Mahabharata - Shanti Parva (महाभारत - शान्तिपर्वम्)
12.301
याज्ञवल्क्य उवाच॥
पादावध्यात्ममित्याहुर्ब्राह्मणास्तत्त्वदर्शिनः। गन्तव्यमधिभूतं च विष्णुस्तत्राधिदैवतम् ॥१२-३०१-१॥
पायुरध्यात्ममित्याहुर्यथातत्त्वार्थदर्शिनः। विसर्गमधिभूतं च मित्रस्तत्राधिदैवतम् ॥१२-३०१-२॥
उपस्थोऽध्यात्ममित्याहुर्यथायोगनिदर्शनम्। अधिभूतं तथानन्दो दैवतं च प्रजापतिः ॥१२-३०१-३॥
हस्तावध्यात्ममित्याहुर्यथासाङ्ख्यनिदर्शनम्। कर्तव्यमधिभूतं तु इन्द्रस्तत्राधिदैवतम् ॥१२-३०१-४॥
वागध्यात्ममिति प्राहुर्यथाश्रुतिनिदर्शनम्। वक्तव्यमधिभूतं तु वह्निस्तत्राधिदैवतम् ॥१२-३०१-५॥
चक्षुरध्यात्ममित्याहुर्यथाश्रुतिनिदर्शनम्। रूपमत्राधिभूतं तु सूर्यस्तत्राधिदैवतम् ॥१२-३०१-६॥
श्रोत्रमध्यात्ममित्याहुर्यथाश्रुतिनिदर्शनम्। शब्दस्तत्राधिभूतं तु दिशस्तत्राधिदैवतम् ॥१२-३०१-७॥
जिह्वामध्यात्ममित्याहुर्यथातत्त्वनिदर्शनम्। रस एवाधिभूतं तु आपस्तत्राधिदैवतम् ॥१२-३०१-८॥
घ्राणमध्यात्ममित्याहुर्यथाश्रुतिनिदर्शनम्। गन्ध एवाधिभूतं तु पृथिवी चाधिदैवतम् ॥१२-३०१-९॥
त्वगध्यात्ममिति प्राहुस्तत्त्वबुद्धिविशारदाः। स्पर्श एवाधिभूतं तु पवनश्चाधिदैवतम् ॥१२-३०१-१०॥
मनोऽध्यात्ममिति प्राहुर्यथाश्रुतिनिदर्शनम्। मन्तव्यमधिभूतं तु चन्द्रमाश्चाधिदैवतम् ॥१२-३०१-११॥
अहङ्कारिकमध्यात्ममाहुस्तत्त्वनिदर्शनम्। अभिमानोऽधिभूतं तु भवस्तत्राधिदैवतम् ॥१२-३०१-१२॥
बुद्धिरध्यात्ममित्याहुर्यथावेदनिदर्शनम्। बोद्धव्यमधिभूतं तु क्षेत्रज्ञोऽत्राधिदैवतम् ॥१२-३०१-१३॥
एषा ते व्यक्ततो राजन्विभूतिरनुवर्णिता। आदौ मध्ये तथा चान्ते यथातत्त्वेन तत्त्ववित् ॥१२-३०१-१४॥
प्रकृतिर्गुणान्विकुरुते स्वच्छन्देनात्मकाम्यया। क्रीडार्थं तु महाराज शतशोऽथ सहस्रशः ॥१२-३०१-१५॥
यथा दीपसहस्राणि दीपान्मर्त्याः प्रकुर्वते। प्रकृतिस्तथा विकुरुते पुरुषस्य गुणान्बहून् ॥१२-३०१-१६॥
सत्त्वमानन्द उद्रेकः प्रीतिः प्राकाश्यमेव च। सुखं शुद्धित्वमारोग्यं सन्तोषः श्रद्दधानता ॥१२-३०१-१७॥
अकार्पण्यमसंरम्भः क्षमा धृतिरहिंसता। समता सत्यमानृण्यं मार्दवं ह्रीरचापलम् ॥१२-३०१-१८॥
शौचमार्जवमाचारमलौल्यं हृद्यसम्भ्रमः। इष्टानिष्टवियोगानां कृतानामविकत्थनम् ॥१२-३०१-१९॥
दानेन चानुग्रहणमस्पृहार्थे परार्थता। सर्वभूतदया चैव सत्त्वस्यैते गुणाः स्मृताः ॥१२-३०१-२०॥
रजोगुणानां सङ्घातो रूपमैश्वर्यविग्रहे। अत्याशित्वमकारुण्यं सुखदुःखोपसेवनम् ॥१२-३०१-२१॥
परापवादेषु रतिर्विवादानां च सेवनम्। अहङ्कारस्त्वसत्कारश्चिन्ता वैरोपसेवनम् ॥१२-३०१-२२॥
परितापोऽपहरणं ह्रीनाशोऽनार्जवं तथा। भेदः परुषता चैव कामक्रोधौ मदस्तथा ॥ दर्पो द्वेषोऽतिवादश्च एते प्रोक्ता रजोगुणाः ॥१२-३०१-२३॥
तामसानां तु सङ्घातं प्रवक्ष्याम्युपधार्यताम्। मोहोऽप्रकाशस्तामिस्रमन्धतामिस्रसञ्ज्ञितम् ॥१२-३०१-२४॥
मरणं चान्धतामिस्रं तामिस्रं क्रोध उच्यते। तमसो लक्षणानीह भक्षाणामभिरोचनम् ॥१२-३०१-२५॥
भोजनानामपर्याप्तिस्तथा पेयेष्वतृप्तता। गन्धवासो विहारेषु शयनेष्वासनेषु च ॥१२-३०१-२६॥
दिवास्वप्ने विवादे च प्रमादेषु च वै रतिः। नृत्यवादित्रगीतानामज्ञानाच्छ्रद्दधानता ॥ द्वेषो धर्मविशेषाणामेते वै तामसा गुणाः ॥१२-३०१-२७॥

...

ॐ असतो मा सद्गमय। तमसो मा ज्योतिर्गमय। मृत्योर्माऽमृतं गमय। ॐ शान्ति: शान्ति: शान्ति: ॥ - बृहदारण्यकोपनिषद् 1.3.28
"Ōm! Lead me from the unreal to the real, from darkness to light, and from death to immortality. Let there be peace, peace, and peace. Ōm!" - Brihadaranyaka Upanishad 1.3.28

Copyright © 2025, Incredible Wisdom.
All rights reserved.