12.309
युधिष्ठिर उवाच॥
कथं निर्वेदमापन्नः शुको वैयासकिः पुरा। एतदिच्छामि कौरव्य श्रोतुं कौतूहलं हि मे ॥१२-३०९-१॥
भीष्म उवाच॥
प्राकृतेन सुवृत्तेन चरन्तमकुतोभयम्। अध्याप्य कृत्स्नं स्वाध्यायमन्वशाद्वै पिता सुतम् ॥१२-३०९-२॥
धर्मं पुत्र निषेवस्व सुतीक्ष्णौ हि हिमातपौ। क्षुत्पिपासे च वायुं च जय नित्यं जितेन्द्रियः ॥१२-३०९-३॥
सत्यमार्जवमक्रोधमनसूयां दमं तपः। अहिंसां चानृशंस्यं च विधिवत्परिपालय ॥१२-३०९-४॥
सत्ये तिष्ठ रतो धर्मे हित्वा सर्वमनार्जवम्। देवतातिथिशेषेण यात्रां प्राणस्य संश्रय ॥१२-३०९-५॥
फेनपात्रोपमे देहे जीवे शकुनिवत्स्थिते। अनित्ये प्रियसंवासे कथं स्वपिषि पुत्रक ॥१२-३०९-६॥
अप्रमत्तेषु जाग्रत्सु नित्ययुक्तेषु शत्रुषु। अन्तरं लिप्समानेषु बालस्त्वं नावबुध्यसे ॥१२-३०९-७॥
गण्यमानेषु वर्षेषु क्षीयमाणे तथायुषि। जीविते शिष्यमाणे च किमुत्थाय न धावसि ॥१२-३०९-८॥
ऐहलौकिकमीहन्ते मांसशोणितवर्धनम्। पारलौकिककार्येषु प्रसुप्ता भृशनास्तिकाः ॥१२-३०९-९॥
धर्माय येऽभ्यसूयन्ति बुद्धिमोहान्विता नराः। अपथा गच्छतां तेषामनुयातापि पीड्यते ॥१२-३०९-१०॥
ये तु तुष्टाः सुनियताः सत्यागमपरायणाः। धर्म्यं पन्थानमारूढास्तानुपास्स्व च पृच्छ च ॥१२-३०९-११॥
उपधार्य मतं तेषां वृद्धानां धर्मदर्शिनाम्। नियच्छ परया बुद्ध्या चित्तमुत्पथगामि वै ॥१२-३०९-१२॥
अद्यकालिकया बुद्ध्या दूरे श्व इति निर्भयाः। सर्वभक्षा न पश्यन्ति कर्मभूमिं विचेतसः ॥१२-३०९-१३॥
धर्मनिःश्रेणिमास्थाय किञ्चित्किञ्चित्समारुह। कोशकारवदात्मानं वेष्टयन्नावबुध्यसे ॥१२-३०९-१४॥
नास्तिकं भिन्नमर्यादं कूलपातमिवास्थिरम्। वामतः कुरु विस्रब्धो नरं वेणुमिवोद्धतम् ॥१२-३०९-१५॥
कामं क्रोधं च मृत्युं च पञ्चेन्द्रियजलां नदीम्। नावं धृतिमयीं कृत्वा जन्मदुर्गाणि सन्तर ॥१२-३०९-१६॥
मृत्युनाभ्याहते लोके जरया परिपीडिते। अमोघासु पतन्तीषु धर्मयानेन सन्तर ॥१२-३०९-१७॥
तिष्ठन्तं च शयानं च मृत्युरन्वेषते यदा। निर्वृतिं लभसे कस्मादकस्मान्मृत्युनाशितः ॥१२-३०९-१८॥
सञ्चिन्वानकमेवैनं कामानामवितृप्तकम्। वृकीवोरणमासाद्य मृत्युरादाय गच्छति ॥१२-३०९-१९॥
क्रमशः सञ्चितशिखो धर्मबुद्धिमयो महान्। अन्धकारे प्रवेष्टव्ये दीपो यत्नेन धार्यताम् ॥१२-३०९-२०॥
सम्पतन्देहजालानि कदाचिदिह मानुषे। ब्राह्मण्यं लभते जन्तुस्तत्पुत्र परिपालय ॥१२-३०९-२१॥
ब्राह्मणस्य हि देहोऽयं न कामार्थाय जायते। इह क्लेशाय तपसे प्रेत्य त्वनुपमं सुखम् ॥१२-३०९-२२॥
ब्राह्मण्यं बहुभिरवाप्यते तपोभि; स्तल्लब्ध्वा न परिपणेन हेडितव्यम्। स्वाध्याये तपसि दमे च नित्ययुक्तः; क्षेमार्थी कुशलपरः सदा यतस्व ॥१२-३०९-२३॥
अव्यक्तप्रकृतिरयं कलाशरीरः; सूक्ष्मात्मा क्षणत्रुटिशो निमेषरोमा। ऋत्वास्यः समबलशुक्लकृष्णनेत्रो; मांसाङ्गो द्रवति वयोहयो नराणाम् ॥१२-३०९-२४॥
तं दृष्ट्वा प्रसृतमजस्रमुग्रवेगं; गच्छन्तं सततमिहाव्यपेक्षमाणम्। चक्षुस्ते यदि न परप्रणेतृनेयं; धर्मे ते भवतु मनः परं निशम्य ॥१२-३०९-२५॥
येऽमी तु प्रचलितधर्मकामवृत्ताः; क्रोशन्तः सततमनिष्टसम्प्रयोगाः। क्लिश्यन्ते परिगतवेदनाशरीरा; बह्वीभिः सुभृशमधर्मवासनाभिः ॥१२-३०९-२६॥
राजा धर्मपरः सदा शुभगोप्ता; समीक्ष्य सुकृतिनां दधाति लोकान्। बहुविधमपि चरतः प्रदिशति; सुखमनुपगतं निरवद्यम् ॥१२-३०९-२७॥
श्वानो भीषणायोमुखानि वयांसि; वडगृध्रकुलपक्षिणां च सङ्घाः। नरां कदने रुधिरपा गुरुवचन; नुदमुपरतं विशसन्ति ॥१२-३०९-२८॥
मर्यादा नियताः स्वयम्भुवा य इहेमाः; प्रभिनत्ति दशगुणा मनोनुगत्वात्। निवसति भृशमसुखं पितृविषय; विपिनमवगाह्य स पापः ॥१२-३०९-२९॥
यो लुब्धः सुभृशं प्रियानृतश्च मनुष्यः; सततनिकृतिवञ्चनारतिः स्यात्। उपनिधिभिरसुखकृत्स परमनिरयगो; भृशमसुखमनुभवति दुष्कृतकर्मा ॥१२-३०९-३०॥
उष्णां वैतरणीं महानदी; मवगाढोऽसिपत्रवनभिन्नगात्रः। परशुवनशयो निपतितो; वसति च महानिरये भृशार्तः ॥१२-३०९-३१॥
महापदानि कत्थसे न चाप्यवेक्षसे परम्। चिरस्य मृत्युकारिकामनागतां न बुध्यसे ॥१२-३०९-३२॥
प्रयास्यतां किमास्यते समुत्थितं महद्भयम्। अतिप्रमाथि दारुणं सुखस्य संविधीयताम् ॥१२-३०९-३३॥
पुरा मृतः प्रणीयसे यमस्य मृत्युशासनात्। तदन्तिकाय दारुणैः प्रयत्नमार्जवे कुरु ॥१२-३०९-३४॥
पुरा समूलबान्धवं प्रभुर्हरत्यदुःखवित्। तवेह जीवितं यमो न चास्ति तस्य वारकः ॥१२-३०९-३५॥
पुरा विवाति मारुतो यमस्य यः पुरःसरः। पुरैक एव नीयसे कुरुष्व साम्परायिकम् ॥१२-३०९-३६॥
पुरा सहिक्क एव ते प्रवाति मारुतोऽन्तकः। पुरा च विभ्रमन्ति ते दिशो महाभयागमे ॥१२-३०९-३७॥
स्मृतिश्च संनिरुध्यते पुरा तवेह पुत्रक। समाकुलस्य गच्छतः समाधिमुत्तमं कुरु ॥१२-३०९-३८॥
कृताकृते शुभाशुभे प्रमादकर्मविप्लुते। स्मरन्पुरा न तप्यसे निधत्स्व केवलं निधिम् ॥१२-३०९-३९॥
पुरा जरा कलेवरं विजर्जरीकरोति ते। बलाङ्गरूपहारिणी निधत्स्व केवलं निधिम् ॥१२-३०९-४०॥
पुरा शरीरमन्तको भिनत्ति रोगसायकैः। प्रसह्य जीवितक्षये तपो महत्समाचर ॥१२-३०९-४१॥
पुरा वृका भयङ्करा मनुष्यदेहगोचराः। अभिद्रवन्ति सर्वतो यतस्व पुण्यशीलने ॥१२-३०९-४२॥
पुरान्धकारमेककोऽनुपश्यसि त्वरस्व वै। पुरा हिरण्मयान्नगान्निरीक्षसेऽद्रिमूर्धनि ॥१२-३०९-४३॥
पुरा कुसङ्गतानि ते सुहृन्मुखाश्च शत्रवः। विचालयन्ति दर्शनाद्घटस्व पुत्र यत्परम् ॥१२-३०९-४४॥
धनस्य यस्य राजतो भयं न चास्ति चौरतः। मृतं च यन्न मुञ्चति समर्जयस्व तद्धनम् ॥१२-३०९-४५॥
न तत्र संविभज्यते स्वकर्मभिः परस्परम्। यदेव यस्य यौतकं तदेव तत्र सोऽश्नुते ॥१२-३०९-४६॥
परत्र येन जीव्यते तदेव पुत्र दीयताम्। धनं यदक्षयं ध्रुवं समर्जयस्व तत्स्वयम् ॥१२-३०९-४७॥
न यावदेव पच्यते महाजनस्य यावकम्। अपक्व एव यावके पुरा प्रणीयसे त्वर ॥१२-३०९-४८॥
न मातृपितृबान्धवा न संस्तुतः प्रियो जनः। अनुव्रजन्ति सङ्कटे व्रजन्तमेकपातिनम् ॥१२-३०९-४९॥
यदेव कर्म केवलं स्वयं कृतं शुभाशुभम्। तदेव तस्य यौतकं भवत्यमुत्र गच्छतः ॥१२-३०९-५०॥
हिरण्यरत्नसञ्चयाः शुभाशुभेन सञ्चिताः। न तस्य देहसङ्क्षये भवन्ति कार्यसाधकाः ॥१२-३०९-५१॥
परत्रगामिकस्य ते कृताकृतस्य कर्मणः। न साक्षिरात्मना समो नृणामिहास्ति कश्चन ॥१२-३०९-५२॥
मनुष्यदेहशून्यकं भवत्यमुत्र गच्छतः। प्रपश्य बुद्धिचक्षुषा प्रदृश्यते हि सर्वतः ॥१२-३०९-५३॥
इहाग्निसूर्यवायवः शरीरमाश्रितास्त्रयः। त एव तस्य साक्षिणो भवन्ति धर्मदर्शिनः ॥१२-३०९-५४॥
यथानिशेषु सर्वतःस्पृशत्सु सर्वदारिषु। प्रकाशगूढवृत्तिषु स्वधर्ममेव पालय ॥१२-३०९-५५॥
अनेकपारिपन्थिके विरूपरौद्ररक्षिते। स्वमेव कर्म रक्ष्यतां स्वकर्म तत्र गच्छति ॥१२-३०९-५६॥
न तत्र संविभज्यते स्वकर्मणा परस्परम्। यथाकृतं स्वकर्मजं तदेव भुज्यते फलम् ॥१२-३०९-५७॥
यथाप्सरोगणाः फलं सुखं महर्षिभिः सह। तथाप्नुवन्ति कर्मतो विमानकामगामिनः ॥१२-३०९-५८॥
यथेह यत्कृतं शुभं विपाप्मभिः कृतात्मभिः। तदाप्नुवन्ति मानवास्तथा विशुद्धयोनयः ॥१२-३०९-५९॥
प्रजापतेः सलोकतां बृहस्पतेः शतक्रतोः। व्रजन्ति ते परां गतिं गृहस्थधर्मसेतुभिः ॥१२-३०९-६०॥
सहस्रशोऽप्यनेकशः प्रवक्तुमुत्सहामहे। अबुद्धिमोहनं पुनः प्रभुर्विना न यावकम् ॥१२-३०९-६१॥
गता द्विरष्टवर्षता ध्रुवोऽसि पञ्चविंशकः। कुरुष्व धर्मसञ्चयं वयो हि तेऽतिवर्तते ॥१२-३०९-६२॥
पुरा करोति सोऽन्तकः प्रमादगोमुखं दमम्। यथागृहीतमुत्थितं त्वरस्व धर्मपालने ॥१२-३०९-६३॥
यदा त्वमेव पृष्ठतस्त्वमग्रतो गमिष्यसि। तथा गतिं गमिष्यतः किमात्मना परेण वा ॥१२-३०९-६४॥
यदेकपातिनां सतां भवत्यमुत्र गच्छताम्। भयेषु साम्परायिकं निधत्स्व तं महानिधिम् ॥१२-३०९-६५॥
सकूलमूलबान्धवं प्रभुर्हरत्यसङ्गवान्। न सन्ति यस्य वारकाः कुरुष्व धर्मसंनिधिम् ॥१२-३०९-६६॥
इदं निदर्शनं मया तवेह पुत्र संमतम्। स्वदर्शनानुमानतः प्रवर्णितं कुरुष्व तत् ॥१२-३०९-६७॥
दधाति यः स्वकर्मणा धनानि यस्य कस्यचित्। अबुद्धिमोहजैर्गुणैः शतैक एव युज्यते ॥१२-३०९-६८॥
श्रुतं समर्थमस्तु ते प्रकुर्वतः शुभाः क्रियाः। तदेव तत्र दर्शनं कृतज्ञमर्थसंहितम् ॥१२-३०९-६९॥
निबन्धनी रज्जुरेषा या ग्रामे वसतो रतिः। छित्त्वैनां सुकृतो यान्ति नैनां छिन्दन्ति दुष्कृतः ॥१२-३०९-७०॥
किं ते धनेन किं बन्धुभिस्ते; किं ते पुत्रैः पुत्रक यो मरिष्यसि। आत्मानमन्विच्छ गुहां प्रविष्टं; पितामहास्ते क्व गताश्च सर्वे ॥१२-३०९-७१॥
श्वःकार्यमद्य कुर्वीत पूर्वाह्णे चापराह्णिकम्। को हि तद्वेद कस्याद्य मृत्युसेना निवेक्ष्यते ॥१२-३०९-७२॥
अनुगम्य श्मशानान्तं निवर्तन्तीह बान्धवाः। अग्नौ प्रक्षिप्य पुरुषं ज्ञातयः सुहृदस्तथा ॥१२-३०९-७३॥
नास्तिकान्निरनुक्रोशान्नरान्पापमतौ स्थितान्। वामतः कुरु विश्रब्धं परं प्रेप्सुरतन्द्रितः ॥१२-३०९-७४॥
एवमभ्याहते लोके कालेनोपनिपीडिते। सुमहद्धैर्यमालम्ब्य धर्मं सर्वात्मना कुरु ॥१२-३०९-७५॥
अथेमं दर्शनोपायं सम्यग्यो वेत्ति मानवः। सम्यक्स धर्मं कृत्वेह परत्र सुखमेधते ॥१२-३०९-७६॥
न देहभेदे मरणं विजानतां; न च प्रणाशः स्वनुपालिते पथि। धर्मं हि यो वर्धयते स पण्डितो; य एव धर्माच्च्यवते स मुह्यति ॥१२-३०९-७७॥
प्रयुक्तयोः कर्मपथि स्वकर्मणोः; फलं प्रयोक्ता लभते यथाविधि। निहीनकर्मा निरयं प्रपद्यते; त्रिविष्टपं गच्छति धर्मपारगः ॥१२-३०९-७८॥
सोपानभूतं स्वर्गस्य मानुष्यं प्राप्य दुर्लभम्। तथात्मानं समादध्याद्भ्रश्येत न पुनर्यथा ॥१२-३०९-७९॥
यस्य नोत्क्रामति मतिः स्वर्गमार्गानुसारिणी। तमाहुः पुण्यकर्माणमशोच्यं मित्रबान्धवैः ॥१२-३०९-८०॥
यस्य नोपहता बुद्धिर्निश्चयेष्ववलम्बते। स्वर्गे कृतावकाशस्य तस्य नास्ति महद्भयम् ॥१२-३०९-८१॥
तपोवनेषु ये जातास्तत्रैव निधनं गताः। तेषामल्पतरो धर्मः कामभोगमजानताम् ॥१२-३०९-८२॥
यस्तु भोगान्परित्यज्य शरीरेण तपश्चरेत्। न तेन किञ्चिन्न प्राप्तं तन्मे बहुमतं फलम् ॥१२-३०९-८३॥
मातापितृसहस्राणि पुत्रदारशतानि च। अनागतान्यतीतानि कस्य ते कस्य वा वयम् ॥१२-३०९-८४॥
न तेषां भवता कार्यं न कार्यं तव तैरपि। स्वकृतैस्तानि यातानि भवांश्चैव गमिष्यति ॥१२-३०९-८५॥
इह लोके हि धनिनः परोऽपि स्वजनायते। स्वजनस्तु दरिद्राणां जीवतामेव नश्यति ॥१२-३०९-८६॥
सञ्चिनोत्यशुभं कर्म कलत्रापेक्षया नरः। ततः क्लेशमवाप्नोति परत्रेह तथैव च ॥१२-३०९-८७॥
पश्य त्वं छिद्रभूतं हि जीवलोकं स्वकर्मणा। तत्कुरुष्व तथा पुत्र कृत्स्नं यत्समुदाहृतम् ॥१२-३०९-८८॥
तदेतत्सम्प्रदृश्यैव कर्मभूमिं प्रविश्य ताम्। शुभान्याचरितव्यानि परलोकमभीप्सता ॥१२-३०९-८९॥
मासर्तुसञ्ज्ञापरिवर्तकेन; सूर्याग्निना रात्रिदिवेन्धनेन। स्वकर्मनिष्ठाफलसाक्षिकेण; भूतानि कालः पचति प्रसह्य ॥१२-३०९-९०॥
धनेन किं यन्न ददाति नाश्नुते; बलेन किं येन रिपून्न बाधते। श्रुतेन किं येन न धर्ममाचरे; त्किमात्मना यो न जितेन्द्रियो वशी ॥१२-३०९-९१॥
इदं द्वैपायनवचो हितमुक्तं निशम्य तु। शुको गतः परित्यज्य पितरं मोक्षदेशिकम् ॥१२-३०९-९२॥