Mahabharata - Shanti Parva (महाभारत - शान्तिपर्वम्)
12.318
नारद उवाच॥
सुखदुःखविपर्यासो यदा समुपपद्यते। नैनं प्रज्ञा सुनीतं वा त्रायते नापि पौरुषम् ॥१२-३१८-१॥
स्वभावाद्यत्नमातिष्ठेद्यत्नवान्नावसीदति। जरामरणरोगेभ्यः प्रियमात्मानमुद्धरेत् ॥१२-३१८-२॥
रुजन्ति हि शरीराणि रोगाः शारीरमानसाः। सायका इव तीक्ष्णाग्राः प्रयुक्ता दृढधन्विभिः ॥१२-३१८-३॥
व्याधितस्य विवित्साभिस्त्रस्यतो जीवितैषिणः। अवशस्य विनाशाय शरीरमपकृष्यते ॥१२-३१८-४॥
स्रवन्ति न निवर्तन्ते स्रोतांसि सरितामिव। आयुरादाय मर्त्यानां रात्र्यहानि पुनः पुनः ॥१२-३१८-५॥
व्यत्ययो ह्ययमत्यन्तं पक्षयोः शुक्लकृष्णयोः। जातं मर्त्यं जरयति निमेषं नावतिष्ठते ॥१२-३१८-६॥
सुखदुःखानि भूतानामजरो जरयन्नसौ। आदित्यो ह्यस्तमभ्येति पुनः पुनरुदेति च ॥१२-३१८-७॥
अदृष्टपूर्वानादाय भावानपरिशङ्कितान्। इष्टानिष्टान्मनुष्याणामस्तं गच्छन्ति रात्रयः ॥१२-३१८-८॥
यो यमिच्छेद्यथाकामं कामानां तत्तदाप्नुयात्। यदि स्यान्न पराधीनं पुरुषस्य क्रियाफलम् ॥१२-३१८-९॥
संयताश्च हि दक्षाश्च मतिमन्तश्च मानवाः। दृश्यन्ते निष्फलाः सन्तः प्रहीणाश्च स्वकर्मभिः ॥१२-३१८-१०॥
अपरे बालिशाः सन्तो निर्गुणाः पुरुषाधमाः। आशीर्भिरप्यसंयुक्ता दृश्यन्ते सर्वकामिनः ॥१२-३१८-११॥
भूतानामपरः कश्चिद्धिंसायां सततोत्थितः। वञ्चनायां च लोकस्य स सुखेष्वेव जीर्यते ॥१२-३१८-१२॥
अचेष्टमानमासीनं श्रीः कञ्चिदुपतिष्ठति। कश्चित्कर्मानुसृत्यान्यो न प्राप्यमधिगच्छति ॥१२-३१८-१३॥
अपराधं समाचक्ष्व पुरुषस्य स्वभावतः। शुक्रमन्यत्र सम्भूतं पुनरन्यत्र गच्छति ॥१२-३१८-१४॥
तस्य योनौ प्रसक्तस्य गर्भो भवति वा न वा। आम्रपुष्पोपमा यस्य निवृत्तिरुपलभ्यते ॥१२-३१८-१५॥
केषाञ्चित्पुत्रकामानामनुसन्तानमिच्छताम्। सिद्धौ प्रयतमानानां नैवाण्डमुपजायते ॥१२-३१८-१६॥
गर्भाच्चोद्विजमानानां क्रुद्धादाशीविषादिव। आयुष्माञ्जायते पुत्रः कथं प्रेतः पितैव सः ॥१२-३१८-१७॥
देवानिष्ट्वा तपस्तप्त्वा कृपणैः पुत्रगृद्धिभिः। दश मासान्परिधृता जायन्ते कुलपांसनाः ॥१२-३१८-१८॥
अपरे धनधान्यानि भोगांश्च पितृसञ्चितान्। विपुलानभिजायन्ते लब्धास्तैरेव मङ्गलैः ॥१२-३१८-१९॥
अन्योन्यं समभिप्रेत्य मैथुनस्य समागमे। उपद्रव इवाविष्टो योनिं गर्भः प्रपद्यते ॥१२-३१८-२०॥
शीर्णं परशरीरेण निच्छवीकं शरीरिणम्। प्राणिनां प्राणसंरोधे मांसश्लेष्मविचेष्टितम् ॥१२-३१८-२१॥
निर्दग्धं परदेहेन परदेहं चलाचलम्। विनश्यन्तं विनाशान्ते नावि नावमिवाहितम् ॥१२-३१८-२२॥
सङ्गत्या जठरे न्यस्तं रेतोबिन्दुमचेतनम्। केन यत्नेन जीवन्तं गर्भं त्वमिह पश्यसि ॥१२-३१८-२३॥
अन्नपानानि जीर्यन्ते यत्र भक्षाश्च भक्षिताः। तस्मिन्नेवोदरे गर्भः किं नान्नमिव जीर्यते ॥१२-३१८-२४॥
गर्भमूत्रपुरीषाणां स्वभावनियता गतिः। धारणे वा विसर्गे वा न कर्तुर्विद्यते वशः ॥१२-३१८-२५॥
स्रवन्ति ह्युदराद्गर्भा जायमानास्तथापरे। आगमेन सहान्येषां विनाश उपपद्यते ॥१२-३१८-२६॥
एतस्माद्योनिसम्बन्धाद्यो जीवन्परिमुच्यते। प्रजां च लभते काञ्चित्पुनर्द्वंद्वेषु मज्जति ॥१२-३१८-२७॥
शतस्य सहजातस्य सप्तमीं दशमीं दशाम्। प्राप्नुवन्ति ततः पञ्च न भवन्ति शतायुषः ॥१२-३१८-२८॥
नाभ्युत्थाने मनुष्याणां योगाः स्युर्नात्र संशयः। व्याधिभिश्च विमथ्यन्ते व्यालैः क्षुद्रमृगा इव ॥१२-३१८-२९॥
व्याधिभिर्भक्ष्यमाणानां त्यजतां विपुलं धनम्। वेदनां नापकर्षन्ति यतमानाश्चिकित्सकाः ॥१२-३१८-३०॥
ते चापि निपुणा वैद्याः कुशलाः सम्भृतौषधाः। व्याधिभिः परिकृष्यन्ते मृगा व्याधैरिवार्दिताः ॥१२-३१८-३१॥
ते पिबन्तः कषायांश्च सर्पींषि विविधानि च। दृश्यन्ते जरया भग्ना नागा नागैरिवोत्तमैः ॥१२-३१८-३२॥
के वा भुवि चिकित्सन्ते रोगार्तान्मृगपक्षिणः। श्वापदानि दरिद्रांश्च प्रायो नार्ता भवन्ति ते ॥१२-३१८-३३॥
घोरानपि दुराधर्षान्नृपतीनुग्रतेजसः। आक्रम्य रोग आदत्ते पशून्पशुपचो यथा ॥१२-३१८-३४॥
इति लोकमनाक्रन्दं मोहशोकपरिप्लुतम्। स्रोतसा सहसा क्षिप्तं ह्रियमाणं बलीयसा ॥१२-३१८-३५॥
न धनेन न राज्येन नोग्रेण तपसा तथा। स्वभावा व्यतिवर्तन्ते ये नियुक्ताः शरीरिषु ॥१२-३१८-३६॥
न म्रियेरन्न जीर्येरन्सर्वे स्युः सर्वकामिकाः। नाप्रियं प्रतिपश्येयुरुत्थानस्य फलं प्रति ॥१२-३१८-३७॥
उपर्युपरि लोकस्य सर्वो भवितुमिच्छति। यतते च यथाशक्ति न च तद्वर्तते तथा ॥१२-३१८-३८॥
ऐश्वर्यमदमत्तांश्च मत्तान्मद्यमदेन च। अप्रमत्ताः शठाः क्रूरा विक्रान्ताः पर्युपासते ॥१२-३१८-३९॥
क्लेशाः प्रतिनिवर्तन्ते केषाञ्चिदसमीक्षिताः। स्वं स्वं च पुनरन्येषां न किञ्चिदभिगम्यते ॥१२-३१८-४०॥
महच्च फलवैषम्यं दृश्यते कर्मसन्धिषु। वहन्ति शिबिकामन्ये यान्त्यन्ये शिबिकागताः ॥१२-३१८-४१॥
सर्वेषामृद्धिकामानामन्ये रथपुरःसराः। मनुजाश्च शतस्त्रीकाः शतशो विधवाः स्त्रियः ॥१२-३१८-४२॥
द्वंद्वारामेषु भूतेषु गच्छन्त्येकैकशो नराः। इदमन्यत्परं पश्य मात्र मोहं करिष्यसि ॥१२-३१८-४३॥
त्यज धर्ममधर्मं च उभे सत्यानृते त्यज। उभे सत्यानृते त्यक्त्वा येन त्यजसि तं त्यज ॥१२-३१८-४४॥
एतत्ते परमं गुह्यमाख्यातमृषिसत्तम। येन देवाः परित्यज्य मर्त्यलोकं दिवं गताः ॥१२-३१८-४५॥
भीष्म उवाच॥
नारदस्य वचः श्रुत्वा शुकः परमबुद्धिमान्। सञ्चिन्त्य मनसा धीरो निश्चयं नाध्यगच्छत ॥१२-३१८-४६॥
पुत्रदारैर्महान्क्लेशो विद्याम्नाये महाञ्श्रमः। किं नु स्याच्छाश्वतं स्थानमल्पक्लेशं महोदयम् ॥१२-३१८-४७॥
ततो मुहूर्तं सञ्चिन्त्य निश्चितां गतिमात्मनः। परावरज्ञो धर्मस्य परां नैःश्रेयसीं गतिम् ॥१२-३१८-४८॥
कथं त्वहमसङ्क्लिष्टो गच्छेयं परमां गतिम्। नावर्तेयं यथा भूयो योनिसंसारसागरे ॥१२-३१८-४९॥
परं भावं हि काङ्क्षामि यत्र नावर्तते पुनः। सर्वसङ्गान्परित्यज्य निश्चितां मनसो गतिम् ॥१२-३१८-५०॥
तत्र यास्यामि यत्रात्मा शमं मेऽधिगमिष्यति। अक्षयश्चाव्ययश्चैव यत्र स्थास्यामि शाश्वतः ॥१२-३१८-५१॥
न तु योगमृते शक्या प्राप्तुं सा परमा गतिः। अवबन्धो हि मुक्तस्य कर्मभिर्नोपपद्यते ॥१२-३१८-५२॥
तस्माद्योगं समास्थाय त्यक्त्वा गृहकलेवरम्। वायुभूतः प्रवेक्ष्यामि तेजोराशिं दिवाकरम् ॥१२-३१८-५३॥
न ह्येष क्षयमाप्नोति सोमः सुरगणैर्यथा। कम्पितः पतते भूमिं पुनश्चैवाधिरोहति ॥ क्षीयते हि सदा सोमः पुनश्चैवाभिपूर्यते ॥१२-३१८-५४॥
रविस्तु सन्तापयति लोकान्रश्मिभिरुल्बणैः। सर्वतस्तेज आदत्ते नित्यमक्षयमण्डलः ॥१२-३१८-५५॥
अतो मे रोचते गन्तुमादित्यं दीप्ततेजसम्। अत्र वत्स्यामि दुर्धर्षो निःसङ्गेनान्तरात्मना ॥१२-३१८-५६॥
सूर्यस्य सदने चाहं निक्षिप्येदं कलेवरम्। ऋषिभिः सह यास्यामि सौरं तेजोऽतिदुःसहम् ॥१२-३१८-५७॥
आपृच्छामि नगान्नागान्गिरीनुर्वीं दिशो दिवम्। देवदानवगन्धर्वान्पिशाचोरगराक्षसान् ॥१२-३१८-५८॥
लोकेषु सर्वभूतानि प्रवेक्ष्यामि नसंशयः। पश्यन्तु योगवीर्यं मे सर्वे देवाः सहर्षिभिः ॥१२-३१८-५९॥
अथानुज्ञाप्य तमृषिं नारदं लोकविश्रुतम्। तस्मादनुज्ञां सम्प्राप्य जगाम पितरं प्रति ॥१२-३१८-६०॥
सोऽभिवाद्य महात्मानमृषिं द्वैपायनं मुनिम्। शुकः प्रदक्षिणीकृत्य कृष्णमापृष्टवान्मुनिः ॥१२-३१८-६१॥
श्रुत्वा ऋषिस्तद्वचनं शुकस्य; प्रीतो महात्मा पुनराह चैनम्। भो भोः पुत्र स्थीयतां तावदद्य; यावच्चक्षुः प्रीणयामि त्वदर्थम् ॥१२-३१८-६२॥
निरपेक्षः शुको भूत्वा निःस्नेहो मुक्तबन्धनः। मोक्षमेवानुसञ्चिन्त्य गमनाय मनो दधे ॥ पितरं सम्परित्यज्य जगाम द्विजसत्तमः ॥१२-३१८-६३॥

...

ॐ असतो मा सद्गमय। तमसो मा ज्योतिर्गमय। मृत्योर्माऽमृतं गमय। ॐ शान्ति: शान्ति: शान्ति: ॥ - बृहदारण्यकोपनिषद् 1.3.28
"Ōm! Lead me from the unreal to the real, from darkness to light, and from death to immortality. Let there be peace, peace, and peace. Ōm!" - Brihadaranyaka Upanishad 1.3.28

Copyright © 2025, Incredible Wisdom.
All rights reserved.