Mahabharata - Shanti Parva (महाभारत - शान्तिपर्वम्)
12.300
याज्ञवल्क्य उवाच॥
तत्त्वानां सर्गसङ्ख्या च कालसङ्ख्या तथैव च। मया प्रोक्तानुपूर्व्येण संहारमपि मे शृणु ॥१२-३००-१॥
यथा संहरते जन्तून्ससर्ज च पुनः पुनः। अनादिनिधनो ब्रह्मा नित्यश्चाक्षर एव च ॥१२-३००-२॥
अहःक्षयमथो बुद्ध्वा निशि स्वप्नमनास्तथा। चोदयामास भगवानव्यक्तोऽहङ्कृतं नरम् ॥१२-३००-३॥
ततः शतसहस्रांशुरव्यक्तेनाभिचोदितः। कृत्वा द्वादशधात्मानमादित्यो ज्वलदग्निवत् ॥१२-३००-४॥
चतुर्विधं प्रजाजालं निर्दहत्याशु तेजसा। जराय्वण्डस्वेदजातमुद्भिज्जं च नराधिप ॥१२-३००-५॥
एतदुन्मेषमात्रेण विनिष्टं स्थाणुजङ्गमम्। कूर्मपृष्ठसमा भूमिर्भवत्यथ समन्ततः ॥१२-३००-६॥
जगद्दग्ध्वामितबलः केवलं जगतीं ततः। अम्भसा बलिना क्षिप्रमापूर्यत समन्ततः ॥१२-३००-७॥
ततः कालाग्निमासाद्य तदम्भो याति सङ्क्षयम्। विनष्टेऽम्भसि राजेन्द्र जाज्वलीत्यनलो महान् ॥१२-३००-८॥
तमप्रमेयोऽतिबलं ज्वलमानं विभावसुम्। ऊष्माणं सर्वभूतानां सप्तार्चिषमथाञ्जसा ॥१२-३००-९॥
भक्षयामास बलवान्वायुरष्टात्मको बली। विचरन्नमितप्राणस्तिर्यगूर्ध्वमधस्तथा ॥१२-३००-१०॥
तमप्रतिबलं भीममाकाशं ग्रसतेऽऽत्मना। आकाशमप्यतिनदन्मनो ग्रसति चारिकम् ॥१२-३००-११॥
मनो ग्रसति सर्वात्मा सोऽहङ्कारः प्रजापतिः। अहङ्कारं महानात्मा भूतभव्यभविष्यवित् ॥१२-३००-१२॥
तमप्यनुपमात्मानं विश्वं शम्भुः प्रजापतिः। अणिमा लघिमा प्राप्तिरीशानो ज्योतिरव्ययः ॥१२-३००-१३॥
सर्वतःपाणिपादान्तः सर्वतोक्षिशिरोमुखः। सर्वतःश्रुतिमाँल्लोके सर्वमावृत्य तिष्ठति ॥१२-३००-१४॥
हृदयं सर्वभूतानां पर्वणोऽङ्गुष्ठमात्रकः। अनुग्रसत्यनन्तं हि महात्मा विश्वमीश्वरः ॥१२-३००-१५॥
ततः समभवत्सर्वमक्षयाव्ययमव्रणम्। भूतभव्यमनुष्याणां स्रष्टारमनघं तथा ॥१२-३००-१६॥
एषोऽप्ययस्ते राजेन्द्र यथावत्परिभाषितः। अध्यात्ममधिभूतं च अधिदैवं च श्रूयताम् ॥१२-३००-१७॥

...

ॐ असतो मा सद्गमय। तमसो मा ज्योतिर्गमय। मृत्योर्माऽमृतं गमय। ॐ शान्ति: शान्ति: शान्ति: ॥ - बृहदारण्यकोपनिषद् 1.3.28
"Ōm! Lead me from the unreal to the real, from darkness to light, and from death to immortality. Let there be peace, peace, and peace. Ōm!" - Brihadaranyaka Upanishad 1.3.28

Copyright © 2025, Incredible Wisdom.
All rights reserved.