Mahabharata - Shanti Parva (महाभारत - शान्तिपर्वम्)
12.317
नारद उवाच॥
अशोकं शोकनाशार्थं शास्त्रं शान्तिकरं शिवम्। निशम्य लभते बुद्धिं तां लब्ध्वा सुखमेधते ॥१२-३१७-१॥
शोकस्थानसहस्राणि भयस्थानशतानि च। दिवसे दिवसे मूढमाविशन्ति न पण्डितम् ॥१२-३१७-२॥
तस्मादनिष्टनाशार्थमितिहासं निबोध मे। तिष्ठते चेद्वशे बुद्धिर्लभते शोकनाशनम् ॥१२-३१७-३॥
अनिष्टसम्प्रयोगाच्च विप्रयोगात्प्रियस्य च। मनुष्या मानसैर्दुःखैर्युज्यन्ते अल्पबुद्धयः ॥१२-३१७-४॥
द्रव्येषु समतीतेषु ये गुणास्तान्न चिन्तयेत्। ताननाद्रियमाणस्य स्नेहबन्धः प्रमुच्यते ॥१२-३१७-५॥
दोषदर्शी भवेत्तत्र यत्र रागः प्रवर्तते। अनिष्टवद्धितं पश्येत्तथा क्षिप्रं विरज्यते ॥१२-३१७-६॥
नार्थो न धर्मो न यशो योऽतीतमनुशोचति। अप्यभावेन युज्येत तच्चास्य न निवर्तते ॥१२-३१७-७॥
गुणैर्भूतानि युज्यन्ते वियुज्यन्ते तथैव च। सर्वाणि नैतदेकस्य शोकस्थानं हि विद्यते ॥१२-३१७-८॥
मृतं वा यदि वा नष्टं योऽतीतमनुशोचति। दुःखेन लभते दुःखं द्वावनर्थौ प्रपद्यते ॥१२-३१७-९॥
नाश्रु कुर्वन्ति ये बुद्ध्या दृष्ट्वा लोकेषु सन्ततिम्। सम्यक्प्रपश्यतः सर्वं नाश्रुकर्मोपपद्यते ॥१२-३१७-१०॥
दुःखोपघाते शारीरे मानसे वाप्युपस्थिते। यस्मिन्न शक्यते कर्तुं यत्नस्तन्नानुचिन्तयेत् ॥१२-३१७-११॥
भैषज्यमेतद्दुःखस्य यदेतन्नानुचिन्तयेत्। चिन्त्यमानं हि न व्येति भूयश्चापि प्रवर्धते ॥१२-३१७-१२॥
प्रज्ञया मानसं दुःखं हन्याच्छारीरमौषधैः। एतद्विज्ञानसामर्थ्यं न बालैः समतामियात् ॥१२-३१७-१३॥
अनित्यं यौवनं रूपं जीवितं द्रव्यसञ्चयः। आरोग्यं प्रियसंवासो गृध्येत्तत्र न पण्डितः ॥१२-३१७-१४॥
न जानपदिकं दुःखमेकः शोचितुमर्हति। अशोचन्प्रतिकुर्वीत यदि पश्येदुपक्रमम् ॥१२-३१७-१५॥
सुखाद्बहुतरं दुःखं जीविते नात्र संशयः। स्निग्धत्वं चेन्द्रियार्थेषु मोहान्मरणमप्रियम् ॥१२-३१७-१६॥
परित्यजति यो दुःखं सुखं वाप्युभयं नरः। अभ्येति ब्रह्म सोऽत्यन्तं न तं शोचन्ति पण्डिताः ॥१२-३१७-१७॥
दुःखमर्था हि त्यज्यन्ते पालने न च ते सुखाः। दुःखेन चाधिगम्यन्ते नाशमेषां न चिन्तयेत् ॥१२-३१७-१८॥
अन्यामन्यां धनावस्थां प्राप्य वैशेषिकीं नराः। अतृप्ता यान्ति विध्वंसं सन्तोषं यान्ति पण्डिताः ॥१२-३१७-१९॥
सर्वे क्षयान्ता निचयाः पतनान्ताः समुच्छ्रयाः। संयोगा विप्रयोगान्ता मरणान्तं हि जीवितम् ॥१२-३१७-२०॥
अन्तो नास्ति पिपासायास्तुष्टिस्तु परमं सुखम्। तस्मात्सन्तोषमेवेह धनं पश्यन्ति पण्डिताः ॥१२-३१७-२१॥
निमेषमात्रमपि हि वयो गच्छन्न तिष्ठति। स्वशरीरेष्वनित्येषु नित्यं किमनुचिन्तयेत् ॥१२-३१७-२२॥
भूतेष्वभावं सञ्चिन्त्य ये बुद्ध्वा तमसः परम्। न शोचन्ति गताध्वानः पश्यन्तः परमां गतिम् ॥१२-३१७-२३॥
सञ्चिन्वानकमेवैनं कामानामवितृप्तकम्। व्याघ्रः पशुमिवासाद्य मृत्युरादाय गच्छति ॥१२-३१७-२४॥
अथाप्युपायं सम्पश्येद्दुःखस्य परिमोक्षणे। अशोचन्नारभेतैव युक्तश्चाव्यसनी भवेत् ॥१२-३१७-२५॥
शब्दे स्पर्शे च रूपे च गन्धेषु च रसेषु च। नोपभोगात्परं किञ्चिद्धनिनो वाधनस्य वा ॥१२-३१७-२६॥
प्राक्सम्प्रयोगाद्भूतानां नास्ति दुःखमनामयम्। विप्रयोगात्तु सर्वस्य न शोचेत्प्रकृतिस्थितः ॥१२-३१७-२७॥
धृत्या शिश्नोदरं रक्षेत्पाणिपादं च चक्षुषा। चक्षुःश्रोत्रे च मनसा मनो वाचं च विद्यया ॥१२-३१७-२८॥
प्रणयं प्रतिसंहृत्य संस्तुतेष्वितरेषु च। विचरेदसमुन्नद्धः स सुखी स च पण्डितः ॥१२-३१७-२९॥
अध्यात्मरतिरासीनो निरपेक्षो निरामिषः। आत्मनैव सहायेन यश्चरेत्स सुखी भवेत् ॥१२-३१७-३०॥

...

ॐ असतो मा सद्गमय। तमसो मा ज्योतिर्गमय। मृत्योर्माऽमृतं गमय। ॐ शान्ति: शान्ति: शान्ति: ॥ - बृहदारण्यकोपनिषद् 1.3.28
"Ōm! Lead me from the unreal to the real, from darkness to light, and from death to immortality. Let there be peace, peace, and peace. Ōm!" - Brihadaranyaka Upanishad 1.3.28

Copyright © 2025, Incredible Wisdom.
All rights reserved.