Mahabharata - Shanti Parva (महाभारत - शान्तिपर्वम्)
12.315
भीष्म उवाच॥
एतच्छ्रुत्वा गुरोर्वाक्यं व्यासशिष्या महौजसः। अन्योन्यं हृष्टमनसः परिषस्वजिरे तदा ॥१२-३१५-१॥
उक्ताः स्मो यद्भगवता तदात्वायतिसंहितम्। तन्नो मनसि संरूढं करिष्यामस्तथा च तत् ॥१२-३१५-२॥
अन्योन्यं च सभाज्यैवं सुप्रीतमनसः पुनः। विज्ञापयन्ति स्म गुरुं पुनर्वाक्यविशारदाः ॥१२-३१५-३॥
शैलादस्मान्महीं गन्तुं काङ्क्षितं नो महामुने। वेदाननेकधा कर्तुं यदि ते रुचितं विभो ॥१२-३१५-४॥
शिष्याणां वचनं श्रुत्वा पराशरसुतः प्रभुः। प्रत्युवाच ततो वाक्यं धर्मार्थसहितं हितम् ॥१२-३१५-५॥
क्षितिं वा देवलोकं वा गम्यतां यदि रोचते। अप्रमादश्च वः कार्यो ब्रह्म हि प्रचुरच्छलम् ॥१२-३१५-६॥
तेऽनुज्ञातास्ततः सर्वे गुरुणा सत्यवादिना। जग्मुः प्रदक्षिणं कृत्वा व्यासं मूर्ध्नाभिवाद्य च ॥१२-३१५-७॥
अवतीर्य महीं तेऽथ चातुर्होत्रमकल्पयन्। संयाजयन्तो विप्रांश्च राजन्यांश्च विशस्तथा ॥१२-३१५-८॥
पूज्यमाना द्विजैर्नित्यं मोदमाना गृहे रताः। याजनाध्यापनरताः श्रीमन्तो लोकविश्रुताः ॥१२-३१५-९॥
अवतीर्णेषु शिष्येषु व्यासः पुत्रसहायवान्। तूष्णीं ध्यानपरो धीमानेकान्ते समुपाविशत् ॥१२-३१५-१०॥
तं ददर्शाश्रमपदे नारदः सुमहातपाः। अथैनमब्रवीत्काले मधुराक्षरया गिरा ॥१२-३१५-११॥
भो भो महर्षे वासिष्ठ ब्रह्मघोषो न वर्तते। एको ध्यानपरस्तूष्णीं किमास्से चिन्तयन्निव ॥१२-३१५-१२॥
ब्रह्मघोषैर्विरहितः पर्वतोऽयं न शोभते। रजसा तमसा चैव सोमः सोपप्लवो यथा ॥१२-३१५-१३॥
न भ्राजते यथापूर्वं निषादानामिवालयः। देवर्षिगणजुष्टोऽपि वेदध्वनिनिराकृतः ॥१२-३१५-१४॥
ऋषयश्च हि देवाश्च गन्धर्वाश्च महौजसः। विमुक्ता ब्रह्मघोषेण न भ्राजन्ते यथा पुरा ॥१२-३१५-१५॥
नारदस्य वचः श्रुत्वा कृष्णद्वैपायनोऽब्रवीत्। महर्षे यत्त्वया प्रोक्तं वेदवादविचक्षण ॥१२-३१५-१६॥
एतन्मनोनुकूलं मे भवानर्हति भाषितुम्। सर्वज्ञः सर्वदर्शी च सर्वत्र च कुतूहली ॥१२-३१५-१७॥
त्रिषु लोकेषु यद्वृत्तं सर्वं तव मते स्थितम्। तदाज्ञापय विप्रर्षे ब्रूहि किं करवाणि ते ॥१२-३१५-१८॥
यन्मया समनुष्ठेयं ब्रह्मर्षे तदुदाहर। वियुक्तस्येह शिष्यैर्मे नातिहृष्टमिदं मनः ॥१२-३१५-१९॥
नारद उवाच॥
अनाम्नायमला वेदा ब्राह्मणस्याव्रतं मलम्। मलं पृथिव्या वाहीकाः स्त्रीणां कौतूहलं मलम् ॥१२-३१५-२०॥
अधीयतां भवान्वेदान्सार्धं पुत्रेण धीमता। विधुन्वन्ब्रह्मघोषेण रक्षोभयकृतं तमः ॥१२-३१५-२१॥
भीष्म उवाच॥
नारदस्य वचः श्रुत्वा व्यासः परमधर्मवित्। तथेत्युवाच संहृष्टो वेदाभ्यासे दृढव्रतः ॥१२-३१५-२२॥
शुकेन सह पुत्रेण वेदाभ्यासमथाकरोत्। स्वरेणोच्चैः स शैक्षेण लोकानापूरयन्निव ॥१२-३१५-२३॥
तयोरभ्यसतोरेवं नानाधर्मप्रवादिनोः। वातोऽतिमात्रं प्रववौ समुद्रानिलवेजितः ॥१२-३१५-२४॥
ततोऽनध्याय इति तं व्यासः पुत्रमवारयत्। शुको वारितमात्रस्तु कौतूहलसमन्वितः ॥१२-३१५-२५॥
अपृच्छत्पितरं ब्रह्मन्कुतो वायुरभूदयम्। आख्यातुमर्हति भवान्वायोः सर्वं विचेष्टितम् ॥१२-३१५-२६॥
शुकस्यैतद्वचः श्रुत्वा व्यासः परमविस्मितः। अनध्यायनिमित्तेऽस्मिन्निदं वचनमब्रवीत् ॥१२-३१५-२७॥
दिव्यं ते चक्षुरुत्पन्नं स्वस्थं ते निर्मलं मनः। तमसा रजसा चापि त्यक्तः सत्त्वे व्यवस्थितः ॥१२-३१५-२८॥
आदर्शे स्वामिव छायां पश्यस्यात्मानमात्मना। न्यस्यात्मनि स्वयं वेदान्बुद्ध्या समनुचिन्तय ॥१२-३१५-२९॥
देवयानचरो विष्णोः पितृयानश्च तामसः। द्वावेतौ प्रेत्य पन्थानौ दिवं चाधश्च गच्छतः ॥१२-३१५-३०॥
पृथिव्यामन्तरिक्षे च यत्र संवान्ति वायवः। सप्तैते वायुमार्गा वै तान्निबोधानुपूर्वशः ॥१२-३१५-३१॥
तत्र देवगणाः साध्याः समभूवन्महाबलाः। तेषामप्यभवत्पुत्रः समानो नाम दुर्जयः ॥१२-३१५-३२॥
उदानस्तस्य पुत्रोऽभूद्व्यानस्तस्याभवत्सुतः। अपानश्च ततो ज्ञेयः प्राणश्चापि ततः परम् ॥१२-३१५-३३॥
अनपत्योऽभवत्प्राणो दुर्धर्षः शत्रुतापनः। पृथक्कर्माणि तेषां तु प्रवक्ष्यामि यथातथम् ॥१२-३१५-३४॥
प्राणिनां सर्वतो वायुश्चेष्टा वर्तयते पृथक्। प्राणनाच्चैव भूतानां प्राण इत्यभिधीयते ॥१२-३१५-३५॥
प्रेरयत्यभ्रसङ्घातान्धूमजांश्चोष्मजांश्च यः। प्रथमः प्रथमे मार्गे प्रवहो नाम सोऽनिलः ॥१२-३१५-३६॥
अम्बरे स्नेहमभ्रेभ्यस्तडिद्भ्यश्चोत्तमद्युतिः। आवहो नाम संवाति द्वितीयः श्वसनो नदन् ॥१२-३१५-३७॥
उदयं ज्योतिषां शश्वत्सोमादीनां करोति यः। अन्तर्देहेषु चोदानं यं वदन्ति महर्षयः ॥१२-३१५-३८॥
यश्चतुर्भ्यः समुद्रेभ्यो वायुर्धारयते जलम्। उद्धृत्याददते चापो जीमूतेभ्योऽम्बरेऽनिलः ॥१२-३१५-३९॥
योऽद्भिः संयोज्य जीमूतान्पर्जन्याय प्रयच्छति। उद्वहो नाम वर्षिष्ठस्त्रितीयः स सदागतिः ॥१२-३१५-४०॥
समुह्यमाना बहुधा येन नीलाः पृथग्घनाः। वर्षमोक्षकृतारम्भास्ते भवन्ति घनाघनाः ॥१२-३१५-४१॥
संहता येन चाविद्धा भवन्ति नदतां नदाः। रक्षणार्थाय सम्भूता मेघत्वमुपयान्ति च ॥१२-३१५-४२॥
योऽसौ वहति देवानां विमानानि विहायसा। चतुर्थः संवहो नाम वायुः स गिरिमर्दनः ॥१२-३१५-४३॥
येन वेगवता रुग्णा रूक्षेणारुजता रसान्। वायुना विहता मेघा न भवन्ति बलाहकाः ॥१२-३१५-४४॥
दारुणोत्पातसञ्चारो नभसः स्तनयित्नुमान्। पञ्चमः स महावेगो विवहो नाम मारुतः ॥१२-३१५-४५॥
यस्मिन्पारिप्लवे दिव्या वहन्त्यापो विहायसा। पुण्यं चाकाशगङ्गायास्तोयं विष्टभ्य तिष्ठति ॥१२-३१५-४६॥
दूरात्प्रतिहतो यस्मिन्नेकरश्मिर्दिवाकरः। योनिरंशुसहस्रस्य येन भाति वसुन्धरा ॥१२-३१५-४७॥
यस्मादाप्यायते सोमो निधिर्दिव्योऽमृतस्य च। षष्ठः परिवहो नाम स वायुर्जवतां वरः ॥१२-३१५-४८॥
सर्वप्राणभृतां प्राणान्योऽन्तकाले निरस्यति। यस्य वर्त्मानुवर्तेते मृत्युवैवस्वतावुभौ ॥१२-३१५-४९॥
सम्यगन्वीक्षतां बुद्ध्या शान्तयाध्यात्मनित्यया। ध्यानाभ्यासाभिरामाणां योऽमृतत्वाय कल्पते ॥१२-३१५-५०॥
यं समासाद्य वेगेन दिशामन्तं प्रपेदिरे। दक्षस्य दश पुत्राणां सहस्राणि प्रजापतेः ॥१२-३१५-५१॥
येन सृष्टः पराभूतो यात्येव न निवर्तते। परावहो नाम परो वायुः स दुरतिक्रमः ॥१२-३१५-५२॥
एवमेतेऽदितेः पुत्रा मारुताः परमाद्भुताः। अनारमन्तः संवान्ति सर्वगाः सर्वधारिणः ॥१२-३१५-५३॥
एतत्तु महदाश्चर्यं यदयं पर्वतोत्तमः। कम्पितः सहसा तेन वायुनाभिप्रवायता ॥१२-३१५-५४॥
विष्णोर्निःश्वासवातोऽयं यदा वेगसमीरितः। सहसोदीर्यते तात जगत्प्रव्यथते तदा ॥१२-३१५-५५॥
तस्माद्ब्रह्मविदो ब्रह्म नाधीयन्तेऽतिवायति। वायोर्वायुभयं ह्युक्तं ब्रह्म तत्पीडितं भवेत् ॥१२-३१५-५६॥
एतावदुक्त्वा वचनं पराशरसुतः प्रभुः। उक्त्वा पुत्रमधीष्वेति व्योमगङ्गामयात्तदा ॥१२-३१५-५७॥

...

ॐ असतो मा सद्गमय। तमसो मा ज्योतिर्गमय। मृत्योर्माऽमृतं गमय। ॐ शान्ति: शान्ति: शान्ति: ॥ - बृहदारण्यकोपनिषद् 1.3.28
"Ōm! Lead me from the unreal to the real, from darkness to light, and from death to immortality. Let there be peace, peace, and peace. Ōm!" - Brihadaranyaka Upanishad 1.3.28

Copyright © 2025, Incredible Wisdom.
All rights reserved.