12.302
याज्ञवल्क्य उवाच॥
एते प्रधानस्य गुणास्त्रयः पुरुषसत्तम। कृत्स्नस्य चैव जगतस्तिष्ठन्त्यनपगाः सदा ॥१२-३०२-१॥
शतधा सहस्रधा चैव तथा शतसहस्रधा। कोटिशश्च करोत्येष प्रत्यगात्मानमात्मना ॥१२-३०२-२॥
सात्त्विकस्योत्तमं स्थानं राजसस्येह मध्यमम्। तामसस्याधमं स्थानं प्राहुरध्यात्मचिन्तकाः ॥१२-३०२-३॥
केवलेनेह पुण्येन गतिमूर्ध्वामवाप्नुयात्। पुण्यपापेन मानुष्यमधर्मेणाप्यधोगतिम् ॥१२-३०२-४॥
द्वंद्वमेषां त्रयाणां तु संनिपातं च तत्त्वतः। सत्त्वस्य रजसश्चैव तमसश्च शृणुष्व मे ॥१२-३०२-५॥
सत्त्वस्य तु रजो दृष्टं रजसश्च तमस्तथा। तमसश्च तथा सत्त्वं सत्त्वस्याव्यक्तमेव च ॥१२-३०२-६॥
अव्यक्तसत्त्वसंयुक्तो देवलोकमवाप्नुयात्। रजःसत्त्वसमायुक्तो मनुष्येषूपपद्यते ॥१२-३०२-७॥
रजस्तमोभ्यां संयुक्तस्तिर्यग्योनिषु जायते। रजस्तामससत्त्वैश्च युक्तो मानुष्यमाप्नुयात् ॥१२-३०२-८॥
पुण्यपापवियुक्तानां स्थानमाहुर्मनीषिणाम्। शास्वतं चाव्ययं चैव अक्षरं चाभयं च यत् ॥१२-३०२-९॥
ज्ञानिनां सम्भवं श्रेष्ठं स्थानमव्रणमच्युतम्। अतीन्द्रियमबीजं च जन्ममृत्युतमोनुदम् ॥१२-३०२-१०॥
अव्यक्तस्थं परं यत्तत्पृष्टस्तेऽहं नराधिप। स एष प्रकृतिष्ठो हि तस्थुरित्यभिधीयते ॥१२-३०२-११॥
अचेतनश्चैष मतः प्रकृतिस्थश्च पार्थिव। एतेनाधिष्ठितश्चैव सृजते संहरत्यपि ॥१२-३०२-१२॥
जनक उवाच॥
अनादिनिधनावेतावुभावेव महामुने। अमूर्तिमन्तावचलावप्रकम्प्यौ च निर्व्रणौ ॥१२-३०२-१३॥
अग्राह्यावृषिशार्दूल कथमेको ह्यचेतनः। चेतनावांस्तथा चैकः क्षेत्रज्ञ इति भाषितः ॥१२-३०२-१४॥
त्वं हि विप्रेन्द्र कार्त्स्न्येन मोक्षधर्ममुपाससे। साकल्यं मोक्षधर्मस्य श्रोतुमिच्छामि तत्त्वतः ॥१२-३०२-१५॥
अस्तित्वं केवलत्वं च विनाभावं तथैव च। तथैवोत्क्रमणस्थानं देहिनोऽपि वियुज्यतः ॥१२-३०२-१६॥
कालेन यद्धि प्राप्नोति स्थानं तद्ब्रूहि मे द्विज। साङ्ख्यज्ञानं च तत्त्वेन पृथग्योगं तथैव च ॥१२-३०२-१७॥
अरिष्टानि च तत्त्वेन वक्तुमर्हसि सत्तम। विदितं सर्वमेतत्ते पाणावामलकं यथा ॥१२-३०२-१८॥