12.294
करालजनक उवाच॥
नानात्वैकत्वमित्युक्तं त्वयैतदृषिसत्तम। पश्यामि चाभिसंदिग्धमेतयोर्वै निदर्शनम् ॥१२-२९४-१॥
तथाप्रबुद्धबुद्धाभ्यां बुध्यमानस्य चानघ। स्थूलबुद्ध्या न पश्यामि तत्त्वमेतन्न संशयः ॥१२-२९४-२॥
अक्षरक्षरयोरुक्तं त्वया यदपि कारणम्। तदप्यस्थिरबुद्धित्वात्प्रनष्टमिव मेऽनघ ॥१२-२९४-३॥
तदेतच्छ्रोतुमिच्छामि नानात्वैकत्वदर्शनम्। बुद्धमप्रतिबुद्धं च बुध्यमानं च तत्त्वतः ॥१२-२९४-४॥
विद्याविद्ये च भगवन्नक्षरं क्षरमेव च। साङ्ख्यं योगं च कार्त्स्न्येन पृथक्चैवापृथक्च ह ॥१२-२९४-५॥
वसिष्ठ उवाच॥
हन्त ते सम्प्रवक्ष्यामि यदेतदनुपृच्छसि। योगकृत्यं महाराज पृथगेव शृणुष्व मे ॥१२-२९४-६॥
योगकृत्यं तु योगानां ध्यानमेव परं बलम्। तच्चापि द्विविधं ध्यानमाहुर्वेदविदो जनाः ॥१२-२९४-७॥
एकाग्रता च मनसः प्राणायामस्तथैव च। प्राणायामस्तु सगुणो निर्गुणो मनसस्तथा ॥१२-२९४-८॥
मूत्रोत्सर्गे पुरीषे च भोजने च नराधिप। त्रिकालं नाभियुञ्जीत शेषं युञ्जीत तत्परः ॥१२-२९४-९॥
इन्द्रियाणीन्द्रियार्थेभ्यो निवर्त्य मनसा मुनिः। दशद्वादशभिर्वापि चतुर्विंशात्परं ततः ॥१२-२९४-१०॥
तं चोदनाभिर्मतिमानात्मानं चोदयेदथ। तिष्ठन्तमजरं तं तु यत्तदुक्तं मनीषिभिः ॥१२-२९४-११॥
तैश्चात्मा सततं ज्ञेय इत्येवमनुशुश्रुम। द्रव्यं ह्यहीनमनसो नान्यथेति विनिश्चयः ॥१२-२९४-१२॥
विमुक्तः सर्वसङ्गेभ्यो लघ्वाहारो जितेन्द्रियः। पूर्वरात्रे परे चैव धारयेत मनोऽऽत्मनि ॥१२-२९४-१३॥
स्थिरीकृत्येन्द्रियग्रामं मनसा मिथिलेश्वर। मनो बुद्ध्या स्थिरं कृत्वा पाषाण इव निश्चलः ॥१२-२९४-१४॥
स्थाणुवच्चाप्यकम्पः स्याद्गिरिवच्चापि निश्चलः। बुधा विधिविधानज्ञास्तदा युक्तं प्रचक्षते ॥१२-२९४-१५॥
न शृणोति न चाघ्राति न रस्यति न पश्यति। न च स्पर्शं विजानाति न सङ्कल्पयते मनः ॥१२-२९४-१६॥
न चाभिमन्यते किञ्चिन्न च बुध्यति काष्ठवत्। तदा प्रकृतिमापन्नं युक्तमाहुर्मनीषिणः ॥१२-२९४-१७॥
निवाते च यथा दीप्यन्दीपस्तद्वत्स दृश्यते। निरिङ्गश्चाचलश्चोर्ध्वं न तिर्यग्गतिमाप्नुयात् ॥१२-२९४-१८॥
तदा तमनुपश्येत यस्मिन्दृष्टे तु कथ्यते। हृदयस्थोऽन्तरात्मेति ज्ञेयो ज्ञस्तात मद्विधैः ॥१२-२९४-१९॥
विधूम इव सप्तार्चिरादित्य इव रश्मिमान्। वैद्युतोऽग्निरिवाकाशे दृश्यतेऽऽत्मा तथात्मनि ॥१२-२९४-२०॥
यं पश्यन्ति महात्मानो धृतिमन्तो मनीषिणः। ब्राह्मणा ब्रह्मयोनिष्ठा ह्ययोनिममृतात्मकम् ॥१२-२९४-२१॥
तदेवाहुरणुभ्योऽणु तन्महद्भ्यो महत्तरम्। तदन्तः सर्वभूतेषु ध्रुवं तिष्ठन्न दृश्यते ॥१२-२९४-२२॥
बुद्धिद्रव्येण दृश्येत मनोदीपेन लोककृत्। महतस्तमसस्तात पारे तिष्ठन्नतामसः ॥१२-२९४-२३॥
स तमोनुद इत्युक्तस्तत्त्वज्ञैर्वेदपारगैः। विमलो वितमस्कश्च निर्लिङ्गोऽलिङ्गसञ्ज्ञितः ॥१२-२९४-२४॥
योगमेतद्धि योगानां मन्ये योगस्य लक्षणम्। एवं पश्यं प्रपश्यन्ति आत्मानमजरं परम् ॥१२-२९४-२५॥
योगदर्शनमेतावदुक्तं ते तत्त्वतो मया। साङ्ख्यज्ञानं प्रवक्ष्यामि परिसङ्ख्यानिदर्शनम् ॥१२-२९४-२६॥
अव्यक्तमाहुः प्रकृतिं परां प्रकृतिवादिनः। तस्मान्महत्समुत्पन्नं द्वितीयं राजसत्तम ॥१२-२९४-२७॥
अहङ्कारस्तु महतस्तृतीयमिति नः श्रुतम्। पञ्च भूतान्यहङ्कारादाहुः साङ्ख्यानुदर्शिनः ॥१२-२९४-२८॥
एताः प्रकृतयस्त्वष्टौ विकाराश्चापि षोडश। पञ्च चैव विशेषा वै तथा पञ्चेन्द्रियाणि च ॥१२-२९४-२९॥
एतावदेव तत्त्वानां साङ्ख्यमाहुर्मनीषिणः। साङ्ख्ये विधिविधानज्ञा नित्यं साङ्ख्यपथे रताः ॥१२-२९४-३०॥
यस्माद्यदभिजायेत तत्तत्रैव प्रलीयते। लीयन्ते प्रतिलोमानि सृज्यन्ते चान्तरात्मना ॥१२-२९४-३१॥
अनुलोमेन जायन्ते लीयन्ते प्रतिलोमतः। गुणा गुणेषु सततं सागरस्योर्मयो यथा ॥१२-२९४-३२॥
सर्गप्रलय एतावान्प्रकृतेर्नृपसत्तम। एकत्वं प्रलये चास्य बहुत्वं च यदासृजत् ॥ एवमेव च राजेन्द्र विज्ञेयं ज्ञेयचिन्तकैः ॥१२-२९४-३३॥
अधिष्ठातारमव्यक्तमस्याप्येतन्निदर्शनम्। एकत्वं च बहुत्वं च प्रकृतेरनु तत्त्ववान् ॥ एकत्वं प्रलये चास्य बहुत्वं च प्रवर्तनात् ॥१२-२९४-३४॥
बहुधात्मा प्रकुर्वीत प्रकृतिं प्रसवात्मिकाम्। तच्च क्षेत्रं महानात्मा पञ्चविंशोऽधितिष्ठति ॥१२-२९४-३५॥
अधिष्ठातेति राजेन्द्र प्रोच्यते यतिसत्तमैः। अधिष्ठानादधिष्ठाता क्षेत्राणामिति नः श्रुतम् ॥१२-२९४-३६॥
क्षेत्रं जानाति चाव्यक्तं क्षेत्रज्ञ इति चोच्यते। अव्यक्तिके पुरे शेते पुरुषश्चेति कथ्यते ॥१२-२९४-३७॥
अन्यदेव च क्षेत्रं स्यादन्यः क्षेत्रज्ञ उच्यते। क्षेत्रमव्यक्तमित्युक्तं ज्ञाता वै पञ्चविंशकः ॥१२-२९४-३८॥
अन्यदेव च ज्ञानं स्यादन्यज्ज्ञेयं तदुच्यते। ज्ञानमव्यक्तमित्युक्तं ज्ञेयो वै पञ्चविंशकः ॥१२-२९४-३९॥
अव्यक्तं क्षेत्रमित्युक्तं तथा सत्त्वं तथेश्वरम्। अनीश्वरमतत्त्वं च तत्त्वं तत्पञ्चविंशकम् ॥१२-२९४-४०॥
साङ्ख्यदर्शनमेतावत्परिसङ्ख्यानदर्शनम्। साङ्ख्यं प्रकुरुते चैव प्रकृतिं च प्रचक्षते ॥१२-२९४-४१॥
तत्त्वानि च चतुर्विंशत्परिसङ्ख्याय तत्त्वतः। साङ्ख्याः सह प्रकृत्या तु निस्तत्त्वः पञ्चविंशकः ॥१२-२९४-४२॥
पञ्चविंशोऽप्रबुद्धात्मा बुध्यमान इति स्मृतः। यदा तु बुध्यतेऽऽत्मानं तदा भवति केवलः ॥१२-२९४-४३॥
सम्यग्दर्शनमेतावद्भाषितं तव तत्त्वतः। एवमेतद्विजानन्तः साम्यतां प्रतियान्त्युत ॥१२-२९४-४४॥
सम्यङ्निदर्शनं नाम प्रत्यक्षं प्रकृतेस्तथा। गुणतत्त्वान्यथैतानि निर्गुणोऽन्यस्तथा भवेत् ॥१२-२९४-४५॥
न त्वेवं वर्तमानानामावृत्तिर्विद्यते पुनः। विद्यतेऽक्षरभावत्वादपरस्परमव्ययम् ॥१२-२९४-४६॥
पश्येरन्नेकमतयो न सम्यक्तेषु दर्शनम्। तेऽव्यक्तं प्रतिपद्यन्ते पुनः पुनररिंदम ॥१२-२९४-४७॥
सर्वमेतद्विजानन्तो न सर्वस्य प्रबोधनात्। व्यक्तीभूता भविष्यन्ति व्यक्तस्य वशवर्तिनः ॥१२-२९४-४८॥
सर्वमव्यक्तमित्युक्तमसर्वः पञ्चविंशकः। य एनमभिजानन्ति न भयं तेषु विद्यते ॥१२-२९४-४९॥