Mahabharata - Shanti Parva (महाभारत - शान्तिपर्वम्)
12.307
युधिष्ठिर उवाच॥
ऐश्वर्यं वा महत्प्राप्य धनं वा भरतर्षभ। दीर्घमायुरवाप्याथ कथं मृत्युमतिक्रमेत् ॥१२-३०७-१॥
तपसा वा सुमहता कर्मणा वा श्रुतेन वा। रसायनप्रयोगैर्वा कैर्नोपैति जरान्तकौ ॥१२-३०७-२॥
भीष्म उवाच॥
अत्राप्युदाहरन्तीममितिहासं पुरातनम्। भिक्षोः पञ्चशिखस्येह संवादं जनकस्य च ॥१२-३०७-३॥
वैदेहो जनको राजा महर्षिं वेदवित्तमम्। पर्यपृच्छत्पञ्चशिखं छिन्नधर्मार्थसंशयम् ॥१२-३०७-४॥
केन वृत्तेन भगवन्नतिक्रामेज्जरान्तकौ। तपसा वाथ बुद्ध्या वा कर्मणा वा श्रुतेन वा ॥१२-३०७-५॥
एवमुक्तः स वैदेहं प्रत्युवाच परोक्षवित्। निवृत्तिर्नैतयोरस्ति नानिवृत्तिः कथञ्चन ॥१२-३०७-६॥
न ह्यहानि निवर्तन्ते न मासा न पुनः क्षपाः। सोऽयं प्रपद्यतेऽध्वानं चिराय ध्रुवमध्रुवः ॥१२-३०७-७॥
सर्वभूतसमुच्छेदः स्रोतसेवोह्यते सदा। उह्यमानं निमज्जन्तमप्लवे कालसागरे ॥ जरामृत्युमहाग्राहे न कश्चिदभिपद्यते ॥१२-३०७-८॥
नैवास्य भविता कश्चिन्नासौ भवति कस्यचित्। पथि सङ्गतमेवेदं दारैरन्यैश्च बन्धुभिः ॥ नायमत्यन्तसंवासो लब्धपूर्वो हि केनचित् ॥१२-३०७-९॥
क्षिप्यन्ते तेन तेनैव निष्टनन्तः पुनः पुनः। कालेन जाता जाता हि वायुनेवाभ्रसञ्चयाः ॥१२-३०७-१०॥
जरामृत्यू हि भूतानां खादितारौ वृकाविव। बलिनां दुर्बलानां च ह्रस्वानां महतामपि ॥१२-३०७-११॥
एवम्भूतेषु भूतेषु नित्यभूताध्रुवेषु च। कथं हृष्येत जातेषु मृतेषु च कथं ज्वरेत् ॥१२-३०७-१२॥
कुतोऽहमागतः कोऽस्मि क्व गमिष्यामि कस्य वा। कस्मिन्स्थितः क्व भविता कस्मात्किमनुशोचसि ॥१२-३०७-१३॥
द्रष्टा स्वर्गस्य न ह्यस्ति तथैव नरकस्य च। आगमांस्त्वनतिक्रम्य दद्याच्चैव यजेत च ॥१२-३०७-१४॥

...

ॐ असतो मा सद्गमय। तमसो मा ज्योतिर्गमय। मृत्योर्माऽमृतं गमय। ॐ शान्ति: शान्ति: शान्ति: ॥ - बृहदारण्यकोपनिषद् 1.3.28
"Ōm! Lead me from the unreal to the real, from darkness to light, and from death to immortality. Let there be peace, peace, and peace. Ōm!" - Brihadaranyaka Upanishad 1.3.28

Copyright © 2025, Incredible Wisdom.
All rights reserved.