Mahabharata - Shanti Parva (महाभारत - शान्तिपर्वम्)
12.312
भीष्म उवाच॥
स मोक्षमनुचिन्त्यैव शुकः पितरमभ्यगात्। प्राहाभिवाद्य च गुरुं श्रेयोर्थी विनयान्वितः ॥१२-३१२-१॥
मोक्षधर्मेषु कुशलो भगवान्प्रब्रवीतु मे। यथा मे मनसः शान्तिः परमा सम्भवेत्प्रभो ॥१२-३१२-२॥
श्रुत्वा पुत्रस्य वचनं परमर्षिरुवाच तम्। अधीष्व पुत्र मोक्षं वै धर्मांश्च विविधानपि ॥१२-३१२-३॥
पितुर्नियोगाज्जग्राह शुको ब्रह्मविदां वरः। योगशास्त्रं च निखिलं कापिलं चैव भारत ॥१२-३१२-४॥
स तं ब्राह्म्या श्रिया युक्तं ब्रह्मतुल्यपराक्रमम्। मेने पुत्रं यदा व्यासो मोक्षविद्याविशारदम् ॥१२-३१२-५॥
उवाच गच्छेति तदा जनकं मिथिलेश्वरम्। स ते वक्ष्यति मोक्षार्थं निखिलेन विशेषतः ॥१२-३१२-६॥
पितुर्नियोगादगमन्मैथिलं जनकं नृपम्। प्रष्टुं धर्मस्य निष्ठां वै मोक्षस्य च परायणम् ॥१२-३१२-७॥
उक्तश्च मानुषेण त्वं पथा गच्छेत्यविस्मितः। न प्रभावेण गन्तव्यमन्तरिक्षचरेण वै ॥१२-३१२-८॥
आर्जवेणैव गन्तव्यं न सुखान्वेषिणा पथा। नान्वेष्टव्या विशेषास्तु विशेषा हि प्रसङ्गिनः ॥१२-३१२-९॥
अहङ्कारो न कर्तव्यो याज्ये तस्मिन्नराधिपे। स्थातव्यं च वशे तस्य स ते छेत्स्यति संशयम् ॥१२-३१२-१०॥
स धर्मकुशलो राजा मोक्षशास्त्रविशारदः। याज्यो मम स यद्ब्रूयात्तत्कार्यमविशङ्कया ॥१२-३१२-११॥
एवमुक्तः स धर्मात्मा जगाम मिथिलां मुनिः। पद्भ्यां शक्तोऽन्तरिक्षेण क्रान्तुं भूमिं ससागराम् ॥१२-३१२-१२॥
स गिरींश्चाप्यतिक्रम्य नदीस्तीर्त्वा सरांसि च। बहुव्यालमृगाकीर्णा विविधाश्चाटवीस्तथा ॥१२-३१२-१३॥
मेरोर्हरेश्च द्वे वर्षे वर्षं हैमवतं तथा। क्रमेणैव व्यतिक्रम्य भारतं वर्षमासदत् ॥१२-३१२-१४॥
स देशान्विविधान्पश्यंश्चीनहूणनिषेवितान्। आर्यावर्तमिमं देशमाजगाम महामुनिः ॥१२-३१२-१५॥
पितुर्वचनमाज्ञाय तमेवार्थं विचिन्तयन्। अध्वानं सोऽतिचक्राम खेऽचरः खे चरन्निव ॥१२-३१२-१६॥
पत्तनानि च रम्याणि स्फीतानि नगराणि च। रत्नानि च विचित्राणि शुकः पश्यन्न पश्यति ॥१२-३१२-१७॥
उद्यानानि च रम्याणि तथैवायतनानि च। पुण्यानि चैव तीर्थानि सोऽतिक्रम्य तथाध्वनः ॥१२-३१२-१८॥
सोऽचिरेणैव कालेन विदेहानाससाद ह। रक्षितान्धर्मराजेन जनकेन महात्मना ॥१२-३१२-१९॥
तत्र ग्रामान्बहून्पश्यन्बह्वन्नरसभोजनान्। पल्लीघोषान्समृद्धांश्च बहुगोकुलसङ्कुलान् ॥१२-३१२-२०॥
स्फीतांश्च शालियवसैर्हंससारससेवितान्। पद्मिनीभिश्च शतशः श्रीमतीभिरलङ्कृतान् ॥१२-३१२-२१॥
स विदेहानतिक्रम्य समृद्धजनसेवितान्। मिथिलोपवनं रम्यमाससाद महर्द्धिमत् ॥१२-३१२-२२॥
हस्त्यश्वरथसङ्कीर्णं नरनारीसमाकुलम्। पश्यन्नपश्यन्निव तत्समतिक्रामदच्युतः ॥१२-३१२-२३॥
मनसा तं वहन्भारं तमेवार्थं विचिन्तयन्। आत्मारामः प्रसन्नात्मा मिथिलामाससाद ह ॥१२-३१२-२४॥
तस्या द्वारं समासाद्य द्वारपालैर्निवारितः। स्थितो ध्यानपरो मुक्तो विदितः प्रविवेश ह ॥१२-३१२-२५॥
स राजमार्गमासाद्य समृद्धजनसङ्कुलम्। पार्थिवक्षयमासाद्य निःशङ्कः प्रविवेश ह ॥१२-३१२-२६॥
तत्रापि द्वारपालास्तमुग्रवाचो न्यषेधयन्। तथैव च शुकस्तत्र निर्मन्युः समतिष्ठत ॥१२-३१२-२७॥
न चातपाध्वसन्तप्तः क्षुत्पिपासाश्रमान्वितः। प्रताम्यति ग्लायति वा नापैति च तथातपात् ॥१२-३१२-२८॥
तेषां तु द्वारपालानामेकः शोकसमन्वितः। मध्यङ्गतमिवादित्यं दृष्ट्वा शुकमवस्थितम् ॥१२-३१२-२९॥
पूजयित्वा यथान्यायमभिवाद्य कृताञ्जलिः। प्रावेशयत्ततः कक्ष्यां द्वितीयां राजवेश्मनः ॥१२-३१२-३०॥
तत्रासीनः शुकस्तात मोक्षमेवानुचिन्तयन्। छायायामातपे चैव समदर्शी महाद्युतिः ॥१२-३१२-३१॥
तं मुहूर्तादिवागम्य राज्ञो मन्त्री कृताञ्जलिः। प्रावेशयत्ततः कक्ष्यां तृतीयां राजवेश्मनः ॥१२-३१२-३२॥
तत्रान्तःपुरसम्बद्धं महच्चैत्ररथोपमम्। सुविभक्तजलाक्रीडं रम्यं पुष्पितपादपम् ॥१२-३१२-३३॥
तद्दर्शयित्वा स शुकं मन्त्री काननमुत्तमम्। अर्हमासनमादिश्य निश्चक्राम ततः पुनः ॥१२-३१२-३४॥
तं चारुवेषाः सुश्रोण्यस्तरुण्यः प्रियदर्शनाः। सूक्ष्मरक्ताम्बरधरास्तप्तकाञ्चनभूषणाः ॥१२-३१२-३५॥
संलापोल्लापकुशला नृत्तगीतविशारदाः। स्मितपूर्वाभिभाषिण्यो रूपेणाप्सरसां समाः ॥१२-३१२-३६॥
कामोपचारकुशला भावज्ञाः सर्वकोविदाः। परं पञ्चाशतो नार्यो वारमुख्याः समाद्रवन् ॥१२-३१२-३७॥
पाद्यादीनि प्रतिग्राह्य पूजया परयार्च्य च। देशकालोपपन्नेन साध्वन्नेनाप्यतर्पयन् ॥१२-३१२-३८॥
तस्य भुक्तवतस्तात तदन्तःपुरकाननम्। सुरम्यं दर्शयामासुरेकैकश्येन भारत ॥१२-३१२-३९॥
क्रीडन्त्यश्च हसन्त्यश्च गायन्त्यश्चैव ताः शुकम्। उदारसत्त्वं सत्त्वज्ञाः सर्वाः पर्यचरंस्तदा ॥१२-३१२-४०॥
आरणेयस्तु शुद्धात्मा त्रिसंदेहस्त्रिकर्मकृत्। वश्येन्द्रियो जितक्रोधो न हृष्यति न कुप्यति ॥१२-३१२-४१॥
तस्मै शय्यासनं दिव्यं वरार्हं रत्नभूषितम्। स्पर्ध्यास्तरणसंस्तीर्णं ददुस्ताः परमस्त्रियः ॥१२-३१२-४२॥
पादशौचं तु कृत्वैव शुकः सन्ध्यामुपास्य च। निषसादासने पुण्ये तमेवार्थं विचिन्तयन् ॥१२-३१२-४३॥
पूर्वरात्रे तु तत्रासौ भूत्वा ध्यानपरायणः। मध्यरात्रे यथान्यायं निद्रामाहारयत्प्रभुः ॥१२-३१२-४४॥
ततो मुहूर्तादुत्थाय कृत्वा शौचमनन्तरम्। स्त्रीभिः परिवृतो धीमान्ध्यानमेवान्वपद्यत ॥१२-३१२-४५॥
अनेन विधिना कार्ष्णिस्तदहःशेषमच्युतः। तां च रात्रिं नृपकुले वर्तयामास भारत ॥१२-३१२-४६॥

...

ॐ असतो मा सद्गमय। तमसो मा ज्योतिर्गमय। मृत्योर्माऽमृतं गमय। ॐ शान्ति: शान्ति: शान्ति: ॥ - बृहदारण्यकोपनिषद् 1.3.28
"Ōm! Lead me from the unreal to the real, from darkness to light, and from death to immortality. Let there be peace, peace, and peace. Ōm!" - Brihadaranyaka Upanishad 1.3.28

Copyright © 2025, Incredible Wisdom.
All rights reserved.