12.303
याज्ञवल्क्य उवाच॥
न शक्यो निर्गुणस्तात गुणीकर्तुं विशां पते। गुणवांश्चाप्यगुणवान्यथातत्त्वं निबोध मे ॥१२-३०३-१॥
गुणैर्हि गुणवानेव निर्गुणश्चागुणस्तथा। प्राहुरेवं महात्मानो मुनयस्तत्त्वदर्शिनः ॥१२-३०३-२॥
गुणस्वभावस्त्वव्यक्तो गुणानेवाभिवर्तते। उपयुङ्क्ते च तानेव स चैवाज्ञः स्वभावतः ॥१२-३०३-३॥
अव्यक्तस्तु न जानीते पुरुषो ज्ञः स्वभावतः। न मत्तः परमस्तीति नित्यमेवाभिमन्यते ॥१२-३०३-४॥
अनेन कारणेनैतदव्यक्तं स्यादचेतनम्। नित्यत्वादक्षरत्वाच्च क्षराणां तत्त्वतोऽन्यथा ॥१२-३०३-५॥
यदाज्ञानेन कुर्वीत गुणसर्गं पुनः पुनः। यदात्मानं न जानीते तदाव्यक्तमिहोच्यते ॥१२-३०३-६॥
कर्तृत्वाच्चापि तत्त्वानां तत्त्वधर्मी तथोच्यते। कर्तृत्वाच्चैव योनीनां योनिधर्मा तथोच्यते ॥१२-३०३-७॥
कर्तृत्वात्प्रकृतीनां तु तथा प्रकृतिधर्मिता। कर्तृत्वाच्चापि बीजानां बीजधर्मी तथोच्यते ॥१२-३०३-८॥
गुणानां प्रसवत्वाच्च तथा प्रसवधर्मवान्। कर्तृत्वात्प्रलयानां च तथा प्रलयधर्मिता ॥१२-३०३-९॥
बीजत्वात्प्रकृतित्वाच्च प्रलयत्वात्तथैव च। उपेक्षकत्वादन्यत्वादभिमानाच्च केवलम् ॥१२-३०३-१०॥
मन्यन्ते यतयः शुद्धा अध्यात्मविगतज्वराः। अनित्यं नित्यमव्यक्तमेवमेतद्धि शुश्रुम ॥१२-३०३-११॥
अव्यक्तैकत्वमित्याहुर्नानात्वं पुरुषस्तथा। सर्वभूतदयावन्तः केवलं ज्ञानमास्थिताः ॥१२-३०३-१२॥
अन्यः स पुरुषोऽव्यक्तस्त्वध्रुवो ध्रुवसञ्ज्ञकः। यथा मुञ्ज इषीकायास्तथैवैतद्धि जायते ॥१२-३०३-१३॥
अन्यं च मशकं विद्यादन्यच्चोदुम्बरं तथा। न चोदुम्बरसंयोगैर्मशकस्तत्र लिप्यते ॥१२-३०३-१४॥
अन्य एव तथा मत्स्यस्तथान्यदुदकं स्मृतम्। न चोदकस्य स्पर्शेन मत्स्यो लिप्यति सर्वशः ॥१२-३०३-१५॥
अन्यो ह्यग्निरुखाप्यन्या नित्यमेवमवैहि भोः। न चोपलिप्यते सोऽग्निरुखासंस्पर्शनेन वै ॥१२-३०३-१६॥
पुष्करं त्वन्यदेवात्र तथान्यदुदकं स्मृतम्। न चोदकस्य स्पर्शेन लिप्यते तत्र पुष्करम् ॥१२-३०३-१७॥
एतेषां सह संवासं विवासं चैव नित्यशः। यथा तथैनं पश्यन्ति न नित्यं प्राकृता जनाः ॥१२-३०३-१८॥
ये त्वन्यथैव पश्यन्ति न सम्यक्तेषु दर्शनम्। ते व्यक्तं निरयं घोरं प्रविशन्ति पुनः पुनः ॥१२-३०३-१९॥
साङ्ख्यदर्शनमेतत्ते परिसङ्ख्यातमुत्तमम्। एवं हि परिसङ्ख्याय साङ्ख्याः केवलतां गताः ॥१२-३०३-२०॥
ये त्वन्ये तत्त्वकुशलास्तेषामेतन्निदर्शनम्। अतः परं प्रवक्ष्यामि योगानामपि दर्शनम् ॥१२-३०३-२१॥