12.305
याज्ञवल्क्य उवाच॥
तथैवोत्क्रममाणं तु शृणुष्वावहितो नृप। पद्भ्यामुत्क्रममाणस्य वैष्णवं स्थानमुच्यते ॥१२-३०५-१॥
जङ्घाभ्यां तु वसून्देवानाप्नुयादिति नः श्रुतम्। जानुभ्यां च महाभागान्देवान्साध्यानवाप्नुयात् ॥१२-३०५-२॥
पायुनोत्क्रममाणस्तु मैत्रं स्थानमवाप्नुयात्। पृथिवीं जघनेनाथ ऊरुभ्यां तु प्रजापतिम् ॥१२-३०५-३॥
पार्श्वाभ्यां मरुतो देवान्नासाभ्यामिन्दुमेव च। बाहुभ्यामिन्द्रमित्याहुरुरसा रुद्रमेव च ॥१२-३०५-४॥
ग्रीवायास्तमृषिश्रेष्ठं नरमाप्नोत्यनुत्तमम्। विश्वेदेवान्मुखेनाथ दिशः श्रोत्रेण चाप्नुयात् ॥१२-३०५-५॥
घ्राणेन गन्धवहनं नेत्राभ्यां सूर्यमेव च। भ्रूभ्यां चैवाश्विनौ देवौ ललाटेन पितॄनथ ॥१२-३०५-६॥
ब्रह्माणमाप्नोति विभुं मूर्ध्ना देवाग्रजं तथा। एतान्युत्क्रमणस्थानान्युक्तानि मिथिलेश्वर ॥१२-३०५-७॥
अरिष्टानि तु वक्ष्यामि विहितानि मनीषिभिः। संवत्सरवियोगस्य सम्भवेयुः शरीरिणः ॥१२-३०५-८॥
योऽरुन्धतीं न पश्येत दृष्टपूर्वां कदाचन। तथैव ध्रुवमित्याहुः पूर्णेन्दुं दीपमेव च ॥ खण्डाभासं दक्षिणतस्तेऽपि संवत्सरायुषः ॥१२-३०५-९॥
परचक्षुषि चात्मानं ये न पश्यन्ति पार्थिव। आत्मच्छायाकृतीभूतं तेऽपि संवत्सरायुषः ॥१२-३०५-१०॥
अतिद्युतिरतिप्रज्ञा अप्रज्ञा चाद्युतिस्तथा। प्रकृतेर्विक्रियापत्तिः षण्मासान्मृत्युलक्षणम् ॥१२-३०५-११॥
दैवतान्यवजानाति ब्राह्मणैश्च विरुध्यते। कृष्णश्यावच्छविच्छायः षण्मासान्मृत्युलक्षणम् ॥१२-३०५-१२॥
शीर्णनाभि यथा चक्रं छिद्रं सोमं प्रपश्यति। तथैव च सहस्रांशुं सप्तरात्रेण मृत्युभाक् ॥१२-३०५-१३॥
शवगन्धमुपाघ्राति सुरभिं प्राप्य यो नरः। देवतायतनस्थस्तु षड्रात्रेण स मृत्युभाक् ॥१२-३०५-१४॥
कर्णनासावनमनं दन्तदृष्टिविरागिता। सञ्ज्ञालोपो निरूष्मत्वं सद्योमृत्युनिदर्शनम् ॥१२-३०५-१५॥
अकस्माच्च स्रवेद्यस्य वाममक्षि नराधिप। मूर्धतश्चोत्पतेद्धूमः सद्योमृत्युनिदर्शनम् ॥१२-३०५-१६॥
एतावन्ति त्वरिष्टानि विदित्वा मानवोऽऽत्मवान्। निशि चाहनि चात्मानं योजयेत्परमात्मनि ॥१२-३०५-१७॥
प्रतीक्षमाणस्तत्कालं यत्कालं प्रति तद्भवेत्। अथास्य नेष्टं मरणं स्थातुमिच्छेदिमां क्रियाम् ॥१२-३०५-१८॥
सर्वगन्धान्रसांश्चैव धारयेत समाहितः। तथा हि मृत्युं जयति तत्परेणान्तरात्मना ॥१२-३०५-१९॥
ससाङ्ख्यधारणं चैव विदित्वा मनुजर्षभ। जयेच्च मृत्युं योगेन तत्परेणान्तरात्मना ॥१२-३०५-२०॥
गच्छेत्प्राप्याक्षयं कृत्स्नमजन्म शिवमव्ययम्। शाश्वतं स्थानमचलं दुष्प्रापमकृतात्मभिः ॥१२-३०५-२१॥