12.310
युधिष्ठिर उवाच॥
कथं व्यासस्य धर्मात्मा शुको जज्ञे महातपाः। सिद्धिं च परमां प्राप्तस्तन्मे ब्रूहि पितामह ॥१२-३१०-१॥
कस्यां चोत्पादयामास शुकं व्यासस्तपोधनः। न ह्यस्य जननीं विद्म जन्म चाग्र्यं महात्मनः ॥१२-३१०-२॥
कथं च बालस्य सतः सूक्ष्मज्ञाने गता मतिः। यथा नान्यस्य लोकेऽस्मिन्द्वितीयस्येह कस्यचित् ॥१२-३१०-३॥
एतदिच्छाम्यहं श्रोतुं विस्तरेण महाद्युते। न हि मे तृप्तिरस्तीह शृण्वतोऽमृतमुत्तमम् ॥१२-३१०-४॥
माहात्म्यमात्मयोगं च विज्ञानं च शुकस्य ह। यथावदानुपूर्व्येण तन्मे ब्रूहि पितामह ॥१२-३१०-५॥
भीष्म उवाच॥
न हायनैर्न पलितैर्न वित्तेन न बन्धुभिः। ऋषयश्चक्रिरे धर्मं योऽनूचानः स नो महान् ॥१२-३१०-६॥
तपोमूलमिदं सर्वं यन्मां पृच्छसि पाण्डव। तदिन्द्रियाणि संयम्य तपो भवति नान्यथा ॥१२-३१०-७॥
इन्द्रियाणां प्रसङ्गेन दोषमृच्छत्यसंशयम्। संनियम्य तु तान्येव सिद्धिं प्राप्नोति मानवः ॥१२-३१०-८॥
अश्वमेधसहस्रस्य वाजपेयशतस्य च। योगस्य कलया तात न तुल्यं विद्यते फलम् ॥१२-३१०-९॥
अत्र ते वर्तयिष्यामि जन्मयोगफलं यथा। शुकस्याग्र्यां गतिं चैव दुर्विदामकृतात्मभिः ॥१२-३१०-१०॥
मेरुशृङ्गे किल पुरा कर्णिकारवनायुते। विजहार महादेवो भीमैर्भूतगणैर्वृतः ॥१२-३१०-११॥
शैलराजसुता चैव देवी तत्राभवत्पुरा। तत्र दिव्यं तपस्तेपे कृष्णद्वैपायनः प्रभुः ॥१२-३१०-१२॥
योगेनात्मानमाविश्य योगधर्मपरायणः। धारयन्स तपस्तेपे पुत्रार्थं कुरुसत्तम ॥१२-३१०-१३॥
अग्नेर्भूमेरपां वायोरन्तरिक्षस्य चाभिभो। वीर्येण संमितः पुत्रो मम भूयादिति स्म ह ॥१२-३१०-१४॥
सङ्कल्पेनाथ सोऽनेन दुष्प्रापेणाकृतात्मभिः। वरयामास देवेशमास्थितस्तप उत्तमम् ॥१२-३१०-१५॥
अतिष्ठन्मारुताहारः शतं किल समाः प्रभुः। आराधयन्महादेवं बहुरूपमुमापतिम् ॥१२-३१०-१६॥
तत्र ब्रह्मर्षयश्चैव सर्वे देवर्षयस्तथा। लोकपालाश्च लोकेशं साध्याश्च वसुभिः सह ॥१२-३१०-१७॥
आदित्याश्चैव रुद्राश्च दिवाकरनिशाकरौ। मरुतो मारुतश्चैव सागराः सरितस्तथा ॥१२-३१०-१८॥
अश्विनौ देवगन्धर्वास्तथा नारदपर्वतौ। विश्वावसुश्च गन्धर्वः सिद्धाश्चाप्सरसां गणाः ॥१२-३१०-१९॥
तत्र रुद्रो महादेवः कर्णिकारमयीं शुभाम्। धारयाणः स्रजं भाति ज्योत्स्नामिव निशाकरः ॥१२-३१०-२०॥
तस्मिन्दिव्ये वने रम्ये देवदेवर्षिसङ्कुले। आस्थितः परमं योगमृषिः पुत्रार्थमुद्यतः ॥१२-३१०-२१॥
न चास्य हीयते वर्णो न ग्लानिरुपजायते। त्रयाणामपि लोकानां तदद्भुतमिवाभवत् ॥१२-३१०-२२॥
जटाश्च तेजसा तस्य वैश्वानरशिखोपमाः। प्रज्वलन्त्यः स्म दृश्यन्ते युक्तस्यामिततेजसः ॥१२-३१०-२३॥
मार्कण्डेयो हि भगवानेतदाख्यातवान्मम। स देवचरितानीह कथयामास मे सदा ॥१२-३१०-२४॥
ता एताद्यापि कृष्णस्य तपसा तेन दीपिताः। अग्निवर्णा जटास्तात प्रकाशन्ते महात्मनः ॥१२-३१०-२५॥
एवंविधेन तपसा तस्य भक्त्या च भारत। महेश्वरः प्रसन्नात्मा चकार मनसा मतिम् ॥१२-३१०-२६॥
उवाच चैनं भगवांस्त्र्यम्बकः प्रहसन्निव। एवंविधस्ते तनयो द्वैपायन भविष्यति ॥१२-३१०-२७॥
यथा ह्यग्निर्यथा वायुर्यथा भूमिर्यथा जलम्। यथा च खं तथा शुद्धो भविष्यति सुतो महान् ॥१२-३१०-२८॥
तद्भावभावी तद्बुद्धिस्तदात्मा तदपाश्रयः। तेजसावृत्य लोकांस्त्रीन्यशः प्राप्स्यति केवलम् ॥१२-३१०-२९॥