12.314
भीष्म उवाच॥
एतच्छ्रुत्वा तु वचनं कृतात्मा कृतनिश्चयः। आत्मनात्मानमास्थाय दृष्ट्वा चात्मानमात्मना ॥१२-३१४-१॥
कृतकार्यः सुखी शान्तस्तूष्णीं प्रायादुदङ्मुखः। शैशिरं गिरिमुद्दिश्य सधर्मा मातरिश्वनः ॥१२-३१४-२॥
एतस्मिन्नेव काले तु देवर्षिर्नारदस्तदा। हिमवन्तमियाद्द्रष्टुं सिद्धचारणसेवितम् ॥१२-३१४-३॥
तमप्सरोगणाकीर्णं गीतस्वननिनादितम्। किंनराणां समूहैश्च भृङ्गराजैस्तथैव च ॥१२-३१४-४॥
मद्गुभिः खञ्जरीटैश्च विचित्रैर्जीवजीवकैः। चित्रवर्णैर्मयूरैश्च केकाशतविराजितैः ॥ राजहंससमूहैश्च हृष्टैः परभृतैस्तथा ॥१२-३१४-५॥
पक्षिराजो गरुत्मांश्च यं नित्यमधिगच्छति। चत्वारो लोकपालाश्च देवाः सर्षिगणास्तथा ॥ यत्र नित्यं समायान्ति लोकस्य हितकाम्यया ॥१२-३१४-६॥
विष्णुना यत्र पुत्रार्थे तपस्तप्तं महात्मना। यत्रैव च कुमारेण बाल्ये क्षिप्ता दिवौकसः ॥१२-३१४-७॥
शक्तिर्न्यस्ता क्षितितले त्रैलोक्यमवमन्य वै। यत्रोवाच जगत्स्कन्दः क्षिपन्वाक्यमिदं तदा ॥१२-३१४-८॥
योऽन्योऽस्ति मत्तोऽभ्यधिको विप्रा यस्याधिकं प्रियाः। यो ब्रह्मण्यो द्वितीयोऽस्ति त्रिषु लोकेषु वीर्यवान् ॥१२-३१४-९॥
सोऽभ्युद्धरत्विमां शक्तिमथ वा कम्पयत्विति। तच्छ्रुत्वा व्यथिता लोकाः क इमामुद्धरेदिति ॥१२-३१४-१०॥
अथ देवगणं सर्वं सम्भ्रान्तेन्द्रियमानसम्। अपश्यद्भगवान्विष्णुः क्षिप्तं सासुरराक्षसम् ॥ किं न्वत्र सुकृतं कार्यं भवेदिति विचिन्तयन् ॥१२-३१४-११॥
स नामृष्यत तं क्षेपमवैक्षत च पावकिम्। स प्रहस्य विशुद्धात्मा शक्तिं प्रज्वलितां तदा ॥ कम्पयामास सव्येन पाणिना पुरुषोत्तमः ॥१२-३१४-१२॥
शक्त्यां तु कम्पमानायां विष्णुना बलिना तदा। मेदिनी कम्पिता सर्वा सशैलवनकानना ॥१२-३१४-१३॥
शक्तेनापि समुद्धर्तुं कम्पिता सा न तूद्धृता। रक्षता स्कन्दराजस्य धर्षणां प्रभविष्णुना ॥१२-३१४-१४॥
तां कम्पयित्वा भगवान्प्रह्रादमिदमब्रवीत्। पश्य वीर्यं कुमारस्य नैतदन्यः करिष्यति ॥१२-३१४-१५॥
सोऽमृष्यमाणस्तद्वाक्यं समुद्धरणनिश्चितः। जग्राह तां तस्य शक्तिं न चैनामप्यकम्पयत् ॥१२-३१४-१६॥
नादं महान्तं मुक्त्वा स मूर्छितो गिरिमूर्धनि। विह्वलः प्रापतद्भूमौ हिरण्यकशिपोः सुतः ॥१२-३१४-१७॥
यत्रोत्तरां दिशं गत्वा शैलराजस्य पार्श्वतः। तपोऽतप्यत दुर्धर्षस्तात नित्यं वृषध्वजः ॥१२-३१४-१८॥
पावकेन परिक्षिप्तो दीप्यता तस्य चाश्रमः। आदित्यबन्धनं नाम दुर्धर्षमकृतात्मभिः ॥१२-३१४-१९॥
न तत्र शक्यते गन्तुं यक्षराक्षसदानवैः। दशयोजनविस्तारमग्निज्वालासमावृतम् ॥१२-३१४-२०॥
भगवान्पावकस्तत्र स्वयं तिष्ठति वीर्यवान्। सर्वविघ्नान्प्रशमयन्महादेवस्य धीमतः ॥१२-३१४-२१॥
दिव्यं वर्षसहस्रं हि पादेनैकेन तिष्ठतः। देवान्सन्तापयंस्तत्र महादेवो धृतव्रतः ॥१२-३१४-२२॥
ऐन्द्रीं तु दिशमास्थाय शैलराजस्य धीमतः। विविक्ते पर्वततटे पाराशर्यो महातपाः ॥ वेदानध्यापयामास व्यासः शिष्यान्महातपाः ॥१२-३१४-२३॥
सुमन्तुं च महाभागं वैशम्पायनमेव च। जैमिनिं च महाप्राज्ञं पैलं चापि तपस्विनम् ॥१२-३१४-२४॥
एभिः शिष्यैः परिवृतो व्यास आस्ते महातपाः। तत्राश्रमपदं पुण्यं ददर्श पितुरुत्तमम् ॥ आरणेयो विशुद्धात्मा नभसीव दिवाकरः ॥१२-३१४-२५॥
अथ व्यासः परिक्षिप्तं ज्वलन्तमिव पावकम्। ददर्श सुतमायान्तं दिवाकरसमप्रभम् ॥१२-३१४-२६॥
असज्जमानं वृक्षेषु शैलेषु विषमेषु च। योगयुक्तं महात्मानं यथा बाणं गुणच्युतम् ॥१२-३१४-२७॥
सोऽभिगम्य पितुः पादावगृह्णादरणीसुतः। यथोपजोषं तैश्चापि समागच्छन्महामुनिः ॥१२-३१४-२८॥
ततो निवेदयामास पित्रे सर्वमशेषतः। शुको जनकराजेन संवादं प्रीतमानसः ॥१२-३१४-२९॥
एवमध्यापयञ्शिष्यान्व्यासः पुत्रं च वीर्यवान्। उवास हिमवत्पृष्ठे पाराशर्यो महामुनिः ॥१२-३१४-३०॥
ततः कदाचिच्छिष्यास्तं परिवार्यावतस्थिरे। वेदाध्ययनसम्पन्नाः शान्तात्मानो जितेन्द्रियाः ॥१२-३१४-३१॥
वेदेषु निष्ठां सम्प्राप्य साङ्गेष्वतितपस्विनः। अथोचुस्ते तदा व्यासं शिष्याः प्राञ्जलयो गुरुम् ॥१२-३१४-३२॥
महता श्रेयसा युक्ता यशसा च स्म वर्धिताः। एकं त्विदानीमिच्छामो गुरुणानुग्रहं कृतम् ॥१२-३१४-३३॥
इति तेषां वचः श्रुत्वा ब्रह्मर्षिस्तानुवाच ह। उच्यतामिति तद्वत्सा यद्वः कार्यं प्रियं मया ॥१२-३१४-३४॥
एतद्वाक्यं गुरोः श्रुत्वा शिष्यास्ते हृष्टमानसाः। पुनः प्राञ्जलयो भूत्वा प्रणम्य शिरसा गुरुम् ॥१२-३१४-३५॥
ऊचुस्ते सहिता राजन्निदं वचनमुत्तमम्। यदि प्रीत उपाध्यायो धन्याः स्मो मुनिसत्तम ॥१२-३१४-३६॥
काङ्क्षामस्तु वयं सर्वे वरं दत्तं महर्षिणा। षष्ठः शिष्यो न ते ख्यातिं गच्छेदत्र प्रसीद नः ॥१२-३१४-३७॥
चत्वारस्ते वयं शिष्या गुरुपुत्रश्च पञ्चमः। इह वेदाः प्रतिष्ठेरन्नेष नः काङ्क्षितो वरः ॥१२-३१४-३८॥
शिष्याणां वचनं श्रुत्वा व्यासो वेदार्थतत्त्ववित्। पराशरात्मजो धीमान्परलोकार्थचिन्तकः ॥ उवाच शिष्यान्धर्मात्मा धर्म्यं नैःश्रेयसं वचः ॥१२-३१४-३९॥
ब्राह्मणाय सदा देयं ब्रह्म शुश्रूषवे भवेत्। ब्रह्मलोके निवासं यो ध्रुवं समभिकाङ्क्षति ॥१२-३१४-४०॥
भवन्तो बहुलाः सन्तु वेदो विस्तार्यतामयम्। नाशिष्ये सम्प्रदातव्यो नाव्रते नाकृतात्मनि ॥१२-३१४-४१॥
एते शिष्यगुणाः सर्वे विज्ञातव्या यथार्थतः। नापरीक्षितचारित्रे विद्या देया कथञ्चन ॥१२-३१४-४२॥
यथा हि कनकं शुद्धं तापच्छेदनिघर्षणैः। परीक्षेत तथा शिष्यानीक्षेत्कुलगुणादिभिः ॥१२-३१४-४३॥
न नियोज्याश्च वः शिष्या अनियोगे महाभये। यथामति यथापाठं तथा विद्या फलिष्यति ॥१२-३१४-४४॥
सर्वस्तरतु दुर्गाणि सर्वो भद्राणि पश्यतु। श्रावयेच्चतुरो वर्णान्कृत्वा ब्राह्मणमग्रतः ॥१२-३१४-४५॥
वेदस्याध्ययनं हीदं तच्च कार्यं महत्स्मृतम्। स्तुत्यर्थमिह देवानां वेदाः सृष्टाः स्वयम्भुवा ॥१२-३१४-४६॥
यो निर्वदेत संमोहाद्ब्राह्मणं वेदपारगम्। सोऽपध्यानाद्ब्राह्मणस्य पराभूयादसंशयम् ॥१२-३१४-४७॥
यश्चाधर्मेण विब्रूयाद्यश्चाधर्मेण पृच्छति। तयोरन्यतरः प्रैति विद्वेषं वाधिगच्छति ॥१२-३१४-४८॥
एतद्वः सर्वमाख्यातं स्वाध्यायस्य विधिं प्रति। उपकुर्याच्च शिष्याणामेतच्च हृदि वो भवेत् ॥१२-३१४-४९॥