Mahabharata - Shanti Parva (महाभारत - शान्तिपर्वम्)
12.308
युधिष्ठिर उवाच॥
अपरित्यज्य गार्हस्थ्यं कुरुराजर्षिसत्तम। कः प्राप्तो विनयं बुद्ध्या मोक्षतत्त्वं वदस्व मे ॥१२-३०८-१॥
संन्यस्यते यथात्मायं संन्यस्तात्मा यथा च यः। परं मोक्षस्य यच्चापि तन्मे ब्रूहि पितामह ॥१२-३०८-२॥
भीष्म उवाच॥
अत्राप्युदाहरन्तीममितिहासं पुरातनम्। जनकस्य च संवादं सुलभायाश्च भारत ॥१२-३०८-३॥
संन्यासफलिकः कश्चिद्बभूव नृपतिः पुरा। मैथिलो जनको नाम धर्मध्वज इति श्रुतः ॥१२-३०८-४॥
स वेदे मोक्षशास्त्रे च स्वे च शास्त्रे कृतागमः। इन्द्रियाणि समाधाय शशास वसुधामिमाम् ॥१२-३०८-५॥
तस्य वेदविदः प्राज्ञाः श्रुत्वा तां साधुवृत्तताम्। लोकेषु स्पृहयन्त्यन्ये पुरुषाः पुरुषेश्वर ॥१२-३०८-६॥
अथ धर्मयुगे तस्मिन्योगधर्ममनुष्ठिता। महीमनुचचारैका सुलभा नाम भिक्षुकी ॥१२-३०८-७॥
तया जगदिदं सर्वमटन्त्या मिथिलेश्वरः। तत्र तत्र श्रुतो मोक्षे कथ्यमानस्त्रिदण्डिभिः ॥१२-३०८-८॥
सा सुसूक्ष्मां कथां श्रुत्वा तथ्यं नेति ससंशया। दर्शने जातसङ्कल्पा जनकस्य बभूव ह ॥१२-३०८-९॥
ततः सा विप्रहायाथ पूर्वरूपं हि योगतः। अबिभ्रदनवद्याङ्गी रूपमन्यदनुत्तमम् ॥१२-३०८-१०॥
चक्षुर्निमेषमात्रेण लघ्वस्त्रगतिगामिनी। विदेहानां पुरीं सुभ्रूर्जगाम कमलेक्षणा ॥१२-३०८-११॥
सा प्राप्य मिथिलां रम्यां समृद्धजनसङ्कुलाम्। भैक्षचर्यापदेशेन ददर्श मिथिलेश्वरम् ॥१२-३०८-१२॥
राजा तस्याः परं दृष्ट्वा सौकुमार्यं वपुस्तथा। केयं कस्य कुतो वेति बभूवागतविस्मयः ॥१२-३०८-१३॥
ततोऽस्याः स्वागतं कृत्वा व्यादिश्य च वरासनम्। पूजितां पादशौचेन वरान्नेनाप्यतर्पयत् ॥१२-३०८-१४॥
अथ भुक्तवती प्रीता राजानं मन्त्रिभिर्वृतम्। सर्वभाष्यविदां मध्ये चोदयामास भिक्षुकी ॥१२-३०८-१५॥
सुलभा त्वस्य धर्मेषु मुक्तो नेति ससंशया। सत्त्वं सत्त्वेन योगज्ञा प्रविवेश महीपते ॥१२-३०८-१६॥
नेत्राभ्यां नेत्रयोरस्य रश्मीन्संयोज्य रश्मिभिः। सा स्म सञ्चोदयिष्यन्तं योगबन्धैर्बबन्ध ह ॥१२-३०८-१७॥
जनकोऽप्युत्स्मयन्राजा भावमस्या विशेषयन्। प्रतिजग्राह भावेन भावमस्या नृपोत्तमः ॥१२-३०८-१८॥
तदेकस्मिन्नधिष्ठाने संवादः श्रूयतामयम्। छत्रादिषु विमुक्तस्य मुक्तायाश्च त्रिदण्डके ॥१२-३०८-१९॥
भगवत्याः क्व चर्येयं कृता क्व च गमिष्यसि। कस्य च त्वं कुतो वेति पप्रच्छैनां महीपतिः ॥१२-३०८-२०॥
श्रुते वयसि जातौ च सद्भावो नाधिगम्यते। एष्वर्थेषूत्तरं तस्मात्प्रवेद्यं सत्समागमे ॥१२-३०८-२१॥
छत्रादिषु विशेषेषु मुक्तं मां विद्धि सर्वशः। स त्वां संमन्तुमिच्छामि मानार्हासि मता हि मे ॥१२-३०८-२२॥
यस्माच्चैतन्मया प्राप्तं ज्ञानं वैशेषिकं पुरा। यस्य नान्यः प्रवक्तास्ति मोक्षे तमपि मे शृणु ॥१२-३०८-२३॥
पाराशर्यसगोत्रस्य वृद्धस्य सुमहात्मनः। भिक्षोः पञ्चशिखस्याहं शिष्यः परमसंमतः ॥१२-३०८-२४॥
साङ्ख्यज्ञाने तथा योगे महीपालविधौ तथा। त्रिविधे मोक्षधर्मेऽस्मिन्गताध्वा छिन्नसंशयः ॥१२-३०८-२५॥
स यथाशास्त्रदृष्टेन मार्गेणेह परिव्रजन्। वार्षिकांश्चतुरो मासान्पुरा मयि सुखोषितः ॥१२-३०८-२६॥
तेनाहं साङ्ख्यमुख्येन सुदृष्टार्थेन तत्त्वतः। श्रावितस्त्रिविधं मोक्षं न च राज्याद्विचालितः ॥१२-३०८-२७॥
सोऽहं तामखिलां वृत्तिं त्रिविधां मोक्षसंहिताम्। मुक्तरागश्चराम्येकः पदे परमके स्थितः ॥१२-३०८-२८॥
वैराग्यं पुनरेतस्य मोक्षस्य परमो विधिः। ज्ञानादेव च वैराग्यं जायते येन मुच्यते ॥१२-३०८-२९॥
ज्ञानेन कुरुते यत्नं यत्नेन प्राप्यते महत्। महद्द्वंद्वप्रमोक्षाय सा सिद्धिर्या वयोतिगा ॥१२-३०८-३०॥
सेयं परमिका बुद्धिः प्राप्ता निर्द्वंद्वता मया। इहैव गतमोहेन चरता मुक्तसङ्गिना ॥१२-३०८-३१॥
यथा क्षेत्रं मृदूभूतमद्भिराप्लावितं तथा। जनयत्यङ्कुरं कर्म नृणां तद्वत्पुनर्भवम् ॥१२-३०८-३२॥
यथा चोत्तापितं बीजं कपाले यत्र तत्र वा। प्राप्याप्यङ्कुरहेतुत्वमबीजत्वान्न जायते ॥१२-३०८-३३॥
तद्वद्भगवता तेन शिखाप्रोक्तेन भिक्षुणा। ज्ञानं कृतमबीजं मे विषयेषु न जायते ॥१२-३०८-३४॥
नाभिषज्जति कस्मिंश्चिन्नानर्थे न परिग्रहे। नाभिरज्यति चैतेषु व्यर्थत्वाद्रागदोषयोः ॥१२-३०८-३५॥
यश्च मे दक्षिणं बाहुं चन्दनेन समुक्षयेत्। सव्यं वास्या च यस्तक्षेत्समावेतावुभौ मम ॥१२-३०८-३६॥
सुखी सोऽहमवाप्तार्थः समलोष्टाश्मकाञ्चनः। मुक्तसङ्गः स्थितो राज्ये विशिष्टोऽन्यैस्त्रिदण्डिभिः ॥१२-३०८-३७॥
मोक्षे हि त्रिविधा निष्ठा दृष्टा पूर्वैर्महर्षिभिः। ज्ञानं लोकोत्तरं यच्च सर्वत्यागश्च कर्मणाम् ॥१२-३०८-३८॥
ज्ञाननिष्ठां वदन्त्येके मोक्षशास्त्रविदो जनाः। कर्मनिष्ठां तथैवान्ये यतयः सूक्ष्मदर्शिनः ॥१२-३०८-३९॥
प्रहायोभयमप्येतज्ज्ञानं कर्म च केवलम्। तृतीयेयं समाख्याता निष्ठा तेन महात्मना ॥१२-३०८-४०॥
यमे च नियमे चैव द्वेषे कामे परिग्रहे। माने दम्भे तथा स्नेहे सदृशास्ते कुटुम्बिभिः ॥१२-३०८-४१॥
त्रिदण्डादिषु यद्यस्ति मोक्षो ज्ञानेन केनचित्। छत्रादिषु कथं न स्यात्तुल्यहेतौ परिग्रहे ॥१२-३०८-४२॥
येन येन हि यस्यार्थः कारणेनेह कस्यचित्। तत्तदालम्बते द्रव्यं सर्वः स्वे स्वे परिग्रहे ॥१२-३०८-४३॥
दोषदर्शी तु गार्हस्थ्ये यो व्रजत्याश्रमान्तरम्। उत्सृजन्परिगृह्णंश्च सोऽपि सङ्गान्न मुच्यते ॥१२-३०८-४४॥
आधिपत्ये तथा तुल्ये निग्रहानुग्रहात्मनि। राजर्षिभिक्षुकाचार्या मुच्यन्ते केन हेतुना ॥१२-३०८-४५॥
अथ सत्याधिपत्येऽपि ज्ञानेनैवेह केवलम्। मुच्यन्ते किं न मुच्यन्ते पदे परमके स्थिताः ॥१२-३०८-४६॥
काषायधारणं मौण्ड्यं त्रिविष्टब्धः कमण्डलुः। लिङ्गान्यत्यर्थमेतानि न मोक्षायेति मे मतिः ॥१२-३०८-४७॥
यदि सत्यपि लिङ्गेऽस्मिञ्ज्ञानमेवात्र कारणम्। निर्मोक्षायेह दुःखस्य लिङ्गमात्रं निरर्थकम् ॥१२-३०८-४८॥
अथ वा दुःखशैथिल्यं वीक्ष्य लिङ्गे कृता मतिः। किं तदेवार्थसामान्यं छत्रादिषु न लक्ष्यते ॥१२-३०८-४९॥
आकिञ्चन्ये न मोक्षोऽस्ति कैञ्चन्ये नास्ति बन्धनम्। कैञ्चन्ये चेतरे चैव जन्तुर्ज्ञानेन मुच्यते ॥१२-३०८-५०॥
तस्माद्धर्मार्थकामेषु तथा राज्यपरिग्रहे। बन्धनायतनेष्वेषु विद्ध्यबन्धे पदे स्थितम् ॥१२-३०८-५१॥
राज्यैश्वर्यमयः पाशः स्नेहायतनबन्धनः। मोक्षाश्मनिशितेनेह छिन्नस्त्यागासिना मया ॥१२-३०८-५२॥
सोऽहमेवङ्गतो मुक्तो जातास्थस्त्वयि भिक्षुकि। अयथार्थो हि ते वर्णो वक्ष्यामि शृणु तन्मम ॥१२-३०८-५३॥
सौकुमार्यं तथा रूपं वपुरग्र्यं तथा वयः। तवैतानि समस्तानि नियमश्चेति संशयः ॥१२-३०८-५४॥
यच्चाप्यननुरूपं ते लिङ्गस्यास्य विचेष्टितम्। मुक्तोऽयं स्यान्न वेत्यस्माद्धर्षितो मत्परिग्रहः ॥१२-३०८-५५॥
न च कामसमायुक्ते मुक्तेऽप्यस्ति त्रिदण्डकम्। न रक्ष्यते त्वया चेदं न मुक्तस्यास्ति गोपना ॥१२-३०८-५६॥
मत्पक्षसंश्रयाच्चायं शृणु यस्ते व्यतिक्रमः। आश्रयन्त्याः स्वभावेन मम पूर्वपरिग्रहम् ॥१२-३०८-५७॥
प्रवेशस्ते कृतः केन मम राष्ट्रे पुरे तथा। कस्य वा संनिसर्गात्त्वं प्रविष्टा हृदयं मम ॥१२-३०८-५८॥
वर्णप्रवरमुख्यासि ब्राह्मणी क्षत्रियो ह्यहम्। नावयोरेकयोगोऽस्ति मा कृथा वर्णसङ्करम् ॥१२-३०८-५९॥
वर्तसे मोक्षधर्मेषु गार्हस्थ्ये त्वहमाश्रमे। अयं चापि सुकष्टस्ते द्वितीयोऽऽश्रमसङ्करः ॥१२-३०८-६०॥
सगोत्रां वासगोत्रां वा न वेद त्वां न वेत्थ माम्। सगोत्रमाविशन्त्यास्ते तृतीयो गोत्रसङ्करः ॥१२-३०८-६१॥
अथ जीवति ते भर्ता प्रोषितोऽप्यथ वा क्वचित्। अगम्या परभार्येति चतुर्थो धर्मसङ्करः ॥१२-३०८-६२॥
सा त्वमेतान्यकार्याणि कार्यापेक्षा व्यवस्यसि। अविज्ञानेन वा युक्ता मिथ्याज्ञानेन वा पुनः ॥१२-३०८-६३॥
अथ वापि स्वतन्त्रासि स्वदोषेणेह केनचित्। यदि किञ्चिच्छ्रुतं तेऽस्ति सर्वं कृतमनर्थकम् ॥१२-३०८-६४॥
इदमन्यत्तृतीयं ते भावस्पर्शविघातकम्। दुष्टाया लक्ष्यते लिङ्गं प्रवक्तव्यं प्रकाशितम् ॥१२-३०८-६५॥
न मय्येवाभिसन्धिस्ते जयैषिण्या जये कृतः। येयं मत्परिषत्कृत्स्ना जेतुमिच्छसि तामपि ॥१२-३०८-६६॥
तथा ह्येवं पुनश्च त्वं दृष्टिं स्वां प्रतिमुञ्चसि। मत्पक्षप्रतिघाताय स्वपक्षोद्भावनाय च ॥१२-३०८-६७॥
सा स्वेनामर्षजेन त्वमृद्धिमोहेन मोहिता। भूयः सृजसि योगास्त्रं विषामृतमिवैकधा ॥१२-३०८-६८॥
इच्छतोर्हि द्वयोर्लाभः स्त्रीपुंसोरमृतोपमः। अलाभश्चाप्यरक्तस्य सोऽत्र दोषो विषोपमः ॥१२-३०८-६९॥
मा स्प्राक्षीः सधु जानीष्व स्वशास्त्रमनुपालय। कृतेयं हि विजिज्ञासा मुक्तो नेति त्वया मम ॥ एतत्सर्वं प्रतिच्छन्नं मयि नार्हसि गूहितुम् ॥१२-३०८-७०॥
सा यदि त्वं स्वकार्येण यद्यन्यस्य महीपतेः। तत्त्वं सत्रप्रतिच्छन्ना मयि नार्हसि गूहितुम् ॥१२-३०८-७१॥
न राजानं मृषा गच्छेन्न द्विजातिं कथञ्चन। न स्त्रियं स्त्रीगुणोपेतां हन्युर्ह्येते मृषागताः ॥१२-३०८-७२॥
राज्ञां हि बलमैश्वर्यं ब्रह्म ब्रह्मविदां बलम्। रूपयौवनसौभाग्यं स्त्रीणां बलमनुत्तमम् ॥१२-३०८-७३॥
अत एतैर्बलैरेते बलिनः स्वार्थमिच्छता। आर्जवेनाभिगन्तव्या विनाशाय ह्यनार्जवम् ॥१२-३०८-७४॥
सा त्वं जातिं श्रुतं वृत्तं भावं प्रकृतिमात्मनः। कृत्यमागमने चैव वक्तुमर्हसि तत्त्वतः ॥१२-३०८-७५॥
इत्येतैरसुखैर्वाक्यैरयुक्तैरसमञ्जसैः। प्रत्यादिष्टा नरेन्द्रेण सुलभा न व्यकम्पत ॥१२-३०८-७६॥
उक्तवाक्ये तु नृपतौ सुलभा चारुदर्शना। ततश्चारुतरं वाक्यं प्रचक्रामाथ भाषितुम् ॥१२-३०८-७७॥
नवभिर्नवभिश्चैव दोषैर्वाग्बुद्धिदूषणैः। अपेतमुपपन्नार्थमष्टादशगुणान्वितम् ॥१२-३०८-७८॥
सौक्ष्म्यं सङ्ख्याक्रमौ चोभौ निर्णयः सप्रयोजनः। पञ्चैतान्यर्थजातानि वाक्यमित्युच्यते नृप ॥१२-३०८-७९॥
एषामेकैकशोऽर्थानां सौक्ष्म्यादीनां सुलक्षणम्। शृणु संसार्यमाणानां पदार्थैः पदवाक्यतः ॥१२-३०८-८०॥
ज्ञानं ज्ञेयेषु भिन्नेषु यथाभेदेन वर्तते। तत्रातिशयिनी बुद्धिस्तत्सौक्ष्म्यमिति वर्तते ॥१२-३०८-८१॥
दोषाणां च गुणानां च प्रमाणं प्रविभागशः। कञ्चिदर्थमभिप्रेत्य सा सङ्ख्येत्युपधार्यताम् ॥१२-३०८-८२॥
इदं पूर्वमिदं पश्चाद्वक्तव्यं यद्विवक्षितम्। क्रमयोगं तमप्याहुर्वाक्यं वाक्यविदो जनाः ॥१२-३०८-८३॥
धर्मार्थकाममोक्षेषु प्रतिज्ञाय विशेषतः। इदं तदिति वाक्यान्ते प्रोच्यते स विनिर्णयः ॥१२-३०८-८४॥
इच्छाद्वेषभवैर्दुःखैः प्रकर्षो यत्र जायते। तत्र या नृपते वृत्तिस्तत्प्रयोजनमिष्यते ॥१२-३०८-८५॥
तान्येतानि यथोक्तानि सौक्ष्म्यादीनि जनाधिप। एकार्थसमवेतानि वाक्यं मम निशामय ॥१२-३०८-८६॥
उपेतार्थमभिन्नार्थं नापवृत्तं न चाधिकम्। नाश्लक्ष्णं न च संदिग्धं वक्ष्यामि परमं तव ॥१२-३०८-८७॥
न गुर्वक्षरसम्बद्धं पराङ्मुखमुखं न च। नानृतं न त्रिवर्गेण विरुद्धं नाप्यसंस्कृतम् ॥१२-३०८-८८॥
न न्यूनं कष्टशब्दं वा व्युत्क्रमाभिहितं न च। न शेषं नानुकल्पेन निष्कारणमहेतुकम् ॥१२-३०८-८९॥
कामात्क्रोधाद्भयाल्लोभाद्दैन्यादानार्यकात्तथा। ह्रीतोऽनुक्रोशतो मानान्न वक्ष्यामि कथञ्चन ॥१२-३०८-९०॥
वक्ता श्रोता च वाक्यं च यदा त्वविकलं नृप। सममेति विवक्षायां तदा सोऽर्थः प्रकाशते ॥१२-३०८-९१॥
वक्तव्ये तु यदा वक्ता श्रोतारमवमन्यते। स्वार्थमाह परार्थं वा तदा वाक्यं न रोहति ॥१२-३०८-९२॥
अथ यः स्वार्थमुत्सृज्य परार्थं प्राह मानवः। विशङ्का जायते तस्मिन्वाक्यं तदपि दोषवत् ॥१२-३०८-९३॥
यस्तु वक्ता द्वयोरर्थमविरुद्धं प्रभाषते। श्रोतुश्चैवात्मनश्चैव स वक्ता नेतरो नृप ॥१२-३०८-९४॥
तदर्थवदिदं वाक्यमुपेतं वाक्यसम्पदा। अविक्षिप्तमना राजन्नेकाग्रः श्रोतुमर्हसि ॥१२-३०८-९५॥
कासि कस्य कुतो वेति त्वयाहमभिचोदिता। तत्रोत्तरमिदं वाक्यं राजन्नेकमनाः शृणु ॥१२-३०८-९६॥
यथा जतु च काष्ठं च पांसवश्चोदबिन्दुभिः। सुश्लिष्टानि तथा राजन्प्राणिनामिह सम्भवः ॥१२-३०८-९७॥
शब्दः स्पर्शो रसो रूपं गन्धः पञ्चेन्द्रियाणि च। पृथगात्मा दशात्मानः संश्लिष्टा जतुकाष्ठवत् ॥१२-३०८-९८॥
न चैषां चोदना काचिदस्तीत्येष विनिश्चयः। एकैकस्येह विज्ञानं नास्त्यात्मनि तथा परे ॥१२-३०८-९९॥
न वेद चक्षुश्चक्षुष्ट्वं श्रोत्रं नात्मनि वर्तते। तथैव व्यभिचारेण न वर्तन्ते परस्परम् ॥ संश्लिष्टा नाभिजायन्ते यथाप इह पांसवः ॥१२-३०८-१००॥
बाह्यानन्यानपेक्षन्ते गुणांस्तानपि मे शृणु। रूपं चक्षुः प्रकाशश्च दर्शने हेतवस्त्रयः ॥ यथैवात्र तथान्येषु ज्ञानज्ञेयेषु हेतवः ॥१२-३०८-१०१॥
ज्ञानज्ञेयान्तरे तस्मिन्मनो नामापरो गुणः। विचारयति येनायं निश्चये साध्वसाधुनी ॥१२-३०८-१०२॥
द्वादशस्त्वपरस्तत्र बुद्धिर्नाम गुणः स्मृतः। येन संशयपूर्वेषु बोद्धव्येषु व्यवस्यति ॥१२-३०८-१०३॥
अथ द्वादशके तस्मिन्सत्त्वं नामापरो गुणः। महासत्त्वोऽल्पसत्त्वो वा जन्तुर्येनानुमीयते ॥१२-३०८-१०४॥
क्षेत्रज्ञ इति चाप्यन्यो गुणस्तत्र चतुर्दशः। ममायमिति येनायं मन्यते न च मन्यते ॥१२-३०८-१०५॥
अथ पञ्चदशो राजन्गुणस्तत्रापरः स्मृतः। पृथक्कलासमूहस्य सामग्र्यं तदिहोच्यते ॥१२-३०८-१०६॥
गुणस्त्वेवापरस्तत्र सङ्घात इति षोडशः। आकृतिर्व्यक्तिरित्येतौ गुणौ यस्मिन्समाश्रितौ ॥१२-३०८-१०७॥
सुखदुःखे जरामृत्यू लाभालाभौ प्रियाप्रिये। इति चैकोनविंशोऽयं द्वंद्वयोग इति स्मृतः ॥१२-३०८-१०८॥
ऊर्ध्वमेकोनविंशत्याः कालो नामापरो गुणः। इतीमं विद्धि विंशत्या भूतानां प्रभवाप्ययम् ॥१२-३०८-१०९॥
विंशकश्चैष सङ्घातो महाभूतानि पञ्च च। सदसद्भावयोगौ च गुणावन्यौ प्रकाशकौ ॥१२-३०८-११०॥
इत्येवं विंशतिश्चैव गुणाः सप्त च ये स्मृताः। विधिः शुक्रं बलं चेति त्रय एते गुणाः परे ॥१२-३०८-१११॥
एकविंशश्च दश च कलाः सङ्ख्यानतः स्मृताः। समग्रा यत्र वर्तन्ते तच्छरीरमिति स्मृतम् ॥१२-३०८-११२॥
अव्यक्तं प्रकृतिं त्वासां कलानां कश्चिदिच्छति। व्यक्तं चासां तथैवान्यः स्थूलदर्शी प्रपश्यति ॥१२-३०८-११३॥
अव्यक्तं यदि वा व्यक्तं द्वयीमथ चतुष्टयीम्। प्रकृतिं सर्वभूतानां पश्यन्त्यध्यात्मचिन्तकाः ॥१२-३०८-११४॥
सेयं प्रकृतिरव्यक्ता कलाभिर्व्यक्ततां गता। अहं च त्वं च राजेन्द्र ये चाप्यन्ये शरीरिणः ॥१२-३०८-११५॥
बिन्दुन्यासादयोऽवस्थाः शुक्रशोणितसम्भवाः। यासामेव निपातेन कललं नाम जायते ॥१२-३०८-११६॥
कललादर्बुदोत्पत्तिः पेशी चाप्यर्बुदोद्भवा। पेश्यास्त्वङ्गाभिनिर्वृत्तिर्नखरोमाणि चाङ्गतः ॥१२-३०८-११७॥
सम्पूर्णे नवमे मासे जन्तोर्जातस्य मैथिल। जायते नामरूपत्वं स्त्री पुमान्वेति लिङ्गतः ॥१२-३०८-११८॥
जातमात्रं तु तद्रूपं दृष्ट्वा ताम्रनखाङ्गुलि। कौमाररूपमापन्नं रूपतो नोपलभ्यते ॥१२-३०८-११९॥
कौमाराद्यौवनं चापि स्थाविर्यं चापि यौवनात्। अनेन क्रमयोगेन पूर्वं पूर्वं न लभ्यते ॥१२-३०८-१२०॥
कलानां पृथगर्थानां प्रतिभेदः क्षणे क्षणे। वर्तते सर्वभूतेषु सौक्ष्म्यात्तु न विभाव्यते ॥१२-३०८-१२१॥
न चैषामप्ययो राजँल्लक्ष्यते प्रभवो न च। अवस्थायामवस्थायां दीपस्येवार्चिषो गतिः ॥१२-३०८-१२२॥
तस्याप्येवम्प्रभावस्य सदश्वस्येव धावतः। अजस्रं सर्वलोकस्य कः कुतो वा न वा कुतः ॥१२-३०८-१२३॥
कस्येदं कस्य वा नेदं कुतो वेदं न वा कुतः। सम्बन्धः कोऽस्ति भूतानां स्वैरप्यवयवैरिह ॥१२-३०८-१२४॥
यथादित्यान्मणेश्चैव वीरुद्भ्यश्चैव पावकः। भवत्येवं समुदयात्कलानामपि जन्तवः ॥१२-३०८-१२५॥
आत्मन्येवात्मनात्मानं यथा त्वमनुपश्यसि। एवमेवात्मनात्मानमन्यस्मिन्किं न पश्यसि ॥ यद्यात्मनि परस्मिंश्च समतामध्यवस्यसि ॥१२-३०८-१२६॥
अथ मां कासि कस्येति किमर्थमनुपृच्छसि। इदं मे स्यादिदं नेति द्वंद्वैर्मुक्तस्य मैथिल ॥ कासि कस्य कुतो वेति वचने किं प्रयोजनम् ॥१२-३०८-१२७॥
रिपौ मित्रेऽथ मध्यस्थे विजये सन्धिविग्रहे। कृतवान्यो महीपाल किं तस्मिन्मुक्तलक्षणम् ॥१२-३०८-१२८॥
त्रिवर्गे सप्तधा व्यक्तं यो न वेदेह कर्मसु। सङ्गवान्यस्त्रिवर्गे च किं तस्मिन्मुक्तलक्षणम् ॥१२-३०८-१२९॥
प्रिये चैवाप्रिये चैव दुर्बले बलवत्यपि। यस्य नास्ति समं चक्षुः किं तस्मिन्मुक्तलक्षणम् ॥१२-३०८-१३०॥
तदमुक्तस्य ते मोक्षे योऽभिमानो भवेन्नृप। सुहृद्भिः स निवार्यस्ते विचित्तस्येव भेषजैः ॥१२-३०८-१३१॥
तानि तान्यनुसंदृश्य सङ्गस्थानान्यरिंदम। आत्मनात्मनि सम्पश्येत्किं तस्मिन्मुक्तलक्षणम् ॥१२-३०८-१३२॥
इमान्यन्यानि सूक्ष्माणि मोक्षमाश्रित्य कानिचित्। चतुरङ्गप्रवृत्तानि सङ्गस्थानानि मे शृणु ॥१२-३०८-१३३॥
य इमां पृथिवीं कृत्स्नामेकच्छत्रां प्रशास्ति ह। एकमेव स वै राजा पुरमध्यावसत्युत ॥१२-३०८-१३४॥
तत्पुरे चैकमेवास्य गृहं यदधितिष्ठति। गृहे शयनमप्येकं निशायां यत्र लीयते ॥१२-३०८-१३५॥
शय्यार्धं तस्य चाप्यत्र स्त्रीपूर्वमधितिष्ठति। तदनेन प्रसङ्गेन फलेनैवेह युज्यते ॥१२-३०८-१३६॥
एवमेवोपभोगेषु भोजनाच्छादनेषु च। गुणेषु परिमेयेषु निग्रहानुग्रहौ प्रति ॥१२-३०८-१३७॥
परतन्त्रः सदा राजा स्वल्पे सोऽपि प्रसज्जते। सन्धिविग्रहयोगे च कुतो राज्ञः स्वतन्त्रता ॥१२-३०८-१३८॥
स्त्रीषु क्रीडाविहारेषु नित्यमस्यास्वतन्त्रता। मन्त्रे चामात्यसमितौ कुत एव स्वतन्त्रता ॥१२-३०८-१३९॥
यदा त्वाज्ञापयत्यन्यांस्तदास्योक्ता स्वतन्त्रता। अवशः कार्यते तत्र तस्मिंस्तस्मिन्गुणे स्थितः ॥१२-३०८-१४०॥
स्वप्तुकामो न लभते स्वप्तुं कार्यार्थिभिर्जनैः। शयने चाप्यनुज्ञातः सुप्त उत्थाप्यतेऽवशः ॥१२-३०८-१४१॥
स्नाह्यालभ पिब प्राश जुहुध्यग्नीन्यजेति च। वदस्व शृणु चापीति विवशः कार्यते परैः ॥१२-३०८-१४२॥
अभिगम्याभिगम्यैनं याचन्ते सततं नराः। न चाप्युत्सहते दातुं वित्तरक्षी महाजनात् ॥१२-३०८-१४३॥
दाने कोशक्षयो ह्यस्य वैरं चाप्यप्रयच्छतः। क्षणेनास्योपवर्तन्ते दोषा वैराग्यकारकाः ॥१२-३०८-१४४॥
प्राज्ञाञ्शूरांस्तथैवाढ्यानेकस्थानेऽपि शङ्कते। भयमप्यभये राज्ञो यैश्च नित्यमुपास्यते ॥१२-३०८-१४५॥
यदा चैते प्रदुष्यन्ति राजन्ये कीर्तिता मया। तदैवास्य भयं तेभ्यो जायते पश्य यादृशम् ॥१२-३०८-१४६॥
सर्वः स्वे स्वे गृहे राजा सर्वः स्वे स्वे गृहे गृही। निग्रहानुग्रहौ कुर्वंस्तुल्यो जनक राजभिः ॥१२-३०८-१४७॥
पुत्रा दारास्तथैवात्मा कोशो मित्राणि सञ्चयः। परैः साधारणा ह्येते तैस्तैरेवास्य हेतुभिः ॥१२-३०८-१४८॥
हतो देशः पुरं दग्धं प्रधानः कुञ्जरो मृतः। लोकसाधारणेष्वेषु मिथ्याज्ञानेन तप्यते ॥१२-३०८-१४९॥
अमुक्तो मानसैर्दुःखैरिच्छाद्वेषप्रियोद्भवैः। शिरोरोगादिभी रोगैस्तथैव विनिपातिभिः ॥१२-३०८-१५०॥
द्वंद्वैस्तैस्तैरुपहतः सर्वतः परिशङ्कितः। बहुप्रत्यर्थिकं राज्यमुपास्ते गणयन्निशाः ॥१२-३०८-१५१॥
तदल्पसुखमत्यर्थं बहुदुःखमसारवत्। को राज्यमभिपद्येत प्राप्य चोपशमं लभेत् ॥१२-३०८-१५२॥
ममेदमिति यच्चेदं पुरं राष्ट्रं च मन्यसे। बलं कोशममात्यांश्च कस्यैतानि न वा नृप ॥१२-३०८-१५३॥
मित्रामात्यं पुरं राष्ट्रं दण्डः कोशो महीपतिः। सप्ताङ्गश्चक्रसङ्घातो राज्यमित्युच्यते नृप ॥१२-३०८-१५४॥
सप्ताङ्गस्यास्य राज्यस्य त्रिदण्डस्येव तिष्ठतः। अन्योन्यगुणयुक्तस्य कः केन गुणतोऽधिकः ॥१२-३०८-१५५॥
तेषु तेषु हि कालेषु तत्तदङ्गं विशिष्यते। येन यत्सिध्यते कार्यं तत्प्राधान्याय कल्पते ॥१२-३०८-१५६॥
सप्ताङ्गश्चापि सङ्घातस्त्रयश्चान्ये नृपोत्तम। सम्भूय दशवर्गोऽयं भुङ्क्ते राज्यं हि राजवत् ॥१२-३०८-१५७॥
यश्च राजा महोत्साहः क्षत्रधर्मरतो भवेत्। स तुष्येद्दशभागेन ततस्त्वन्यो दशावरैः ॥१२-३०८-१५८॥
नास्त्यसाधारणो राजा नास्ति राज्यमराजकम्। राज्येऽसति कुतो धर्मो धर्मेऽसति कुतः परम् ॥१२-३०८-१५९॥
योऽप्यत्र परमो धर्मः पवित्रं राजराज्ययोः। पृथिवी दक्षिणा यस्य सोऽश्वमेधो न विद्यते ॥१२-३०८-१६०॥
साहमेतानि कर्माणि राज्यदुःखानि मैथिल। समर्था शतशो वक्तुमथ वापि सहस्रशः ॥१२-३०८-१६१॥
स्वदेहे नाभिषङ्गो मे कुतः परपरिग्रहे। न मामेवंविधां मुक्तामीदृशं वक्तुमर्हसि ॥१२-३०८-१६२॥
ननु नाम त्वया मोक्षः कृत्स्नः पञ्चशिखाच्छ्रुतः। सोपायः सोपनिषदः सोपासङ्गः सनिश्चयः ॥१२-३०८-१६३॥
तस्य ते मुक्तसङ्गस्य पाशानाक्रम्य तिष्ठतः। छत्रादिषु विशेषेषु कथं सङ्गः पुनर्नृप ॥१२-३०८-१६४॥
श्रुतं ते न श्रुतं मन्ये मिथ्या वापि श्रुतं श्रुतम्। अथ वा श्रुतसङ्काशं श्रुतमन्यच्छ्रुतं त्वया ॥१२-३०८-१६५॥
अथापीमासु सञ्ज्ञासु लौकिकीषु प्रतिष्ठसि। अभिषङ्गावरोधाभ्यां बद्धस्त्वं प्राकृतो मया ॥१२-३०८-१६६॥
सत्त्वेनानुप्रवेशो हि योऽयं त्वयि कृतो मया। किं तवापकृतं तत्र यदि मुक्तोऽसि सर्वतः ॥१२-३०८-१६७॥
नियमो ह्येष धर्मेषु यतीनां शून्यवासिता। शून्यमावासयन्त्या च मया किं कस्य दूषितम् ॥१२-३०८-१६८॥
न पाणिभ्यां न बाहुभ्यां पादोरुभ्यां न चानघ। न गात्रावयवैरन्यैः स्पृशामि त्वा नराधिप ॥१२-३०८-१६९॥
कुले महति जातेन ह्रीमता दीर्घदर्शिना। नैतत्सदसि वक्तव्यं सद्वासद्वा मिथः कृतम् ॥१२-३०८-१७०॥
ब्राह्मणा गुरवश्चेमे तथामात्या गुरूत्तमाः। त्वं चाथ गुरुरप्येषामेवमन्योन्यगौरवम् ॥१२-३०८-१७१॥
तदेवमनुसंदृश्य वाच्यावाच्यं परीक्षता। स्त्रीपुंसोः समवायोऽयं त्वया वाच्यो न संसदि ॥१२-३०८-१७२॥
यथा पुष्करपर्णस्थं जलं तत्पर्णसंस्थितम्। तिष्ठत्यस्पृशती तद्वत्त्वयि वत्स्यामि मैथिल ॥१२-३०८-१७३॥
यदि वाप्यस्पृशन्त्या मे स्पर्शं जानासि कञ्चन। ज्ञानं कृतमबीजं ते कथं तेनेह भिक्षुणा ॥१२-३०८-१७४॥
स गार्हस्थ्याच्च्युतश्च त्वं मोक्षं नावाप्य दुर्विदम्। उभयोरन्तराले च वर्तसे मोक्षवातिकः ॥१२-३०८-१७५॥
न हि मुक्तस्य मुक्तेन ज्ञस्यैकत्वपृथक्त्वयोः। भावाभावसमायोगे जायते वर्णसङ्करः ॥१२-३०८-१७६॥
वर्णाश्रमपृथक्त्वे च दृष्टार्थस्यापृथक्त्विनः। नान्यदन्यदिति ज्ञात्वा नान्यदन्यत्प्रवर्तते ॥१२-३०८-१७७॥
पाणौ कुण्डं तथा कुण्डे पयः पयसि मक्षिकाः। आश्रिताश्रययोगेन पृथक्त्वेनाश्रया वयम् ॥१२-३०८-१७८॥
न तु कुण्डे पयोभावः पयश्चापि न मक्षिकाः। स्वयमेवाश्रयन्त्येते भावा न तु पराश्रयम् ॥१२-३०८-१७९॥
पृथक्त्वादाश्रमाणां च वर्णान्यत्वे तथैव च। परस्परपृथक्त्वाच्च कथं ते वर्णसङ्करः ॥१२-३०८-१८०॥
नास्मि वर्णोत्तमा जात्या न वैश्या नावरा तथा। तव राजन्सवर्णास्मि शुद्धयोनिरविप्लुता ॥१२-३०८-१८१॥
प्रधानो नाम राजर्षिर्व्यक्तं ते श्रोत्रमागतः। कुले तस्य समुत्पन्नां सुलभां नाम विद्धि माम् ॥१२-३०८-१८२॥
द्रोणश्च शतशृङ्गश्च वक्रद्वारश्च पर्वतः। मम सत्रेषु पूर्वेषां चिता मघवता सह ॥१२-३०८-१८३॥
साहं तस्मिन्कुले जाता भर्तर्यसति मद्विधे। विनीता मोक्षधर्मेषु चराम्येका मुनिव्रतम् ॥१२-३०८-१८४॥
नास्मि सत्रप्रतिच्छन्ना न परस्वाभिमानिनी। न धर्मसङ्करकरी स्वधर्मेऽस्मि धृतव्रता ॥१२-३०८-१८५॥
नास्थिरा स्वप्रतिज्ञायां नासमीक्ष्यप्रवादिनी। नासमीक्ष्यागता चाहं त्वत्सकाशं जनाधिप ॥१२-३०८-१८६॥
मोक्षे ते भावितां बुद्धिं श्रुत्वाहं कुशलैषिणी। तव मोक्षस्य चाप्यस्य जिज्ञासार्थमिहागता ॥१२-३०८-१८७॥
न वर्गस्था ब्रवीम्येतत्स्वपक्षपरपक्षयोः। मुक्तो न मुच्यते यश्च शान्तो यश्च न शाम्यति ॥१२-३०८-१८८॥
यथा शून्ये पुरागारे भिक्षुरेकां निशां वसेत्। तथा हि त्वच्छरीरेऽस्मिन्निमां वत्स्यामि शर्वरीम् ॥१२-३०८-१८९॥
साहमासनदानेन वागातिथ्येन चार्चिता। सुप्ता सुशरणा प्रीता श्वो गमिष्यामि मैथिल ॥१२-३०८-१९०॥
इत्येतानि स वाक्यानि हेतुमन्त्यर्थवन्ति च। श्रुत्वा नाधिजगौ राजा किञ्चिदन्यदतः परम् ॥१२-३०८-१९१॥

...

ॐ असतो मा सद्गमय। तमसो मा ज्योतिर्गमय। मृत्योर्माऽमृतं गमय। ॐ शान्ति: शान्ति: शान्ति: ॥ - बृहदारण्यकोपनिषद् 1.3.28
"Ōm! Lead me from the unreal to the real, from darkness to light, and from death to immortality. Let there be peace, peace, and peace. Ōm!" - Brihadaranyaka Upanishad 1.3.28

Copyright © 2025, Incredible Wisdom.
All rights reserved.