12.324
युधिष्ठिर उवाच॥
यदा भक्तो भगवत आसीद्राजा महावसुः। किमर्थं स परिभ्रष्टो विवेश विवरं भुवः ॥३-३२४-१॥
भीष्म उवाच॥
अत्राप्युदाहरन्तीममितिहासं पुरातनम्। ऋषीणां चैव संवादं त्रिदशानां च भारत ॥३-३२४-२॥
अजेन यष्टव्यमिति देवाः प्राहुर्द्विजोत्तमान्। स च छागो ह्यजो ज्ञेयो नान्यः पशुरिति स्थितिः ॥३-३२४-३॥
ऋषय ऊचुः॥
बीजैर्यज्ञेषु यष्टव्यमिति वै वैदिकी श्रुतिः। अजसञ्ज्ञानि बीजानि छागं न घ्नन्तुमर्हथ ॥३-३२४-४॥
नैष धर्मः सतां देवा यत्र वध्येत वै पशुः। इदं कृतयुगं श्रेष्ठं कथं वध्येत वै पशुः ॥३-३२४-५॥
भीष्म उवाच॥
तेषां संवदतामेवमृषीणां विबुधैः सह। मार्गागतो नृपश्रेष्ठस्तं देशं प्राप्तवान्वसुः ॥ अन्तरिक्षचरः श्रीमान्समग्रबलवाहनः ॥३-३२४-६॥
तं दृष्ट्वा सहसायान्तं वसुं ते त्वन्तरिक्षगम्। ऊचुर्द्विजातयो देवानेष छेत्स्यति संशयम् ॥३-३२४-७॥
यज्वा दानपतिः श्रेष्ठः सर्वभूतहितप्रियः। कथं स्विदन्यथा ब्रूयाद्वाक्यमेष महान्वसुः ॥३-३२४-८॥
एवं ते संविदं कृत्वा विबुधा ऋषयस्तथा। अपृच्छन्सहसाभ्येत्य वसुं राजानमन्तिकात् ॥३-३२४-९॥
भो राजन्केन यष्टव्यमजेनाहो स्विदौषधैः। एतन्नः संशयं छिन्धि प्रमाणं नो भवान्मतः ॥३-३२४-१०॥
स तान्कृताञ्जलिर्भूत्वा परिपप्रच्छ वै वसुः। कस्य वः को मतः पक्षो ब्रूत सत्यं समागताः ॥३-३२४-११॥
ऋषय ऊचुः॥
धान्यैर्यष्टव्यमित्येष पक्षोऽस्माकं नराधिप। देवानां तु पशुः पक्षो मतो राजन्वदस्व नः ॥३-३२४-१२॥
भीष्म उवाच॥
देवानां तु मतं ज्ञात्वा वसुना पक्षसंश्रयात्। छागेनाजेन यष्टव्यमेवमुक्तं वचस्तदा ॥३-३२४-१३॥
कुपितास्ते ततः सर्वे मुनयः सूर्यवर्चसः। ऊचुर्वसुं विमानस्थं देवपक्षार्थवादिनम् ॥३-३२४-१४॥
सुरपक्षो गृहीतस्ते यस्मात्तस्माद्दिवः पत। अद्य प्रभृति ते राजन्नाकाशे विहता गतिः ॥ अस्मच्छापाभिघातेन महीं भित्त्वा प्रवेक्ष्यसि ॥३-३२४-१५॥
ततस्तस्मिन्मुहूर्तेऽथ राजोपरिचरस्तदा। अधो वै सम्बभूवाशु भूमेर्विवरगो नृपः ॥ स्मृतिस्त्वेनं न प्रजहौ तदा नारायणाज्ञया ॥३-३२४-१६॥
देवास्तु सहिताः सर्वे वसोः शापविमोक्षणम्। चिन्तयामासुरव्यग्राः सुकृतं हि नृपस्य तत् ॥३-३२४-१७॥
अनेनास्मत्कृते राज्ञा शापः प्राप्तो महात्मना। अस्य प्रतिप्रियं कार्यं सहितैर्नो दिवौकसः ॥३-३२४-१८॥
इति बुद्ध्या व्यवस्याशु गत्वा निश्चयमीश्वराः। ऊचुस्तं हृष्टमनसो राजोपरिचरं तदा ॥३-३२४-१९॥
ब्रह्मण्यदेवं त्वं भक्तः सुरासुरगुरुं हरिम्। कामं स तव तुष्टात्मा कुर्याच्छापविमोक्षणम् ॥३-३२४-२०॥
मानना तु द्विजातीनां कर्तव्या वै महात्मनाम्। अवश्यं तपसा तेषां फलितव्यं नृपोत्तम ॥३-३२४-२१॥
यतस्त्वं सहसा भ्रष्ट आकाशान्मेदिनीतलम्। एकं त्वनुग्रहं तुभ्यं दद्मो वै नृपसत्तम ॥३-३२४-२२॥
यावत्त्वं शापदोषेण कालमासिष्यसेऽनघ। भूमेर्विवरगो भूत्वा तावन्तं कालमाप्स्यसि ॥ यज्ञेषु सुहुतां विप्रैर्वसोर्धारां महात्मभिः ॥३-३२४-२३॥
प्राप्स्यसेऽस्मदनुध्यानान्मा च त्वां ग्लानिरास्पृशेत्। न क्षुत्पिपासे राजेन्द्र भूमेश्छिद्रे भविष्यतः ॥३-३२४-२४॥
वसोर्धारानुपीतत्वात्तेजसाप्यायितेन च। स देवोऽस्मद्वरात्प्रीतो ब्रह्मलोकं हि नेष्यति ॥३-३२४-२५॥
एवं दत्त्वा वरं राज्ञे सर्वे तत्र दिवौकसः। गताः स्वभवनं देवा ऋषयश्च तपोधनाः ॥३-३२४-२६॥
चक्रे च सततं पूजां विष्वक्सेनाय भारत। जप्यं जगौ च सततं नारायणमुखोद्गतम् ॥३-३२४-२७॥
तत्रापि पञ्चभिर्यज्ञैः पञ्चकालानरिंदम। अयजद्धरिं सुरपतिं भूमेर्विवरगोऽपि सन् ॥३-३२४-२८॥
ततोऽस्य तुष्टो भगवान्भक्त्या नारायणो हरिः। अनन्यभक्तस्य सतस्तत्परस्य जितात्मनः ॥३-३२४-२९॥
वरदो भगवान्विष्णुः समीपस्थं द्विजोत्तमम्। गरुत्मन्तं महावेगमाबभाषे स्मयन्निव ॥३-३२४-३०॥
द्विजोत्तम महाभाग गम्यतां वचनान्मम। सम्राड्राजा वसुर्नाम धर्मात्मा मां समाश्रितः ॥३-३२४-३१॥
ब्राह्मणानां प्रकोपेन प्रविष्टो वसुधातलम्। मानितास्ते तु विप्रेन्द्रास्त्वं तु गच्छ द्विजोत्तम ॥३-३२४-३२॥
भूमेर्विवरसङ्गुप्तं गरुडेह ममाज्ञया। अधश्चरं नृपश्रेष्ठं खेचरं कुरु माचिरम् ॥३-३२४-३३॥
गरुत्मानथ विक्षिप्य पक्षौ मारुतवेगवान्। विवेश विवरं भूमेर्यत्रास्ते वाग्यतो वसुः ॥३-३२४-३४॥
तत एनं समुत्क्षिप्य सहसा विनतासुतः। उत्पपात नभस्तूर्णं तत्र चैनममुञ्चत ॥३-३२४-३५॥
तस्मिन्मुहूर्ते सञ्जज्ञे राजोपरिचरः पुनः। सशरीरो गतश्चैव ब्रह्मलोकं नृपोत्तमः ॥३-३२४-३६॥
एवं तेनापि कौन्तेय वाग्दोषाद्देवताज्ञया। प्राप्ता गतिरयज्वार्हा द्विजशापान्महात्मना ॥३-३२४-३७॥
केवलं पुरुषस्तेन सेवितो हरिरीश्वरः। ततः शीघ्रं जहौ शापं ब्रह्मलोकमवाप च ॥३-३२४-३८॥
एतत्ते सर्वमाख्यातं ते भूता मानवा यथा। नारदोऽपि यथा श्वेतं द्वीपं स गतवानृषिः ॥ तत्ते सर्वं प्रवक्ष्यामि शृणुष्वैकमना नृप ॥३-३२४-३९॥