12.313
भीष्म उवाच॥
ततः स राजा जनको मन्त्रिभिः सह भारत। पुरः पुरोहितं कृत्वा सर्वाण्यन्तःपुराणि च ॥१२-३१३-१॥
आसनं च पुरस्कृत्य रत्नानि विविधानि च। शिरसा चार्घ्यमादाय गुरुपुत्रं समभ्यगात् ॥१२-३१३-२॥
स तदासनमादाय बहुरत्नविभूषितम्। स्पर्ध्यास्तरणसंस्तीर्णं सर्वतोभद्रमृद्धिमत् ॥१२-३१३-३॥
पुरोधसा सङ्गृहीतं हस्तेनालभ्य पार्थिवः। प्रददौ गुरुपुत्राय शुकाय परमार्चितम् ॥१२-३१३-४॥
तत्रोपविष्टं तं कार्ष्णिं शास्त्रतः प्रत्यपूजयत्। पाद्यं निवेद्य प्रथममर्घ्यं गां च न्यवेदयत् ॥ स च तां मन्त्रवत्पूजां प्रत्यगृह्णाद्यथाविधि ॥१२-३१३-५॥
प्रतिगृह्य च तां पूजां जनकाद्द्विजसत्तमः। गां चैव समनुज्ञाय राजानमनुमान्य च ॥१२-३१३-६॥
पर्यपृच्छन्महातेजा राज्ञः कुशलमव्ययम्। अनामयं च राजेन्द्र शुकः सानुचरस्य ह ॥१२-३१३-७॥
अनुज्ञातः स तेनाथ निषसाद सहानुगः। उदारसत्त्वाभिजनो भूमौ राजा कृताञ्जलिः ॥१२-३१३-८॥
कुशलं चाव्ययं चैव पृष्ट्वा वैयासकिं नृपः। किमागमनमित्येव पर्यपृच्छत पार्थिवः ॥१२-३१३-९॥
शुक उवाच॥
पित्राहमुक्तो भद्रं ते मोक्षधर्मार्थकोविदः। विदेहराजो याज्यो मे जनको नाम विश्रुतः ॥१२-३१३-१०॥
तत्र गच्छस्व वै तूर्णं यदि ते हृदि संशयः। प्रवृत्तौ वा निवृत्तौ वा स ते छेत्स्यति संशयम् ॥१२-३१३-११॥
सोऽहं पितुर्नियोगात्त्वामुपप्रष्टुमिहागतः। तन्मे धर्मभृतां श्रेष्ठ यथावद्वक्तुमर्हसि ॥१२-३१३-१२॥
किं कार्यं ब्राह्मणेनेह मोक्षार्थश्च किमात्मकः। कथं च मोक्षः कर्तव्यो ज्ञानेन तपसापि वा ॥१२-३१३-१३॥
जनक उवाच॥
यत्कार्यं ब्राह्मणेनेह जन्मप्रभृति तच्छृणु। कृतोपनयनस्तात भवेद्वेदपरायणः ॥१२-३१३-१४॥
तपसा गुरुवृत्त्या च ब्रह्मचर्येण चाभिभो। देवतानां पितॄणां चाप्यनृणश्चानसूयकः ॥१२-३१३-१५॥
वेदानधीत्य नियतो दक्षिणामपवर्ज्य च। अभ्यनुज्ञामथ प्राप्य समावर्तेत वै द्विजः ॥१२-३१३-१६॥
समावृत्तस्तु गार्हस्थ्ये सदारो नियतो वसेत्। अनसूयुर्यथान्यायमाहिताग्निस्तथैव च ॥१२-३१३-१७॥
उत्पाद्य पुत्रपौत्रं तु वन्याश्रमपदे वसेत्। तानेवाग्नीन्यथाशास्त्रमर्चयन्नतिथिप्रियः ॥१२-३१३-१८॥
स वनेऽग्नीन्यथान्यायमात्मन्यारोप्य धर्मवित्। निर्द्वंद्वो वीतरागात्मा ब्रह्माश्रमपदे वसेत् ॥१२-३१३-१९॥
शुक उवाच॥
उत्पन्ने ज्ञानविज्ञाने प्रत्यक्षे हृदि शाश्वते। किमवश्यं निवस्तव्यमाश्रमेषु वनेषु च ॥१२-३१३-२०॥
एतद्भवन्तं पृच्छामि तद्भवान्वक्तुमर्हति। यथावेदार्थतत्त्वेन ब्रूहि मे त्वं जनाधिप ॥१२-३१३-२१॥
जनक उवाच॥
न विना ज्ञानविज्ञानं मोक्षस्याधिगमो भवेत्। न विना गुरुसम्बन्धं ज्ञानस्याधिगमः स्मृतः ॥१२-३१३-२२॥
आचार्यः प्लाविता तस्य ज्ञानं प्लव इहोच्यते। विज्ञाय कृतकृत्यस्तु तीर्णस्तदुभयं त्यजेत् ॥१२-३१३-२३॥
अनुच्छेदाय लोकानामनुच्छेदाय कर्मणाम्। पूर्वैराचरितो धर्मश्चातुराश्रम्यसङ्कथः ॥१२-३१३-२४॥
अनेन क्रमयोगेन बहुजातिषु कर्मणा। कृत्वा शुभाशुभं कर्म मोक्षो नामेह लभ्यते ॥१२-३१३-२५॥
भवितैः कारणैश्चायं बहुसंसारयोनिषु। आसादयति शुद्धात्मा मोक्षं वै प्रथमाश्रमे ॥१२-३१३-२६॥
तमासाद्य तु मुक्तस्य दृष्टार्थस्य विपश्चितः। त्रिष्वाश्रमेषु को न्वर्थो भवेत्परमभीप्सतः ॥१२-३१३-२७॥
राजसांस्तामसांश्चैव नित्यं दोषान्विवर्जयेत्। सात्त्विकं मार्गमास्थाय पश्येदात्मानमात्मना ॥१२-३१३-२८॥
सर्वभूतेषु चात्मानं सर्वभूतानि चात्मनि। सम्पश्यन्नोपलिप्येत जले वारिचरो यथा ॥१२-३१३-२९॥
पक्षीव प्लवनादूर्ध्वममुत्रानन्त्यमश्नुते। विहाय देहं निर्मुक्तो निर्द्वंद्वः प्रशमं गतः ॥१२-३१३-३०॥
अत्र गाथाः पुरा गीताः शृणु राज्ञा ययातिना। धार्यन्ते या द्विजैस्तात मोक्षशास्त्रविशारदैः ॥१२-३१३-३१॥
ज्योतिर्मात्मनि नान्यत्र रतं तत्रैव चैव तत्। स्वयं च शक्यं तद्द्रष्टुं सुसमाहितचेतसा ॥१२-३१३-३२॥
न बिभेति परो यस्मान्न बिभेति पराच्च यः। यश्च नेच्छति न द्वेष्टि ब्रह्म सम्पद्यते तदा ॥१२-३१३-३३॥
यदा भावं न कुरुते सर्वभूतेषु पापकम्। कर्मणा मनसा वाचा ब्रह्म सम्पद्यते तदा ॥१२-३१३-३४॥
संयोज्य तपसात्मानमीर्ष्यामुत्सृज्य मोहिनीम्। त्यक्त्वा कामं च लोभं च ततो ब्रह्मत्वमश्नुते ॥१२-३१३-३५॥
यदा श्रव्ये च दृश्ये च सर्वभूतेषु चाप्ययम्। समो भवति निर्द्वंद्वो ब्रह्म सम्पद्यते तदा ॥१२-३१३-३६॥
यदा स्तुतिं च निन्दां च समत्वेनैव पश्यति। काञ्चनं चायसं चैव सुखदुःखे तथैव च ॥१२-३१३-३७॥
शीतमुष्णं तथैवार्थमनर्थं प्रियमप्रियम्। जीवितं मरणं चैव ब्रह्म सम्पद्यते तदा ॥१२-३१३-३८॥
प्रसार्येह यथाङ्गानि कूर्मः संहरते पुनः। तथेन्द्रियाणि मनसा संयन्तव्यानि भिक्षुणा ॥१२-३१३-३९॥
तमःपरिगतं वेश्म यथा दीपेन दृश्यते। तथा बुद्धिप्रदीपेन शक्य आत्मा निरीक्षितुम् ॥१२-३१३-४०॥
एतत्सर्वं प्रपश्यामि त्वयि बुद्धिमतां वर। यच्चान्यदपि वेत्तव्यं तत्त्वतो वेद तद्भवान् ॥१२-३१३-४१॥
ब्रह्मर्षे विदितश्चासि विषयान्तमुपागतः। गुरोस्तव प्रसादेन तव चैवोपशिक्षया ॥१२-३१३-४२॥
तस्यैव च प्रसादेन प्रादुर्भूतं महामुने। ज्ञानं दिव्यं ममापीदं तेनासि विदितो मम ॥१२-३१३-४३॥
अधिकं तव विज्ञानमधिका च गतिस्तव। अधिकं च तवैश्वर्यं तच्च त्वं नावबुध्यसे ॥१२-३१३-४४॥
बाल्याद्वा संशयाद्वापि भयाद्वाप्यविमोक्षजात्। उत्पन्ने चापि विज्ञाने नाधिगच्छति तां गतिम् ॥१२-३१३-४५॥
व्यवसायेन शुद्धेन मद्विधैश्छिन्नसंशयः। विमुच्य हृदयग्रन्थीनासादयति तां गतिम् ॥१२-३१३-४६॥
भवांश्चोत्पन्नविज्ञानः स्थिरबुद्धिरलोलुपः। व्यवसायादृते ब्रह्मन्नासादयति तत्परम् ॥१२-३१३-४७॥
नास्ति ते सुखदुःखेषु विशेषो नास्ति लोलुपा। नौत्सुक्यं नृत्तगीतेषु न राग उपजायते ॥१२-३१३-४८॥
न बन्धुषु निबन्धस्ते न भयेष्वस्ति ते भयम्। पश्यामि त्वां महाभाग तुल्यलोष्टाश्मकाञ्चनम् ॥१२-३१३-४९॥
अहं च त्वानुपश्यामि ये चाप्यन्ये मनीषिणः। आस्थितं परमं मार्गमक्षयं तमनामयम् ॥१२-३१३-५०॥
यत्फलं ब्राह्मणस्येह मोक्षार्थश्च यदात्मकः। तस्मिन्वै वर्तसे विप्र किमन्यत्परिपृच्छसि ॥१२-३१३-५१॥