12.316
भीष्म उवाच॥
एतस्मिन्नन्तरे शून्ये नारदः समुपागमत्। शुकं स्वाध्यायनिरतं वेदार्थान्वक्तुमीप्सितान् ॥१२-३१६-१॥
देवर्षिं तु शुको दृष्ट्वा नारदं समुपस्थितम्। अर्घ्यपूर्वेण विधिना वेदोक्तेनाभ्यपूजयत् ॥१२-३१६-२॥
नारदोऽथाब्रवीत्प्रीतो ब्रूहि ब्रह्मविदां वर। केन त्वां श्रेयसा तात योजयामीति हृष्टवत् ॥१२-३१६-३॥
नारदस्य वचः श्रुत्वा शुकः प्रोवाच भारत। अस्मिँल्लोके हितं यत्स्यात्तेन मां योक्तुमर्हसि ॥१२-३१६-४॥
नारद उवाच॥
तत्त्वं जिज्ञासतां पूर्वमृषीणां भावितात्मनाम्। सनत्कुमारो भगवानिदं वचनमब्रवीत् ॥१२-३१६-५॥
नास्ति विद्यासमं चक्षुर्नास्ति विद्यासमं तपः। नास्ति रागसमं दुःखं नास्ति त्यागसमं सुखम् ॥१२-३१६-६॥
निवृत्तिः कर्मणः पापात्सततं पुण्यशीलता। सद्वृत्तिः समुदाचारः श्रेय एतदनुत्तमम् ॥१२-३१६-७॥
मानुष्यमसुखं प्राप्य यः सज्जति स मुह्यति। नालं स दुःखमोक्षाय सङ्गो वै दुःखलक्षणम् ॥१२-३१६-८॥
सक्तस्य बुद्धिश्चलति मोहजालविवर्धिनी। मोहजालावृतो दुःखमिह चामुत्र चाश्नुते ॥१२-३१६-९॥
सर्वोपायेन कामस्य क्रोधस्य च विनिग्रहः। कार्यः श्रेयोर्थिना तौ हि श्रेयोघातार्थमुद्यतौ ॥१२-३१६-१०॥
नित्यं क्रोधात्तपो रक्षेच्छ्रियं रक्षेत मत्सरात्। विद्यां मानावमानाभ्यामात्मानं तु प्रमादतः ॥१२-३१६-११॥
आनृशंस्यं परो धर्मः क्षमा च परमं बलम्। आत्मज्ञानं परं ज्ञानं न सत्याद्विद्यते परम् ॥१२-३१६-१२॥
सत्यस्य वचनं श्रेयः सत्यादपि हितं भवेत्। यद्भूतहितमत्यन्तमेतत्सत्यं मतं मम ॥१२-३१६-१३॥
सर्वारम्भफलत्यागी निराशीर्निष्परिग्रहः। येन सर्वं परित्यक्तं स विद्वान्स च पण्डितः ॥१२-३१६-१४॥
इन्द्रियैरिन्द्रियार्थेभ्यश्चरत्यात्मवशैरिह। असज्जमानः शान्तात्मा निर्विकारः समाहितः ॥१२-३१६-१५॥
आत्मभूतैरतद्भूतः सह चैव विनैव च। स विमुक्तः परं श्रेयो नचिरेणाधिगच्छति ॥१२-३१६-१६॥
अदर्शनमसंस्पर्शस्तथासम्भाषणं सदा। यस्य भूतैः सह मुने स श्रेयो विन्दते परम् ॥१२-३१६-१७॥
न हिंस्यात्सर्वभूतानि मैत्रायणगतश्चरेत्। नेदं जन्म समासाद्य वैरं कुर्वीत केनचित् ॥१२-३१६-१८॥
आकिञ्चन्यं सुसन्तोषो निराशीष्ट्वमचापलम्। एतदाहुः परं श्रेय आत्मज्ञस्य जितात्मनः ॥१२-३१६-१९॥
परिग्रहं परित्यज्य भव तात जितेन्द्रियः। अशोकं स्थानमातिष्ठ इह चामुत्र चाभयम् ॥१२-३१६-२०॥
निरामिषा न शोचन्ति त्यजेहामिषमात्मनः। परित्यज्यामिषं सौम्य दुःखतापाद्विमोक्ष्यसे ॥१२-३१६-२१॥
तपोनित्येन दान्तेन मुनिना संयतात्मना। अजितं जेतुकामेन भाव्यं सङ्गेष्वसङ्गिना ॥१२-३१६-२२॥
गुणसङ्गेष्वनासक्त एकचर्यारतः सदा। ब्राह्मणे नचिरादेव सुखमायात्यनुत्तमम् ॥१२-३१६-२३॥
द्वंद्वारामेषु भूतेषु य एको रमते मुनिः। विद्धि प्रज्ञानतृप्तं तं ज्ञानतृप्तो न शोचति ॥१२-३१६-२४॥
शुभैर्लभति देवत्वं व्यामिश्रैर्जन्म मानुषम्। अशुभैश्चाप्यधोजन्म कर्मभिर्लभतेऽवशः ॥१२-३१६-२५॥
तत्र मृत्युजरादुःखैः सततं समभिद्रुतः। संसारे पच्यते जन्तुस्तत्कथं नावबुध्यसे ॥१२-३१६-२६॥
अहिते हितसञ्ज्ञस्त्वमध्रुवे ध्रुवसञ्ज्ञकः। अनर्थे चार्थसञ्ज्ञस्त्वं किमर्थं नावबुध्यसे ॥१२-३१६-२७॥
संवेष्ट्यमानं बहुभिर्मोहतन्तुभिरात्मजैः। कोशकारवदात्मानं वेष्टयन्नावबुध्यसे ॥१२-३१६-२८॥
अलं परिग्रहेणेह दोषवान्हि परिग्रहः। कृमिर्हि कोशकारस्तु बध्यते स्वपरिग्रहात् ॥१२-३१६-२९॥
पुत्रदारकुटुम्बेषु सक्ताः सीदन्ति जन्तवः। सरःपङ्कार्णवे मग्ना जीर्णा वनगजा इव ॥१२-३१६-३०॥
महाजालसमाकृष्टान्स्थले मत्स्यानिवोद्धृतान्। स्नेहजालसमाकृष्टान्पश्य जन्तून्सुदुःखितान् ॥१२-३१६-३१॥
कुटुम्बं पुत्रदारं च शरीरं द्रव्यसञ्चयाः। पारक्यमध्रुवं सर्वं किं स्वं सुकृतदुष्कृतम् ॥१२-३१६-३२॥
यदा सर्वं परित्यज्य गन्तव्यमवशेन ते। अनर्थे किं प्रसक्तस्त्वं स्वमर्थं नानुतिष्ठसि ॥१२-३१६-३३॥
अविश्रान्तमनालम्बमपाथेयमदैशिकम्। तमःकान्तारमध्वानं कथमेको गमिष्यसि ॥१२-३१६-३४॥
न हि त्वा प्रस्थितं कश्चित्पृष्ठतोऽनुगमिष्यति। सुकृतं दुष्कृतं च त्वा यास्यन्तमनुयास्यति ॥१२-३१६-३५॥
विद्या कर्म च शौर्यं च ज्ञानं च बहुविस्तरम्। अर्थार्थमनुसार्यन्ते सिद्धार्थस्तु विमुच्यते ॥१२-३१६-३६॥
निबन्धनी रज्जुरेषा या ग्रामे वसतो रतिः। छित्त्वैनां सुकृतो यान्ति नैनां छिन्दन्ति दुष्कृतः ॥१२-३१६-३७॥
रूपकूलां मनःस्रोतां स्पर्शद्वीपां रसावहाम्। गन्धपङ्कां शब्दजलां स्वर्गमार्गदुरावहाम् ॥१२-३१६-३८॥
क्षमारित्रां सत्यमयीं धर्मस्थैर्यवटाकराम्। त्यागवाताध्वगां शीघ्रां बुद्धिनावा नदीं तरेत् ॥१२-३१६-३९॥
त्यज धर्ममधर्मं च उभे सत्यानृते त्यज। उभे सत्यानृते त्यक्त्वा येन त्यजसि तं त्यज ॥१२-३१६-४०॥
त्यज धर्ममसङ्कल्पादधर्मं चाप्यहिंसया। उभे सत्यानृते बुद्ध्या बुद्धिं परमनिश्चयात् ॥१२-३१६-४१॥
अस्थिस्थूणं स्नायुयुतं मांसशोणितलेपनम्। चर्मावनद्धं दुर्गन्धि पूर्णं मूत्रपुरीषयोः ॥१२-३१६-४२॥
जराशोकसमाविष्टं रोगायतनमातुरम्। रजस्वलमनित्यं च भूतावासं समुत्सृज ॥१२-३१६-४३॥
इदं विश्वं जगत्सर्वमजगच्चापि यद्भवेत्। महाभूतात्मकं सर्वं महद्यत्परमाणु यत् ॥१२-३१६-४४॥
इन्द्रियाणि च पञ्चैव तमः सत्त्वं रजस्तथा। इत्येष सप्तदशको राशिरव्यक्तसञ्ज्ञकः ॥१२-३१६-४५॥
सर्वैरिहेन्द्रियार्थैश्च व्यक्ताव्यक्तैर्हि संहितः। पञ्चविंशक इत्येष व्यक्ताव्यक्तमयो गुणः ॥१२-३१६-४६॥
एतैः सर्वैः समायुक्तः पुमानित्यभिधीयते। त्रिवर्गोऽत्र सुखं दुःखं जीवितं मरणं तथा ॥१२-३१६-४७॥
य इदं वेद तत्त्वेन स वेद प्रभवाप्ययौ। पाराशर्येह बोद्धव्यं ज्ञानानां यच्च किञ्चन ॥१२-३१६-४८॥
इन्द्रियैर्गृह्यते यद्यत्तत्तद्व्यक्तमिति स्थितिः। अव्यक्तमिति विज्ञेयं लिङ्गग्राह्यमतीन्द्रियम् ॥१२-३१६-४९॥
इन्द्रियैर्नियतैर्देही धाराभिरिव तर्प्यते। लोके विततमात्मानं लोकं चात्मनि पश्यति ॥१२-३१६-५०॥
परावरदृशः शक्तिर्ज्ञानवेलां न पश्यति। पश्यतः सर्वभूतानि सर्वावस्थासु सर्वदा ॥१२-३१६-५१॥
ब्रह्मभूतस्य संयोगो नाशुभेनोपपद्यते। ज्ञानेन विविधान्क्लेशानतिवृत्तस्य मोहजान् ॥ लोके बुद्धिप्रकाशेन लोकमार्गो न रिष्यते ॥१२-३१६-५२॥
अनादिनिधनं जन्तुमात्मनि स्थितमव्ययम्। अकर्तारममूर्तं च भगवानाह तीर्थवित् ॥१२-३१६-५३॥
यो जन्तुः स्वकृतैस्तैस्तैः कर्मभिर्नित्यदुःखितः। स दुःखप्रतिघातार्थं हन्ति जन्तूननेकधा ॥१२-३१६-५४॥
ततः कर्म समादत्ते पुनरन्यन्नवं बहु। तप्यतेऽथ पुनस्तेन भुक्त्वापथ्यमिवातुरः ॥१२-३१६-५५॥
अजस्रमेव मोहार्तो दुःखेषु सुखसञ्ज्ञितः। बध्यते मथ्यते चैव कर्मभिर्मन्थवत्सदा ॥१२-३१६-५६॥
ततो निवृत्तो बन्धात्स्वात्कर्मणामुदयादिह। परिभ्रमति संसारं चक्रवद्बहुवेदनः ॥१२-३१६-५७॥
स त्वं निवृत्तबन्धस्तु निवृत्तश्चापि कर्मतः। सर्ववित्सर्वजित्सिद्धो भव भावविवर्जितः ॥१२-३१६-५८॥
संयमेन नवं बन्धं निवर्त्य तपसो बलात्। सम्प्राप्ता बहवः सिद्धिमप्यबाधां सुखोदयाम् ॥१२-३१६-५९॥