Mahabharata - Shanti Parva (महाभारत - शान्तिपर्वम्)
12.298
युधिष्ठिर उवाच॥
धर्माधर्मविमुक्तं यद्विमुक्तं सर्वसंश्रयात्। जन्ममृत्युविमुक्तं च विमुक्तं पुण्यपापयोः ॥१२-२९८-१॥
यच्छिवं नित्यमभयं नित्यं चाक्षरमव्ययम्। शुचि नित्यमनायासं तद्भवान्वक्तुमर्हति ॥१२-२९८-२॥
भीष्म उवाच॥
अत्र ते वर्तयिष्येऽहमितिहासं पुरातनम्। याज्ञवल्क्यस्य संवादं जनकस्य च भारत ॥१२-२९८-३॥
याज्ञवल्क्यमृषिश्रेष्ठं दैवरातिर्महायशाः। पप्रच्छ जनको राजा प्रश्नं प्रश्नविदां वरः ॥१२-२९८-४॥
कतीन्द्रियाणि विप्रर्षे कति प्रकृतयः स्मृताः। किमव्यक्तं परं ब्रह्म तस्माच्च परतस्तु किम् ॥१२-२९८-५॥
प्रभवं चाप्ययं चैव कालसङ्ख्यां तथैव च। वक्तुमर्हसि विप्रेन्द्र त्वदनुग्रहकाङ्क्षिणः ॥१२-२९८-६॥
अज्ञानात्परिपृच्छामि त्वं हि ज्ञानमयो निधिः। तदहं श्रोतुमिच्छामि सर्वमेतदसंशयम् ॥१२-२९८-७॥
याज्ञवल्क्य उवाच॥
श्रूयतामवनीपाल यदेतदनुपृच्छसि। योगानां परमं ज्ञानं साङ्ख्यानां च विशेषतः ॥१२-२९८-८॥
न तवाविदितं किञ्चिन्मां तु जिज्ञासते भवान्। पृष्टेन चापि वक्तव्यमेष धर्मः सनातनः ॥१२-२९८-९॥
अष्टौ प्रकृतयः प्रोक्ता विकाराश्चापि षोडश। अथ सप्त तु व्यक्तानि प्राहुरध्यात्मचिन्तकाः ॥१२-२९८-१०॥
अव्यक्तं च महांश्चैव तथाहङ्कार एव च। पृथिवी वायुराकाशमापो ज्योतिश्च पञ्चमम् ॥१२-२९८-११॥
एताः प्रकृतयस्त्वष्टौ विकारानपि मे शृणु। श्रोत्रं त्वक्चैव चक्षुश्च जिह्वा घ्राणं च पञ्चमम् ॥१२-२९८-१२॥
शब्दस्पर्शौ च रूपं च रसो गन्धस्तथैव च। वाक्च हस्तौ च पादौ च पायुर्मेढ्रं तथैव च ॥१२-२९८-१३॥
एते विशेषा राजेन्द्र महाभूतेषु पञ्चसु। बुद्धीन्द्रियाण्यथैतानि सविशेषाणि मैथिल ॥१२-२९८-१४॥
मनः षोडशकं प्राहुरध्यात्मगतिचिन्तकाः। त्वं चैवान्ये च विद्वांसस्तत्त्वबुद्धिविशारदाः ॥१२-२९८-१५॥
अव्यक्ताच्च महानात्मा समुत्पद्यति पार्थिव। प्रथमं सर्गमित्येतदाहुः प्राधानिकं बुधाः ॥१२-२९८-१६॥
महतश्चाप्यहङ्कार उत्पद्यति नराधिप। द्वितीयं सर्गमित्याहुरेतद्बुद्ध्यात्मकं स्मृतम् ॥१२-२९८-१७॥
अहङ्काराच्च सम्भूतं मनो भूतगुणात्मकम्। तृतीयः सर्ग इत्येष आहङ्कारिक उच्यते ॥१२-२९८-१८॥
मनसस्तु समुद्भूता महाभूता नराधिप। चतुर्थं सर्गमित्येतन्मानसं परिचक्षते ॥१२-२९८-१९॥
शब्दः स्पर्शश्च रूपं च रसो गन्धस्तथैव च। पञ्चमं सर्गमित्याहुर्भौतिकं भूतचिन्तकाः ॥१२-२९८-२०॥
श्रोत्रं त्वक्चैव चक्षुश्च जिह्वा घ्राणं च पञ्चमम्। सर्गं तु षष्ठमित्याहुर्बहुचिन्तात्मकं स्मृतम् ॥१२-२९८-२१॥
अधः श्रोत्रेन्द्रियग्राम उत्पद्यति नराधिप। सप्तमं सर्गमित्याहुरेतदैन्द्रियकं स्मृतम् ॥१२-२९८-२२॥
ऊर्ध्वस्रोतस्तथा तिर्यगुत्पद्यति नराधिप। अष्टमं सर्गमित्याहुरेतदार्जवकं बुधाः ॥१२-२९८-२३॥
तिर्यक्स्रोतस्त्वधःस्रोत उत्पद्यति नराधिप। नवमं सर्गमित्याहुरेतदार्जवकं बुधाः ॥१२-२९८-२४॥
एतानि नव सर्गाणि तत्त्वानि च नराधिप। चतुर्विंशतिरुक्तानि यथाश्रुति निदर्शनात् ॥१२-२९८-२५॥
अत ऊर्ध्वं महाराज गुणस्यैतस्य तत्त्वतः। महात्मभिरनुप्रोक्तां कालसङ्ख्यां निबोध मे ॥१२-२९८-२६॥

...

ॐ असतो मा सद्गमय। तमसो मा ज्योतिर्गमय। मृत्योर्माऽमृतं गमय। ॐ शान्ति: शान्ति: शान्ति: ॥ - बृहदारण्यकोपनिषद् 1.3.28
"Ōm! Lead me from the unreal to the real, from darkness to light, and from death to immortality. Let there be peace, peace, and peace. Ōm!" - Brihadaranyaka Upanishad 1.3.28

Copyright © 2025, Incredible Wisdom.
All rights reserved.