12.296
वसिष्ठ उवाच॥
अप्रबुद्धमथाव्यक्तमिमं गुणविधिं शृणु। गुणान्धारयते ह्येषा सृजत्याक्षिपते तथा ॥१२-२९६-१॥
अजस्रं त्विह क्रीडार्थं विकुर्वन्ती नराधिप। आत्मानं बहुधा कृत्वा तान्येव च विचक्षते ॥१२-२९६-२॥
एतदेवं विकुर्वाणां बुध्यमानो न बुध्यते। अव्यक्तबोधनाच्चैव बुध्यमानं वदन्त्यपि ॥१२-२९६-३॥
न त्वेव बुध्यतेऽव्यक्तं सगुणं वाथ निर्गुणम्। कदाचित्त्वेव खल्वेतदाहुरप्रतिबुद्धकम् ॥१२-२९६-४॥
बुध्यते यदि वाव्यक्तमेतद्वै पञ्चविंशकम्। बुध्यमानो भवत्येष सङ्गात्मक इति श्रुतिः ॥१२-२९६-५॥
अनेनाप्रतिबुद्धेति वदन्त्यव्यक्तमच्युतम्। अव्यक्तबोधनाच्चैव बुध्यमानं वदन्त्युत ॥१२-२९६-६॥
पञ्चविंशं महात्मानं न चासावपि बुध्यते। षड्विंशं विमलं बुद्धमप्रमेयं सनातनम् ॥१२-२९६-७॥
सततं पञ्चविंशं च चतुर्विंशं च बुध्यते। दृश्यादृश्ये ह्यनुगतमुभावेव महाद्युती ॥१२-२९६-८॥
अव्यक्तं न तु तद्ब्रह्म बुध्यते तात केवलम्। केवलं पञ्चविंशं च चतुर्विंशं न पश्यति ॥१२-२९६-९॥
बुध्यमानो यदात्मानमन्योऽहमिति मन्यते। तदा प्रकृतिमानेष भवत्यव्यक्तलोचनः ॥१२-२९६-१०॥
बुध्यते च परां बुद्धिं विशुद्धाममलां यदा। षड्विंशो राजशार्दूल तदा बुद्धत्वमाव्रजेत् ॥१२-२९६-११॥
ततस्त्यजति सोऽव्यक्तं सर्गप्रलयधर्मिणम्। निर्गुणः प्रकृतिं वेद गुणयुक्तामचेतनाम् ॥१२-२९६-१२॥
ततः केवलधर्मासौ भवत्यव्यक्तदर्शनात्। केवलेन समागम्य विमुक्तोऽऽत्मानमाप्नुयात् ॥१२-२९६-१३॥
एतत्तत्तत्त्वमित्याहुर्निस्तत्त्वमजरामरम्। तत्त्वसंश्रयणादेतत्तत्त्ववन्न च मानद ॥ पञ्चविंशतितत्त्वानि प्रवदन्ति मनीषिणः ॥१२-२९६-१४॥
न चैष तत्त्ववांस्तात निस्तत्त्वस्त्वेष बुद्धिमान्। एष मुञ्चति तत्त्वं हि क्षिप्रं बुद्धस्य लक्षणम् ॥१२-२९६-१५॥
षड्विंशोऽहमिति प्राज्ञो गृह्यमाणोऽजरामरः। केवलेन बलेनैव समतां यात्यसंशयम् ॥१२-२९६-१६॥
षड्विंशेन प्रबुद्धेन बुध्यमानोऽप्यबुद्धिमान्। एतन्नानात्वमित्युक्तं साङ्ख्यश्रुतिनिदर्शनात् ॥१२-२९६-१७॥
चेतनेन समेतस्य पञ्चविंशतिकस्य च। एकत्वं वै भवत्यस्य यदा बुद्ध्या न बुध्यते ॥१२-२९६-१८॥
बुध्यमानोऽप्रबुद्धेन समतां याति मैथिल। सङ्गधर्मा भवत्येष निःसङ्गात्मा नराधिप ॥१२-२९६-१९॥
निःसङ्गात्मानमासाद्य षड्विंशकमजं विदुः। विभुस्त्यजति चाव्यक्तं यदा त्वेतद्विबुध्यते ॥ चतुर्विंशमगाधं च षड्विंशस्य प्रबोधनात् ॥१२-२९६-२०॥
एष ह्यप्रतिबुद्धश्च बुध्यमानश्च तेऽनघ। प्रोक्तो बुद्धश्च तत्त्वेन यथाश्रुतिनिदर्शनात् ॥ नानात्वैकत्वमेतावद्द्रष्टव्यं शास्त्रदृष्टिभिः ॥१२-२९६-२१॥
मशकोदुम्बरे यद्वदन्यत्वं तद्वदेतयोः। मत्स्योऽम्भसि यथा तद्वदन्यत्वमुपलभ्यते ॥१२-२९६-२२॥
एवमेवावगन्तव्यं नानात्वैकत्वमेतयोः। एतद्विमोक्ष इत्युक्तमव्यक्तज्ञानसंहितम् ॥१२-२९६-२३॥
पञ्चविंशतिकस्यास्य योऽयं देहेषु वर्तते। एष मोक्षयितव्येति प्राहुरव्यक्तगोचरात् ॥१२-२९६-२४॥
सोऽयमेवं विमुच्येत नान्यथेति विनिश्चयः। परेण परधर्मा च भवत्येष समेत्य वै ॥१२-२९६-२५॥
विशुद्धधर्मा शुद्धेन बुद्धेन च स बुद्धिमान्। विमुक्तधर्मा मुक्तेन समेत्य पुरुषर्षभ ॥१२-२९६-२६॥
नियोगधर्मिणा चैव नियोगात्मा भवत्यपि। विमोक्षिणा विमोक्षश्च समेत्येह तथा भवेत् ॥१२-२९६-२७॥
शुचिकर्मा शुचिश्चैव भवत्यमितदीप्तिमान्। विमलात्मा च भवति समेत्य विमलात्मना ॥१२-२९६-२८॥
केवलात्मा तथा चैव केवलेन समेत्य वै। स्वतन्त्रश्च स्वतन्त्रेण स्वतन्त्रत्वमवाप्नुते ॥१२-२९६-२९॥
एतावदेतत्कथितं मया ते; तथ्यं महाराज यथार्थतत्त्वम्। अमत्सरत्वं प्रतिगृह्य चार्थं; सनातनं ब्रह्म विशुद्धमाद्यम् ॥१२-२९६-३०॥
न वेदनिष्ठस्य जनस्य राज; न्प्रदेयमेतत्परमं त्वया भवेत्। विवित्समानाय विबोधकारकं; प्रबोधहेतोः प्रणतस्य शासनम् ॥१२-२९६-३१॥
न देयमेतच्च तथानृतात्मने; शठाय क्लीबाय न जिह्मबुद्धये। न पण्डितज्ञानपरोपतापिने; देयं त्वयेदं विनिबोध यादृशे ॥१२-२९६-३२॥
श्रद्धान्वितायाथ गुणान्विताय; परापवादाद्विरताय नित्यम्। विशुद्धयोगाय बुधाय चैव; क्रियावतेऽथ क्षमिणे हिताय ॥१२-२९६-३३॥
विविक्तशीलाय विधिप्रियाय; विवादहीनाय बहुश्रुताय। विजानते चैव न चाहितक्षमे; दमे च शक्ताय शमे च देहिनाम् ॥१२-२९६-३४॥
एतैर्गुणैर्हीनतमे न देय; मेतत्परं ब्रह्म विशुद्धमाहुः। न श्रेयसा योक्ष्यति तादृशे कृतं; धर्मप्रवक्तारमपात्रदानात् ॥१२-२९६-३५॥
पृथ्वीमिमां यद्यपि रत्नपूर्णां; दद्यान्नदेयं त्विदमव्रताय। जितेन्द्रियायैतदसंशयं ते; भवेत्प्रदेयं परमं नरेन्द्र ॥१२-२९६-३६॥
कराल मा ते भयमस्तु किं चि; देतच्छ्रुतं ब्रह्म परं त्वयाद्य। यथावदुक्तं परमं पवित्रं; निःशोकमत्यन्तमनादिमध्यम् ॥१२-२९६-३७॥
अगाधजन्मामरणं च राज; न्निरामयं वीतभयं शिवं च। समीक्ष्य मोहं त्यज चाद्य सर्वं; ज्ञानस्य तत्त्वार्थमिदं विदित्वा ॥१२-२९६-३८॥
अवाप्तमेतद्धि पुरा सनातना; द्धिरण्यगर्भाद्गदतो नराधिप। प्रसाद्य यत्नेन तमुग्रतेजसं; सनातनं ब्रह्म यथाद्य वै त्वया ॥१२-२९६-३९॥
पृष्टस्त्वया चास्मि यथा नरेन्द्र; तथा मयेदं त्वयि चोक्तमद्य। तथावाप्तं ब्रह्मणो मे नरेन्द्र; महज्ज्ञानं मोक्षविदां पुराणम् ॥१२-२९६-४०॥
भीष्म उवाच॥
एतदुक्तं परं ब्रह्म यस्मान्नावर्तते पुनः। पञ्चविंशो महाराज परमर्षिनिदर्शनात् ॥१२-२९६-४१॥
पुनरावृत्तिमाप्नोति परं ज्ञानमवाप्य च। नावबुध्यति तत्त्वेन बुध्यमानोऽजरामरः ॥१२-२९६-४२॥
एतन्निःश्रेयसकरं ज्ञानानां ते परं मया। कथितं तत्त्वतस्तात श्रुत्वा देवर्षितो नृप ॥१२-२९६-४३॥
हिरण्यगर्भादृषिणा वसिष्ठेन महात्मना। वसिष्ठादृषिशार्दूलान्नारदोऽवाप्तवानिदम् ॥१२-२९६-४४॥
नारदाद्विदितं मह्यमेतद्ब्रह्म सनातनम्। मा शुचः कौरवेन्द्र त्वं श्रुत्वैतत्परमं पदम् ॥१२-२९६-४५॥
येन क्षराक्षरे वित्ते न भयं तस्य विद्यते। विद्यते तु भयं तस्य यो नैतद्वेत्ति पार्थिव ॥१२-२९६-४६॥
अविज्ञानाच्च मूढात्मा पुनः पुनरुपद्रवन्। प्रेत्य जातिसहस्राणि मरणान्तान्युपाश्नुते ॥१२-२९६-४७॥
देवलोकं तथा तिर्यङ्मानुष्यमपि चाश्नुते। यदि शुध्यति कालेन तस्मादज्ञानसागरात् ॥१२-२९६-४८॥
अज्ञानसागरो घोरो ह्यव्यक्तोऽगाध उच्यते। अहन्यहनि मज्जन्ति यत्र भूतानि भारत ॥१२-२९६-४९॥
यस्मादगाधादव्यक्तादुत्तीर्णस्त्वं सनातनात्। तस्मात्त्वं विरजाश्चैव वितमस्कश्च पार्थिव ॥१२-२९६-५०॥