Mahabharata - Shanti Parva (महाभारत - शान्तिपर्वम्)
12.306
याज्ञवल्क्य उवाच॥
अव्यक्तस्थं परं यत्तत्पृष्टस्तेऽहं नराधिप। परं गुह्यमिमं प्रश्नं शृणुष्वावहितो नृप ॥१२-३०६-१॥
यथार्षेणेह विधिना चरतावमतेन ह। मयादित्यादवाप्तानि यजूंषि मिथिलाधिप ॥१२-३०६-२॥
महता तपसा देवस्तपिष्ठः सेवितो मया। प्रीतेन चाहं विभुना सूर्येणोक्तस्तदानघ ॥१२-३०६-३॥
वरं वृणीष्व विप्रर्षे यदिष्टं ते सुदुर्लभम्। तत्ते दास्यामि प्रीतात्मा मत्प्रसादो हि दुर्लभः ॥१२-३०६-४॥
ततः प्रणम्य शिरसा मयोक्तस्तपतां वरः। यजूंषि नोपयुक्तानि क्षिप्रमिच्छामि वेदितुम् ॥१२-३०६-५॥
ततो मां भगवानाह वितरिष्यामि ते द्विज। सरस्वतीह वाग्भूता शरीरं ते प्रवेक्ष्यति ॥१२-३०६-६॥
ततो मामाह भगवानास्यं स्वं विवृतं कुरु। विवृतं च ततो मेऽऽस्यं प्रविष्टा च सरस्वती ॥१२-३०६-७॥
ततो विदह्यमानोऽहं प्रविष्टोऽम्भस्तदानघ। अविज्ञानादमर्षाच्च भास्करस्य महात्मनः ॥१२-३०६-८॥
ततो विदह्यमानं मामुवाच भगवान्रविः। मुहूर्तं सह्यतां दाहस्ततः शीतीभविष्यसि ॥१२-३०६-९॥
शीतीभूतं च मां दृष्ट्वा भगवानाह भास्करः। प्रतिष्ठास्यति ते वेदः सोत्तरः सखिलो द्विज ॥१२-३०६-१०॥
कृत्स्नं शतपथं चैव प्रणेष्यसि द्विजर्षभ। तस्यान्ते चापुनर्भावे बुद्धिस्तव भविष्यति ॥१२-३०६-११॥
प्राप्स्यसे च यदिष्टं तत्साङ्ख्ययोगेप्सितं पदम्। एतावदुक्त्वा भगवानस्तमेवाभ्यवर्तत ॥१२-३०६-१२॥
ततोऽनुव्याहृतं श्रुत्वा गते देवे विभावसौ। गृहमागत्य संहृष्टोऽचिन्तयं वै सरस्वतीम् ॥१२-३०६-१३॥
ततः प्रवृत्तातिशुभा स्वरव्यञ्जनभूषिता। ओङ्कारमादितः कृत्वा मम देवी सरस्वती ॥१२-३०६-१४॥
ततोऽहमर्घ्यं विधिवत्सरस्वत्यै न्यवेदयम्। तपतां च वरिष्ठाय निषण्णस्तत्परायणः ॥१२-३०६-१५॥
ततः शतपथं कृत्स्नं सरहस्यं ससङ्ग्रहम्। चक्रे सपरिशेषं च हर्षेण परमेण ह ॥१२-३०६-१६॥
कृत्वा चाध्ययनं तेषां शिष्याणां शतमुत्तमम्। विप्रियार्थं सशिष्यस्य मातुलस्य महात्मनः ॥१२-३०६-१७॥
ततः सशिष्येण मया सूर्येणेव गभस्तिभिः। व्याप्तो यज्ञो महाराज पितुस्तव महात्मनः ॥१२-३०६-१८॥
मिषतो देवलस्यापि ततोऽर्धं हृतवानहम्। स्ववेददक्षिणायाथ विमर्दे मातुलेन ह ॥१२-३०६-१९॥
सुमन्तुनाथ पैलेन तथा जैमिनिना च वै। पित्रा ते मुनिभिश्चैव ततोऽहमनुमानितः ॥१२-३०६-२०॥
दश पञ्च च प्राप्तानि यजूंष्यर्कान्मयानघ। तथैव लोमहर्षाच्च पुराणमवधारितम् ॥१२-३०६-२१॥
बीजमेतत्पुरस्कृत्य देवीं चैव सरस्वतीम्। सूर्यस्य चानुभावेन प्रवृत्तोऽहं नराधिप ॥१२-३०६-२२॥
कर्तुं शतपथं वेदमपूर्वं कारितं च मे। यथाभिलषितं मार्गं तथा तच्चोपपादितम् ॥१२-३०६-२३॥
शिष्याणामखिलं कृत्स्नमनुज्ञातं ससङ्ग्रहम्। सर्वे च शिष्याः शुचयो गताः परमहर्षिताः ॥१२-३०६-२४॥
शाखाः पञ्चदशेमास्तु विद्या भास्करदर्शिताः। प्रतिष्ठाप्य यथाकामं वेद्यं तदनुचिन्तयम् ॥१२-३०६-२५॥
किमत्र ब्रह्मण्यमृतं किं च वेद्यमनुत्तमम्। चिन्तये तत्र चागत्य गन्धर्वो मामपृच्छत ॥१२-३०६-२६॥
विश्वावसुस्ततो राजन्वेदान्तज्ञानकोविदः। चतुर्विंशतिकान्प्रश्नान्पृष्ट्वा वेदस्य पार्थिव ॥ पञ्चविंशतिमं प्रश्नं पप्रच्छान्वीक्षिकीं तथा ॥१२-३०६-२७॥
विश्वाविश्वं तथाश्वाश्वं मित्रं वरुणमेव च। ज्ञानं ज्ञेयं तथाज्ञो ज्ञः कस्तपा अतपास्तथा ॥ सूर्यादः सूर्य इति च विद्याविद्ये तथैव च ॥१२-३०६-२८॥
वेद्यावेद्यं तथा राजन्नचलं चलमेव च। अपूर्वमक्षयं क्षय्यमेतत्प्रश्नमनुत्तमम् ॥१२-३०६-२९॥
अथोक्तश्च मया राजन्राजा गन्धर्वसत्तमः। पृष्टवाननुपूर्वेण प्रश्नमुत्तममर्थवत् ॥१२-३०६-३०॥
मुहूर्तं मृष्यतां तावद्यावदेनं विचिन्तये। बाढमित्येव कृत्वा स तूष्णीं गन्धर्व आस्थितः ॥१२-३०६-३१॥
ततोऽन्वचिन्तयमहं भूयो देवीं सरस्वतीम्। मनसा स च मे प्रश्नो दध्नो घृतमिवोद्धृतम् ॥१२-३०६-३२॥
तत्रोपनिषदं चैव परिशेषं च पार्थिव। मथ्नामि मनसा तात दृष्ट्वा चान्वीक्षिकीं पराम् ॥१२-३०६-३३॥
चतुर्थी राजशार्दूल विद्यैषा साम्परायिकी। उदीरिता मया तुभ्यं पञ्चविंशेऽधि धिष्ठिता ॥१२-३०६-३४॥
अथोक्तस्तु मया राजन्राजा विश्वावसुस्तदा। श्रूयतां यद्भवानस्मान्प्रश्नं सम्पृष्टवानिह ॥१२-३०६-३५॥
विश्वाविश्वेति यदिदं गन्धर्वेन्द्रानुपृच्छसि। विश्वाव्यक्तं परं विद्याद्भूतभव्यभयङ्करम् ॥१२-३०६-३६॥
त्रिगुणं गुणकर्तृत्वादविश्वो निष्कलस्तथा। अश्वस्तथैव मिथुनमेवमेवानुदृश्यते ॥१२-३०६-३७॥
अव्यक्तं प्रकृतिं प्राहुः पुरुषेति च निर्गुणम्। तथैव मित्रं पुरुषं वरुणं प्रकृतिं तथा ॥१२-३०६-३८॥
ज्ञानं तु प्रकृतिं प्राहुर्ज्ञेयं निष्कलमेव च। अज्ञश्च ज्ञश्च पुरुषस्तस्मान्निष्कल उच्यते ॥१२-३०६-३९॥
कस्तपा अतपाः प्रोक्तः कोऽसौ पुरुष उच्यते। तपाः प्रकृतिरित्याहुरतपा निष्कलः स्मृतः ॥१२-३०६-४०॥
तथैवावेद्यमव्यक्तं वेद्यः पुरुष उच्यते। चलाचलमिति प्रोक्तं त्वया तदपि मे शृणु ॥१२-३०६-४१॥
चलां तु प्रकृतिं प्राहुः कारणं क्षेपसर्गयोः। अक्षेपसर्गयोःकर्ता निश्चलः पुरुषः स्मृतः ॥१२-३०६-४२॥
अजावुभावप्रजौ च अक्षयौ चाप्युभावपि। अजौ नित्यावुभौ प्राहुरध्यात्मगतिनिश्चयाः ॥१२-३०६-४३॥
अक्षयत्वात्प्रजनने अजमत्राहुरव्ययम्। अक्षयं पुरुषं प्राहुः क्षयो ह्यस्य न विद्यते ॥१२-३०६-४४॥
गुणक्षयत्वात्प्रकृतिः कर्तृत्वादक्षयं बुधाः। एषा तेऽऽन्वीक्षिकी विद्या चतुर्थी साम्परायिकी ॥१२-३०६-४५॥
विद्योपेतं धनं कृत्वा कर्मणा नित्यकर्मणि। एकान्तदर्शना वेदाः सर्वे विश्वावसो स्मृताः ॥१२-३०६-४६॥
जायन्ते च म्रियन्ते च यस्मिन्नेते यतश्च्युताः। वेदार्थं ये न जानन्ति वेद्यं गन्धर्वसत्तम ॥१२-३०६-४७॥
साङ्गोपाङ्गानपि यदि पञ्च वेदानधीयते। वेदवेद्यं न जानीते वेदभारवहो हि सः ॥१२-३०६-४८॥
यो घृतार्थी खरीक्षीरं मथेद्गन्धर्वसत्तम। विष्ठां तत्रानुपश्येत न मण्डं नापि वा घृतम् ॥१२-३०६-४९॥
तथा वेद्यमवेद्यं च वेदविद्यो न विन्दति। स केवलं मूढमतिर्ज्ञानभारवहः स्मृतः ॥१२-३०६-५०॥
द्रष्टव्यौ नित्यमेवैतौ तत्परेणान्तरात्मना। यथास्य जन्मनिधने न भवेतां पुनः पुनः ॥१२-३०६-५१॥
अजस्रं जन्मनिधनं चिन्तयित्वा त्रयीमिमाम्। परित्यज्य क्षयमिह अक्षयं धर्ममास्थितः ॥१२-३०६-५२॥
यदा तु पश्यतेऽत्यन्तमहन्यहनि काश्यप। तदा स केवलीभूतः षड्विंशमनुपश्यति ॥१२-३०६-५३॥
अन्यश्च शश्वदव्यक्तस्तथान्यः पञ्चविंशकः। तस्य द्वावनुपश्येत तमेकमिति साधवः ॥१२-३०६-५४॥
तेनैतन्नाभिजानन्ति पञ्चविंशकमच्युतम्। जन्ममृत्युभयाद्योगाः साङ्ख्याश्च परमैषिणः ॥१२-३०६-५५॥
विश्वावसुरुवाच॥
पञ्चविंशं यदेतत्ते प्रोक्तं ब्राह्मणसत्तम। तथा तन्न तथा वेति तद्भवान्वक्तुमर्हति ॥१२-३०६-५६॥
जैगीषव्यस्यासितस्य देवलस्य च मे श्रुतम्। पराशरस्य विप्रर्षेर्वार्षगण्यस्य धीमतः ॥१२-३०६-५७॥
भिक्षोः पञ्चशिखस्याथ कपिलस्य शुकस्य च। गौतमस्यार्ष्टिषेणस्य गर्गस्य च महात्मनः ॥१२-३०६-५८॥
नारदस्यासुरेश्चैव पुलस्त्यस्य च धीमतः। सनत्कुमारस्य ततः शुक्रस्य च महात्मनः ॥१२-३०६-५९॥
कश्यपस्य पितुश्चैव पूर्वमेव मया श्रुतम्। तदनन्तरं च रुद्रस्य विश्वरूपस्य धीमतः ॥१२-३०६-६०॥
दैवतेभ्यः पितृभ्यश्च दैत्येभ्यश्च ततस्ततः। प्राप्तमेतन्मया कृत्स्नं वेद्यं नित्यं वदन्त्युत ॥१२-३०६-६१॥
तस्मात्तद्वै भवद्बुद्ध्या श्रोतुमिच्छामि ब्राह्मण। भवान्प्रबर्हः शास्त्राणां प्रगल्भश्चातिबुद्धिमान् ॥१२-३०६-६२॥
न तवाविदितं किञ्चिद्भवाञ्श्रुतिनिधिः स्मृतः। कथ्यते देवलोके च पितृलोके च ब्राह्मण ॥१२-३०६-६३॥
ब्रह्मलोकगताश्चैव कथयन्ति महर्षयः। पतिश्च तपतां शश्वदादित्यस्तव भाषते ॥१२-३०६-६४॥
साङ्ख्यज्ञानं त्वया ब्रह्मन्नवाप्तं कृत्स्नमेव च। तथैव योगज्ञानं च याज्ञवल्क्य विशेषतः ॥१२-३०६-६५॥
निःसंदिग्धं प्रबुद्धस्त्वं बुध्यमानश्चराचरम्। श्रोतुमिच्छामि तज्ज्ञानं घृतं मण्डमयं यथा ॥१२-३०६-६६॥
याज्ञवल्क्य उवाच॥
कृत्स्नधारिणमेव त्वां मन्ये गन्धर्वसत्तम। जिज्ञाससि च मां राजंस्तन्निबोध यथाश्रुतम् ॥१२-३०६-६७॥
अबुध्यमानां प्रकृतिं बुध्यते पञ्चविंशकः। न तु बुध्यति गन्धर्व प्रकृतिः पञ्चविंशकम् ॥१२-३०६-६८॥
अनेनाप्रतिबोधेन प्रधानं प्रवदन्ति तम्। साङ्ख्ययोगाश्च तत्त्वज्ञा यथाश्रुतिनिदर्शनात् ॥१२-३०६-६९॥
पश्यंस्तथैवापश्यंश्च पश्यत्यन्यस्तथानघ। षड्विंशः पञ्चविंशं च चतुर्विंशं च पश्यति ॥ न तु पश्यति पश्यंस्तु यश्चैनमनुपश्यति ॥१२-३०६-७०॥
पञ्चविंशोऽभिमन्येत नान्योऽस्ति परमो मम। न चतुर्विंशकोऽग्राह्यो मनुजैर्ज्ञानदर्शिभिः ॥१२-३०६-७१॥
मत्स्येवोदकमन्वेति प्रवर्तति प्रवर्तनात्। यथैव बुध्यते मत्स्यस्तथैषोऽप्यनुबुध्यते ॥ सस्नेहः सहवासाच्च साभिमानश्च नित्यशः ॥१२-३०६-७२॥
स निमज्जति कालस्य यदैकत्वं न बुध्यते। उन्मज्जति हि कालस्य ममत्वेनाभिसंवृतः ॥१२-३०६-७३॥
यदा तु मन्यतेऽन्योऽहमन्य एष इति द्विजः। तदा स केवलीभूतः षड्विंशमनुपश्यति ॥१२-३०६-७४॥
अन्यश्च राजन्नवरस्तथान्यः पञ्चविंशकः। तत्स्थत्वादनुपश्यन्ति एक एवेति साधवः ॥१२-३०६-७५॥
तेनैतन्नाभिनन्दन्ति पञ्चविंशकमच्युतम्। जन्ममृत्युभयाद्भीता योगाः साङ्ख्याश्च काश्यप ॥ षड्विंशमनुपश्यन्ति शुचयस्तत्परायणाः ॥१२-३०६-७६॥
यदा स केवलीभूतः षड्विंशमनुपश्यति। तदा स सर्वविद्विद्वान्न पुनर्जन्म विन्दति ॥१२-३०६-७७॥
एवमप्रतिबुद्धश्च बुध्यमानश्च तेऽनघ। बुद्धश्चोक्तो यथातत्त्वं मया श्रुतिनिदर्शनात् ॥१२-३०६-७८॥
पश्यापश्यं योऽनुपश्येत्क्षेमं तत्त्वं च काश्यप। केवलाकेवलं चाद्यं पञ्चविंशात्परं च यत् ॥१२-३०६-७९॥
विश्वावसुरुवाच॥
तथ्यं शुभं चैतदुक्तं त्वया भोः; सम्यक्क्षेम्यं देवताद्यं यथावत्। स्वस्त्यक्षयं भवतश्चास्तु नित्यं; बुद्ध्या सदा बुद्धियुक्तं नमस्ते ॥१२-३०६-८०॥
याज्ञवल्क्य उवाच॥
एवमुक्त्वा सम्प्रयातो दिवं स; विभ्राजन्वै श्रीमता दर्शनेन। तुष्टश्च तुष्ट्या परयाभिनन्द्य; प्रदक्षिणं मम कृत्वा महात्मा ॥१२-३०६-८१॥
ब्रह्मादीनां खेचराणां क्षितौ च; ये चाधस्तात्संवसन्ते नरेन्द्र। तत्रैव तद्दर्शनं दर्शयन्वै; सम्यक्क्षेम्यं ये पथं संश्रिता वै ॥१२-३०६-८२॥
साङ्ख्याः सर्वे साङ्ख्यधर्मे रताश्च; तद्वद्योगा योगधर्मे रताश्च। ये चाप्यन्ये मोक्षकामा मनुष्या; स्तेषामेतद्दर्शनं ज्ञानदृष्टम् ॥१२-३०६-८३॥
ज्ञानान्मोक्षो जायते पूरुषाणां; नास्त्यज्ञानादेवमाहुर्नरेन्द्र। तस्माज्ज्ञानं तत्त्वतोऽन्वेषितव्यं; येनात्मानं मोक्षयेज्जन्ममृत्योः ॥१२-३०६-८४॥
प्राप्य ज्ञानं ब्राह्मणात्क्षत्रियाद्वा; वैश्याच्छूद्रादपि नीचादभीक्ष्णम्। श्रद्धातव्यं श्रद्दधानेन नित्यं; न श्रद्धिनं जन्ममृत्यू विशेताम् ॥१२-३०६-८५॥
सर्वे वर्णा ब्राह्मणा ब्रह्मजाश्च; सर्वे नित्यं व्याहरन्ते च ब्रह्म। तत्त्वं शास्त्रं ब्रह्मबुद्ध्या ब्रवीमि; सर्वं विश्वं ब्रह्म चैतत्समस्तम् ॥१२-३०६-८६॥
ब्रह्मास्यतो ब्राह्मणाः सम्प्रसूता; बाहुभ्यां वै क्षत्रियाः सम्प्रसूताः। नाभ्यां वैश्याः पादतश्चापि शूद्राः; सर्वे वर्णा नान्यथा वेदितव्याः ॥१२-३०६-८७॥
अज्ञानतः कर्मयोनिं भजन्ते; तां तां राजंस्ते यथा यान्त्यभावम्। तथा वर्णा ज्ञानहीनाः पतन्ते; घोरादज्ञानात्प्राकृतं योनिजालम् ॥१२-३०६-८८॥
तस्माज्ज्ञानं सर्वतो मार्गितव्यं; सर्वत्रस्थं चैतदुक्तं मया ते। तस्थौ ब्रह्मा तस्थिवांश्चापरो य; स्तस्मै नित्यं मोक्षमाहुर्द्विजेन्द्राः ॥१२-३०६-८९॥
यत्ते पृष्टं तन्मया चोपदिष्टं; याथातथ्यं तद्विशोको भवस्व। राजन्गच्छस्वैतदर्थस्य पारं; सम्यक्प्रोक्तं स्वस्ति तेऽस्त्वत्र नित्यम् ॥१२-३०६-९०॥
भीष्म उवाच॥
स एवमनुशास्तस्तु याज्ञवल्क्येन धीमता। प्रीतिमानभवद्राजा मिथिलाधिपतिस्तदा ॥१२-३०६-९१॥
गते मुनिवरे तस्मिन्कृते चापि प्रदक्षिणे। दैवरातिर्नरपतिरासीनस्तत्र मोक्षवित् ॥१२-३०६-९२॥
गोकोटिं स्पर्शयामास हिरण्यस्य तथैव च। रत्नाञ्जलिमथैकं च ब्राह्मणेभ्यो ददौ तदा ॥१२-३०६-९३॥
विदेहराज्यं च तथा प्रतिष्ठाप्य सुतस्य वै। यतिधर्ममुपासंश्चाप्यवसन्मिथिलाधिपः ॥१२-३०६-९४॥
साङ्ख्यज्ञानमधीयानो योगशास्त्रं च कृत्स्नशः। धर्माधर्मौ च राजेन्द्र प्राकृतं परिगर्हयन् ॥१२-३०६-९५॥
अनन्तमिति कृत्वा स नित्यं केवलमेव च। धर्माधर्मौ पुण्यपापे सत्यासत्ये तथैव च ॥१२-३०६-९६॥
जन्ममृत्यू च राजेन्द्र प्राकृतं तदचिन्तयत्। ब्रह्माव्यक्तस्य कर्मेदमिति नित्यं नराधिप ॥१२-३०६-९७॥
पश्यन्ति योगाः साङ्ख्याश्च स्वशास्त्रकृतलक्षणाः। इष्टानिष्टवियुक्तं हि तस्थौ ब्रह्म परात्परम् ॥ नित्यं तमाहुर्विद्वांसः शुचिस्तस्माच्छुचिर्भव ॥१२-३०६-९८॥
दीयते यच्च लभते दत्तं यच्चानुमन्यते। ददाति च नरश्रेष्ठ प्रतिगृह्णाति यच्च ह ॥ ददात्यव्यक्तमेवैतत्प्रतिगृह्णाति तच्च वै ॥१२-३०६-९९॥
आत्मा ह्येवात्मनो ह्येकः कोऽन्यस्त्वत्तोऽधिको भवेत्। एवं मन्यस्व सततमन्यथा मा विचिन्तय ॥१२-३०६-१००॥
यस्याव्यक्तं न विदितं सगुणं निर्गुणं पुनः। तेन तीर्थानि यज्ञाश्च सेवितव्याविपश्चिता ॥१२-३०६-१०१॥
न स्वाध्यायैस्तपोभिर्वा यज्ञैर्वा कुरुनन्दन। लभतेऽव्यक्तसंस्थानं ज्ञात्वाव्यक्तं महीपते ॥१२-३०६-१०२॥
तथैव महतः स्थानमाहङ्कारिकमेव च। अहङ्कारात्परं चापि स्थानानि समवाप्नुयात् ॥१२-३०६-१०३॥
ये त्वव्यक्तात्परं नित्यं जानते शास्त्रतत्पराः। जन्ममृत्युवियुक्तं च वियुक्तं सदसच्च यत् ॥१२-३०६-१०४॥
एतन्मयाप्तं जनकात्पुरस्ता; त्तेनापि चाप्तं नृप याज्ञवल्क्यात्। ज्ञानं विशिष्टं न तथा हि यज्ञा; ज्ञानेन दुर्गं तरते न यज्ञैः ॥१२-३०६-१०५॥
दुर्गं जन्म निधनं चापि राज; न्न भूतिकं ज्ञानविदो वदन्ति। यज्ञैस्तपोभिर्नियमैर्व्रतैश्च; दिवं समासाद्य पतन्ति भूमौ ॥१२-३०६-१०६॥
तस्मादुपासस्व परं महच्छुचि; शिवं विमोक्षं विमलं पवित्रम्। क्षेत्रज्ञवित्पार्थिव ज्ञानयज्ञ; मुपास्य वै तत्त्वमृषिर्भविष्यसि ॥१२-३०६-१०७॥
उपनिषदमुपाकरोत्तदा वै; जनकनृपस्य पुरा हि याज्ञवल्क्यः। यदुपगणितशाश्वताव्ययं त; च्छुभममृतत्वमशोकमृच्छतीति ॥१२-३०६-१०८॥

...

ॐ असतो मा सद्गमय। तमसो मा ज्योतिर्गमय। मृत्योर्माऽमृतं गमय। ॐ शान्ति: शान्ति: शान्ति: ॥ - बृहदारण्यकोपनिषद् 1.3.28
"Ōm! Lead me from the unreal to the real, from darkness to light, and from death to immortality. Let there be peace, peace, and peace. Ōm!" - Brihadaranyaka Upanishad 1.3.28

Copyright © 2025, Incredible Wisdom.
All rights reserved.