Mahabharata - Shanti Parva (महाभारत - शान्तिपर्वम्)
12.297
भीष्म उवाच॥
मृगयां विचरन्कश्चिद्विजने जनकात्मजः। वने ददर्श विप्रेन्द्रमृषिं वंशधरं भृगोः ॥१२-२९७-१॥
तमासीनमुपासीनः प्रणम्य शिरसा मुनिम्। पश्चादनुमतस्तेन पप्रच्छ वसुमानिदम् ॥१२-२९७-२॥
भगवन्किमिदं श्रेयः प्रेत्य वापीह वा भवेत्। पुरुषस्याध्रुवे देहे कामस्य वशवर्तिनः ॥१२-२९७-३॥
सत्कृत्य परिपृष्टः सन्सुमहात्मा महातपाः। निजगाद ततस्तस्मै श्रेयस्करमिदं वचः ॥१२-२९७-४॥
मनसोऽप्रतिकूलानि प्रेत्य चेह च वाञ्छसि। भूतानां प्रतिकूलेभ्यो निवर्तस्व यतेन्द्रियः ॥१२-२९७-५॥
धर्मः सतां हितः पुंसां धर्मश्चैवाश्रयः सताम्। धर्माल्लोकास्त्रयस्तात प्रवृत्ताः सचराचराः ॥१२-२९७-६॥
स्वादुकामुक कामानां वैतृष्ण्यं किं न गच्छसि। मधु पश्यसि दुर्बुद्धे प्रपातं नानुपश्यसि ॥१२-२९७-७॥
यथा ज्ञाने परिचयः कर्तव्यस्तत्फलार्थिना। तथा धर्मे परिचयः कर्तव्यस्तत्फलार्थिना ॥१२-२९७-८॥
असता धर्मकामेन विशुद्धं कर्म दुष्करम्। सता तु धर्मकामेन सुकरं कर्म दुष्करम् ॥१२-२९७-९॥
वने ग्राम्यसुखाचारो यथा ग्राम्यस्तथैव सः। ग्रामे वनसुखाचारो यथा वनचरस्तथा ॥१२-२९७-१०॥
मनोवाक्कर्मके धर्मे कुरु श्रद्धां समाहितः। निवृत्तौ वा प्रवृत्तौ वा सम्प्रधार्य गुणागुणान् ॥१२-२९७-११॥
नित्यं च बहु दातव्यं साधुभ्यश्चानसूयता। प्रार्थितं व्रतशौचाभ्यां सत्कृतं देशकालयोः ॥१२-२९७-१२॥
शुभेन विधिना लब्धमर्हाय प्रतिपादयेत्। क्रोधमुत्सृज्य दत्त्वा च नानुतप्येन्न कीर्तयेत् ॥१२-२९७-१३॥
अनृशंसः शुचिर्दान्तः सत्यवागार्जवे स्थितः। योनिकर्मविशुद्धश्च पात्रं स्याद्वेदविद्द्विजः ॥१२-२९७-१४॥
सत्कृता चैकपत्नी च जात्या योनिरिहेष्यते। ऋग्यजुःसामगो विद्वान्षट्कर्मा पात्रमुच्यते ॥१२-२९७-१५॥
स एव धर्मः सोऽधर्मस्तं तं प्रतिनरं भवेत्। पात्रकर्मविशेषेण देशकालाववेक्ष्य च ॥१२-२९७-१६॥
लीलयाल्पं यथा गात्रात्प्रमृज्याद्रजसः पुमान्। बहुयत्नेन महता पापनिर्हरणं तथा ॥१२-२९७-१७॥
विरिक्तस्य यथा सम्यग्घृतं भवति भेषजम्। तथा निर्हृतदोषस्य प्रेत्यधर्मः सुखावहः ॥१२-२९७-१८॥
मानसं सर्वभूतेषु वर्तते वै शुभाशुभे। अशुभेभ्यः समाक्षिप्य शुभेष्वेवावतारयेत् ॥१२-२९७-१९॥
सर्वं सर्वेण सर्वत्र क्रियमाणं च पूजय। स्वधर्मे यत्र रागस्ते कामं धर्मो विधीयताम् ॥१२-२९७-२०॥
अधृतात्मन्धृतौ तिष्ठ दुर्बुद्धे बुद्धिमान्भव। अप्रशान्त प्रशाम्य त्वमप्राज्ञ प्राज्ञवच्चर ॥१२-२९७-२१॥
तेजसा शक्यते प्राप्तुमुपायसहचारिणा। इह च प्रेत्य च श्रेयस्तस्य मूलं धृतिः परा ॥१२-२९७-२२॥
राजर्षिरधृतिः स्वर्गात्पतितो हि महाभिषः। ययातिः क्षीणपुण्यश्च धृत्या लोकानवाप्तवान् ॥१२-२९७-२३॥
तपस्विनां धर्मवतां विदुषां चोपसेवनात्। प्राप्स्यसे विपुलां बुद्धिं तथा श्रेयोऽभिपत्स्यसे ॥१२-२९७-२४॥
स तु स्वभावसम्पन्नस्तच्छ्रुत्वा मुनिभाषितम्। विनिवर्त्य मनः कामाद्धर्मे बुद्धिं चकार ह ॥१२-२९७-२५॥

...

ॐ असतो मा सद्गमय। तमसो मा ज्योतिर्गमय। मृत्योर्माऽमृतं गमय। ॐ शान्ति: शान्ति: शान्ति: ॥ - बृहदारण्यकोपनिषद् 1.3.28
"Ōm! Lead me from the unreal to the real, from darkness to light, and from death to immortality. Let there be peace, peace, and peace. Ōm!" - Brihadaranyaka Upanishad 1.3.28

Copyright © 2025, Incredible Wisdom.
All rights reserved.