
परस्परेणैतदुक्तं क्षराक्षरनिदर्शनम्। एकत्वमक्षरं प्राहुर्नानात्वं क्षरमुच्यते ॥१२-२९३-४७॥
पञ्चविंशतिनिष्ठोऽयं यदासम्यक्प्रवर्तते। एकत्वं दर्शनं चास्य नानात्वं चाप्यदर्शनम् ॥१२-२९३-४८॥
तत्त्वनिस्तत्त्वयोरेतत्पृथगेव निदर्शनम्। पञ्चविंशतिसर्गं तु तत्त्वमाहुर्मनीषिणः ॥१२-२९३-४९॥
निस्तत्त्वं पञ्चविंशस्य परमाहुर्निदर्शनम्। वर्गस्य वर्गमाचारं तत्त्वं तत्त्वात्सनातनम् ॥१२-२९३-५०॥