12.299
याज्ञवल्क्य उवाच॥
अव्यक्तस्य नरश्रेष्ठ कालसङ्ख्यां निबोध मे। पञ्च कल्पसहस्राणि द्विगुणान्यहरुच्यते ॥१२-२९९-१॥
रात्रिरेतावती चास्य प्रतिबुद्धो नराधिप। सृजत्योषधिमेवाग्रे जीवनं सर्वदेहिनाम् ॥१२-२९९-२॥
ततो ब्रह्माणमसृजद्धैरण्याण्डसमुद्भवम्। सा मूर्तिः सर्वभूतानामित्येवमनुशुश्रुम ॥१२-२९९-३॥
संवत्सरमुषित्वाण्डे निष्क्रम्य च महामुनिः। संदधेऽर्धं महीं कृत्स्नां दिवमर्धं प्रजापतिः ॥१२-२९९-४॥
द्यावापृथिव्योरित्येष राजन्वेदेषु पठ्यते। तयोः शकलयोर्मध्यमाकाशमकरोत्प्रभुः ॥१२-२९९-५॥
एतस्यापि च सङ्ख्यानं वेदवेदाङ्गपारगैः। दश कल्पसहस्राणि पादोनान्यहरुच्यते ॥ रात्रिमेतावतीं चास्य प्राहुरध्यात्मचिन्तकाः ॥१२-२९९-६॥
सृजत्यहङ्कारमृषिर्भूतं दिव्यात्मकं तथा। चतुरश्चापरान्पुत्रान्देहात्पूर्वं महानृषिः ॥ ते वै पितृभ्यः पितरः श्रूयन्ते राजसत्तम ॥१२-२९९-७॥
देवाः पितॄणां च सुता देवैर्लोकाः समावृताः। चराचरा नरश्रेष्ठ इत्येवमनुशुश्रुम ॥१२-२९९-८॥
परमेष्ठी त्वहङ्कारोऽसृजद्भूतानि पञ्चधा। पृथिवी वायुराकाशमापो ज्योतिश्च पञ्चमम् ॥१२-२९९-९॥
एतस्यापि निशामाहुस्तृतीयमिह कुर्वतः। पञ्च कल्पसहस्राणि तावदेवाहरुच्यते ॥१२-२९९-१०॥
शब्दः स्पर्शश्च रूपं च रसो गन्धश्च पञ्चमः। एते विशेषा राजेन्द्र महाभूतेषु पञ्चसु ॥ यैराविष्टानि भूतानि अहन्यहनि पार्थिव ॥१२-२९९-११॥
अन्योन्यं स्पृहयन्त्येते अन्योन्यस्य हिते रताः। अन्योन्यमभिमन्यन्ते अन्योन्यस्पर्धिनस्तथा ॥१२-२९९-१२॥
ते वध्यमाना अन्योन्यं गुणैर्हारिभिरव्ययाः। इहैव परिवर्तन्ते तिर्यग्योनिप्रवेशिनः ॥१२-२९९-१३॥
त्रीणि कल्पसहस्राणि एतेषामहरुच्यते। रत्रिरेतावती चैव मनसश्च नराधिप ॥१२-२९९-१४॥
मनश्चरति राजेन्द्र चरितं सर्वमिन्द्रियैः। न चेन्द्रियाणि पश्यन्ति मन एवात्र पश्यति ॥१२-२९९-१५॥
चक्षुः पश्यति रूपाणि मनसा तु न चक्षुषा। मनसि व्याकुले चक्षुः पश्यन्नपि न पश्यति ॥ तथेन्द्रियाणि सर्वाणि पश्यन्तीत्यभिचक्षते ॥१२-२९९-१६॥
मनस्युपरते राजन्निन्द्रियोपरमो भवेत्। न चेन्द्रियव्युपरमे मनस्युपरमो भवेत् ॥ एवं मनःप्रधानानि इन्द्रियाणि विभावयेत् ॥१२-२९९-१७॥
इन्द्रियाणां हि सर्वेषामीश्वरं मन उच्यते। एतद्विशन्ति भूतानि सर्वाणीह महायशाः ॥१२-२९९-१८॥