12.304
याज्ञवल्क्य उवाच॥
साङ्ख्यज्ञानं मया प्रोक्तं योगज्ञानं निबोध मे। यथाश्रुतं यथादृष्टं तत्त्वेन नृपसत्तम ॥१२-३०४-१॥
नास्ति साङ्ख्यसमं ज्ञानं नास्ति योगसमं बलम्। तावुभावेकचर्यौ तु उभावनिधनौ स्मृतौ ॥१२-३०४-२॥
पृथक्पृथक्तु पश्यन्ति येऽल्पबुद्धिरता नराः। वयं तु राजन्पश्याम एकमेव तु निश्चयात् ॥१२-३०४-३॥
यदेव योगाः पश्यन्ति तत्साङ्ख्यैरपि दृश्यते। एकं साङ्ख्यं च योगं च यः पश्यति स तत्त्ववित् ॥१२-३०४-४॥
रुद्रप्रधानानपरान्विद्धि योगान्परन्तप। तेनैव चाथ देहेन विचरन्ति दिशो दश ॥१२-३०४-५॥
यावद्धि प्रलयस्तात सूक्ष्मेणाष्टगुणेन वै। योगेन लोकान्विचरन्सुखं संन्यस्य चानघ ॥१२-३०४-६॥
वेदेषु चाष्टगुणितं योगमाहुर्मनीषिणः। सूक्ष्ममष्टगुणं प्राहुर्नेतरं नृपसत्तम ॥१२-३०४-७॥
द्विगुणं योगकृत्यं तु योगानां प्राहुरुत्तमम्। सगुणं निर्गुणं चैव यथाशास्त्रनिदर्शनम् ॥१२-३०४-८॥
धारणा चैव मनसः प्राणायामश्च पार्थिव। प्राणायामो हि सगुणो निर्गुणं धारणं मनः ॥१२-३०४-९॥
यत्र दृश्येत मुञ्चन्वै प्राणान्मैथिलसत्तम। वाताधिक्यं भवत्येव तस्माद्धि न समाचरेत् ॥१२-३०४-१०॥
निशायाः प्रथमे यामे चोदना द्वादश स्मृताः। मध्ये सुप्त्वा परे यामे द्वादशैव तु चोदनाः ॥१२-३०४-११॥
तदेवमुपशान्तेन दान्तेनैकान्तशीलिना। आत्मारामेण बुद्धेन योक्तव्योऽऽत्मा न संशयः ॥१२-३०४-१२॥
पञ्चानामिन्द्रियाणां तु दोषानाक्षिप्य पञ्चधा। शब्दं स्पर्शं तथा रूपं रसं गन्धं तथैव च ॥१२-३०४-१३॥
प्रतिभामपवर्गं च प्रतिसंहृत्य मैथिल। इन्द्रियग्राममखिलं मनस्यभिनिवेश्य ह ॥१२-३०४-१४॥
मनस्तथैवाहङ्कारे प्रतिष्ठाप्य नराधिप। अहङ्कारं तथा बुद्धौ बुद्धिं च प्रकृतावपि ॥१२-३०४-१५॥
एवं हि परिसङ्ख्याय ततो ध्यायेत केवलम्। विरजस्कमलं नित्यमनन्तं शुद्धमव्रणम् ॥१२-३०४-१६॥
तस्थुषं पुरुषं सत्त्वमभेद्यमजरामरम्। शाश्वतं चाव्ययं चैव ईशानं ब्रह्म चाव्ययम् ॥१२-३०४-१७॥
युक्तस्य तु महाराज लक्षणान्युपधारयेत्। लक्षणं तु प्रसादस्य यथा तृप्तः सुखं स्वपेत् ॥१२-३०४-१८॥
निवाते तु यथा दीपो ज्वलेत्स्नेहसमन्वितः। निश्चलोर्ध्वशिखस्तद्वद्युक्तमाहुर्मनीषिणः ॥१२-३०४-१९॥
पाषाण इव मेघोत्थैर्यथा बिन्दुभिराहतः। नालं चालयितुं शक्यस्तथा युक्तस्य लक्षणम् ॥१२-३०४-२०॥
शङ्खदुन्दुभिनिर्घोषैर्विविधैर्गीतवादितैः। क्रियमाणैर्न कम्पेत युक्तस्यैतन्निदर्शनम् ॥१२-३०४-२१॥
तैलपात्रं यथा पूर्णं कराभ्यां गृह्य पूरुषः। सोपानमारुहेद्भीतस्तर्ज्यमानोऽसिपाणिभिः ॥१२-३०४-२२॥
संयतात्मा भयात्तेषां न पात्राद्बिन्दुमुत्सृजेत्। तथैवोत्तरमाणस्य एकाग्रमनसस्तथा ॥१२-३०४-२३॥
स्थिरत्वादिन्द्रियाणां तु निश्चलत्वात्तथैव च। एवं युक्तस्य तु मुनेर्लक्षणान्युपधारयेत् ॥१२-३०४-२४॥
स युक्तः पश्यति ब्रह्म यत्तत्परममव्ययम्। महतस्तमसो मध्ये स्थितं ज्वलनसंनिभम् ॥१२-३०४-२५॥
एतेन केवलं याति त्यक्त्वा देहमसाक्षिकम्। कालेन महता राजञ्श्रुतिरेषा सनातनी ॥१२-३०४-२६॥
एतद्धि योगं योगानां किमन्ययोगलक्षणम्। विज्ञाय तद्धि मन्यन्ते कृतकृत्या मनीषिणः ॥१२-३०४-२७॥