Mahabharata - Shanti Parva (महाभारत - शान्तिपर्वम्)
12.295
वसिष्ठ उवाच॥
साङ्ख्यदर्शनमेतावदुक्तं ते नृपसत्तम। विद्याविद्ये त्विदानीं मे त्वं निबोधानुपूर्वशः ॥१२-२९५-१॥
अविद्यामाहुरव्यक्तं सर्गप्रलयधर्मि वै। सर्गप्रलयनिर्मुक्तं विद्यां वै पञ्चविंशकम् ॥१२-२९५-२॥
परस्परमविद्यां वै तन्निबोधानुपूर्वशः। यथोक्तमृषिभिस्तात साङ्ख्यस्यास्य निदर्शनम् ॥१२-२९५-३॥
कर्मेन्द्रियाणां सर्वेषां विद्या बुद्धीन्द्रियं स्मृतम्। बुद्धीन्द्रियाणां च तथा विशेषा इति नः श्रुतम् ॥१२-२९५-४॥
विशेषाणां मनस्तेषां विद्यामाहुर्मनीषिणः। मनसः पञ्चभूतानि विद्या इत्यभिचक्षते ॥१२-२९५-५॥
अहङ्कारस्तु भूतानां पञ्चानां नात्र संशयः। अहङ्कारस्य च तथा बुद्धिर्विद्या नरेश्वर ॥१२-२९५-६॥
बुद्धेः प्रकृतिरव्यक्तं तत्त्वानां परमेश्वरम्। विद्या ज्ञेया नरश्रेष्ठ विधिश्च परमः स्मृतः ॥१२-२९५-७॥
अव्यक्तस्य परं प्राहुर्विद्यां वै पञ्चविंशकम्। सर्वस्य सर्वमित्युक्तं ज्ञेयं ज्ञानस्य पार्थिव ॥१२-२९५-८॥
ज्ञानमव्यक्तमित्युक्तं ज्ञेयं वै पञ्चविंशकम्। तथैव ज्ञानमव्यक्तं विज्ञाता पञ्चविंशकः ॥१२-२९५-९॥
विद्याविद्यार्थतत्त्वेन मयोक्तं ते विशेषतः। अक्षरं च क्षरं चैव यदुक्तं तन्निबोध मे ॥१२-२९५-१०॥
उभावेतौ क्षरावुक्तावुभावेतौ च नक्षरौ। कारणं तु प्रवक्ष्यामि यथा ख्यातौ तु तत्त्वतः ॥१२-२९५-११॥
अनादिनिधनावेतावुभावेवेश्वरौ मतौ। तत्त्वसञ्ज्ञावुभावेतौ प्रोच्येते ज्ञानचिन्तकैः ॥१२-२९५-१२॥
सर्गप्रलयधर्मित्वादव्यक्तं प्राहुरक्षरम्। तदेतद्गुणसर्गाय विकुर्वाणं पुनः पुनः ॥१२-२९५-१३॥
गुणानां महदादीनामुत्पद्यति परस्परम्। अधिष्ठानात्क्षेत्रमाहुरेतत्तत्पञ्चविंशकम् ॥१२-२९५-१४॥
यदा तु गुणजालं तदव्यक्तात्मनि सङ्क्षिपेत्। तदा सह गुणैस्तैस्तु पञ्चविंशो विलीयते ॥१२-२९५-१५॥
गुणा गुणेषु लीयन्ते तदैका प्रकृतिर्भवेत्। क्षेत्रज्ञोऽपि यदा तात तत्क्षेत्रे सम्प्रलीयते ॥१२-२९५-१६॥
तदाक्षरत्वं प्रकृतिर्गच्छते गुणसञ्ज्ञिता। निर्गुणत्वं च वैदेह गुणेषु प्रतिवर्तनात् ॥१२-२९५-१७॥
एवमेव च क्षेत्रज्ञः क्षेत्रज्ञानपरिक्षये। प्रकृत्या निर्गुणस्त्वेष इत्येवमनुशुश्रुम ॥१२-२९५-१८॥
क्षरो भवत्येष यदा तदा गुणवतीमथ। प्रकृतिं त्वभिजानाति निर्गुणत्वं तथात्मनः ॥१२-२९५-१९॥
तदा विशुद्धो भवति प्रकृतेः परिवर्जनात्। अन्योऽहमन्येयमिति यदा बुध्यति बुद्धिमान् ॥१२-२९५-२०॥
तदैषोऽन्यत्वतामेति न च मिश्रत्वमाव्रजेत्। प्रकृत्या चैव राजेन्द्र नमिश्रोऽन्यश्च दृश्यते ॥१२-२९५-२१॥
यदा तु गुणजालं तत्प्राकृतं विजुगुप्सते। पश्यते चापरं पश्यं तदा पश्यन्न सञ्ज्वरेत् ॥१२-२९५-२२॥
किं मया कृतमेतावद्योऽहं कालमिमं जनम्। मत्स्यो जालं ह्यविज्ञानादनुवर्तितवांस्तथा ॥१२-२९५-२३॥
अहमेव हि संमोहादन्यमन्यं जनाज्जनम्। मत्स्यो यथोदकज्ञानादनुवर्तितवानिह ॥१२-२९५-२४॥
मत्स्योऽन्यत्वं यथाज्ञानादुदकान्नाभिमन्यते। आत्मानं तद्वदज्ञानादन्यत्वं चैव वेद्म्यहम् ॥१२-२९५-२५॥
ममास्तु धिगबुद्धस्य योऽहं मग्नमिमं पुनः। अनुवर्तितवान्मोहादन्यमन्यं जनाज्जनम् ॥१२-२९५-२६॥
अयमत्र भवेद्बन्धुरनेन सह मोक्षणम्। साम्यमेकत्वमायातो यादृशस्तादृशस्त्वहम् ॥१२-२९५-२७॥
तुल्यतामिह पश्यामि सदृशोऽहमनेन वै। अयं हि विमलो व्यक्तमहमीदृशकस्तथा ॥१२-२९५-२८॥
योऽहमज्ञानसंमोहादज्ञया सम्प्रवृत्तवान्। ससङ्गयाहं निःसङ्गः स्थितः कालमिमं त्वहम् ॥१२-२९५-२९॥
अनयाहं वशीभूतः कालमेतं न बुद्धवान्। उच्चमध्यमनीचानां तामहं कथमावसे ॥१२-२९५-३०॥
समानयानया चेह सहवासमहं कथम्। गच्छाम्यबुद्धभावत्वादेषेदानीं स्थिरो भवे ॥१२-२९५-३१॥
सहवासं न यास्यामि कालमेतद्धि वञ्चनात्। वञ्चितोऽस्म्यनया यद्धि निर्विकारो विकारया ॥१२-२९५-३२॥
न चायमपराधोऽस्या अपराधो ह्ययं मम। योऽहमत्राभवं सक्तः पराङ्मुखमुपस्थितः ॥१२-२९५-३३॥
ततोऽस्मि बहुरूपासु स्थितो मूर्तिष्वमूर्तिमान्। अमूर्तश्चापि मूर्तात्मा ममत्वेन प्रधर्षितः ॥१२-२९५-३४॥
प्रकृतेरनयत्वेन तासु तास्विह योनिषु। निर्ममस्य ममत्वेन किं कृतं तासु तासु च ॥ योनीषु वर्तमानेन नष्टसञ्ज्ञेन चेतसा ॥१२-२९५-३५॥
न ममात्रानया कार्यमहङ्कारकृतात्मया। आत्मानं बहुधा कृत्वा येयं भूयो युनक्ति माम् ॥ इदानीमेष बुद्धोऽस्मि निर्ममो निरहङ्कृतः ॥१२-२९५-३६॥
ममत्वमनया नित्यमहङ्कारकृतात्मकम्। अपेत्याहमिमां हित्वा संश्रयिष्ये निरामयम् ॥१२-२९५-३७॥
अनेन साम्यं यास्यामि नानयाहमचेतसा। क्षमं मम सहानेन नैकत्वमनया सह ॥ एवं परमसम्बोधात्पञ्चविंशोऽनुबुद्धवान् ॥१२-२९५-३८॥
अक्षरत्वं नियच्छेत त्यक्त्वा क्षरमनामयम्। अव्यक्तं व्यक्तधर्माणं सगुणं निर्गुणं तथा ॥ निर्गुणं प्रथमं दृष्ट्वा तादृग्भवति मैथिल ॥१२-२९५-३९॥
अक्षरक्षरयोरेतदुक्तं तव निदर्शनम्। मयेह ज्ञानसम्पन्नं यथाश्रुतिनिदर्शनात् ॥१२-२९५-४०॥
निःसंदिग्धं च सूक्ष्मं च विबुद्धं विमलं तथा। प्रवक्ष्यामि तु ते भूयस्तन्निबोध यथाश्रुतम् ॥१२-२९५-४१॥
साङ्ख्ययोगौ मया प्रोक्तौ शास्त्रद्वयनिदर्शनात्। यदेव शास्त्रं साङ्ख्योक्तं योगदर्शनमेव तत् ॥१२-२९५-४२॥
प्रबोधनकरं ज्ञानं साङ्ख्यानामवनीपते। विस्पष्टं प्रोच्यते तत्र शिष्याणां हितकाम्यया ॥१२-२९५-४३॥
बृहच्चैव हि तच्छास्त्रमित्याहुः कुशला जनाः। अस्मिंश्च शास्त्रे योगानां पुनर्दधि पुनः शरः ॥१२-२९५-४४॥
पञ्चविंशात्परं तत्त्वं न पश्यति नराधिप। साङ्ख्यानां तु परं तत्र यथावदनुवर्णितम् ॥१२-२९५-४५॥
बुद्धमप्रतिबुद्धं च बुध्यमानं च तत्त्वतः। बुध्यमानं च बुद्धं च प्राहुर्योगनिदर्शनम् ॥१२-२९५-४६॥

...

ॐ असतो मा सद्गमय। तमसो मा ज्योतिर्गमय। मृत्योर्माऽमृतं गमय। ॐ शान्ति: शान्ति: शान्ति: ॥ - बृहदारण्यकोपनिषद् 1.3.28
"Ōm! Lead me from the unreal to the real, from darkness to light, and from death to immortality. Let there be peace, peace, and peace. Ōm!" - Brihadaranyaka Upanishad 1.3.28

Copyright © 2025, Incredible Wisdom.
All rights reserved.