12.323
भीष्म उवाच॥
ततोऽतीते महाकल्पे उत्पन्नेऽङ्गिरसः सुते। बभूवुर्निर्वृता देवा जाते देवपुरोहिते ॥३-३२३-१॥
बृहद्ब्रह्म महच्चेति शब्दाः पर्यायवाचकाः। एभिः समन्वितो राजन्गुणैर्विद्वान्बृहस्पतिः ॥३-३२३-२॥
तस्य शिष्यो बभूवाग्र्यो राजोपरिचरो वसुः। अधीतवांस्तदा शास्त्रं सम्यक्चित्रशिखण्डिजम् ॥३-३२३-३॥
स राजा भावितः पूर्वं दैवेन विधिना वसुः। पालयामास पृथिवीं दिवमाखण्डलो यथा ॥३-३२३-४॥
तस्य यज्ञो महानासीदश्वमेधो महात्मनः। बृहस्पतिरुपाध्यायस्तत्र होता बभूव ह ॥३-३२३-५॥
प्रजापतिसुताश्चात्र सदस्यास्त्वभवंस्त्रयः। एकतश्च द्वितश्चैव त्रितश्चैव महर्षयः ॥३-३२३-६॥
धनुषाक्षोऽथ रैभ्यश्च अर्वावसुपरावसू। ऋषिर्मेधातिथिश्चैव ताण्ड्यश्चैव महानृषिः ॥३-३२३-७॥
ऋषिः शक्तिर्महाभागस्तथा वेदशिराश्च यः। कपिलश्च ऋषिश्रेष्ठः शालिहोत्रपितामहः ॥३-३२३-८॥
आद्यः कठस्तैत्तिरिश्च वैशम्पायनपूर्वजः। कण्वोऽथ देवहोत्रश्च एते षोडश कीर्तिताः ॥ सम्भृताः सर्वसम्भारास्तस्मिन्राजन्महाक्रतौ ॥३-३२३-९॥
न तत्र पशुघातोऽभूत्स राजैवं स्थितोऽभवत्। अहिंस्रः शुचिरक्षुद्रो निराशीः कर्मसंस्तुतः ॥ आरण्यकपदोद्गीता भागास्तत्रोपकल्पिताः ॥३-३२३-१०॥
प्रीतस्ततोऽस्य भगवान्देवदेवः पुरातनः। साक्षात्तं दर्शयामास सोऽदृश्योऽन्येन केनचित् ॥३-३२३-११॥
स्वयं भागमुपाघ्राय पुरोडाशं गृहीतवान्। अदृश्येन हृतो भागो देवेन हरिमेधसा ॥३-३२३-१२॥
बृहस्पतिस्ततः क्रुद्धः स्रुवमुद्यम्य वेगितः। आकाशं घ्नन्स्रुवः पातै रोषादश्रूण्यवर्तयत् ॥३-३२३-१३॥
उवाच चोपरिचरं मया भागोऽयमुद्यतः। ग्राह्यः स्वयं हि देवेन मत्प्रत्यक्षं न संशयः ॥३-३२३-१४॥
उद्यता यज्ञभागा हि साक्षात्प्राप्ताः सुरैरिह। किमर्थमिह न प्राप्तो दर्शनं स हरिर्विभुः ॥३-३२३-१५॥
ततः स तं समुद्धूतं भूमिपालो महान्वसुः। प्रसादयामास मुनिं सदस्यास्ते च सर्वशः ॥३-३२३-१६॥
ऊचुश्चैनमसम्भ्रान्ता न रोषं कर्तुमर्हसि। नैष धर्मः कृतयुगे यस्त्वं रोषमचीकृथाः ॥३-३२३-१७॥
अरोषणो ह्यसौ देवो यस्य भागोऽयमुद्यतः। न स शक्यस्त्वया द्रष्टुमस्माभिर्वा बृहस्पते ॥ यस्य प्रसादं कुरुते स वै तं द्रष्टुमर्हति ॥३-३२३-१८॥
एकतद्वितत्रिता ऊचुः॥
वयं हि ब्रह्मणः पुत्रा मानसाः परिकीर्तिताः। गता निःश्रेयसार्थं हि कदाचिद्दिशमुत्तराम् ॥३-३२३-१९॥
तप्त्वा वर्षसहस्राणि चत्वारि तप उत्तमम्। एकपादस्थिताः सम्यक्काष्ठभूताः समाहिताः ॥३-३२३-२०॥
मेरोरुत्तरभागे तु क्षीरोदस्यानुकूलतः। स देशो यत्र नस्तप्तं तपः परमदारुणम् ॥ कथं पश्येमहि वयं देवं नारायणं त्विति ॥३-३२३-२१॥
ततो व्रतस्यावभृथे वागुवाचाशरीरिणी। सुतप्तं वस्तपो विप्राः प्रसन्नेनान्तरात्मना ॥३-३२३-२२॥
यूयं जिज्ञासवो भक्ताः कथं द्रक्ष्यथ तं प्रभुम्। क्षीरोदधेरुत्तरतः श्वेतद्वीपो महाप्रभः ॥३-३२३-२३॥
तत्र नारायणपरा मानवाश्चन्द्रवर्चसः। एकान्तभावोपगतास्ते भक्ताः पुरुषोत्तमम् ॥३-३२३-२४॥
ते सहस्रार्चिषं देवं प्रविशन्ति सनातनम्। अतीन्द्रिया निराहारा अनिष्पन्दाः सुगन्धिनः ॥३-३२३-२५॥
एकान्तिनस्ते पुरुषाः श्वेतद्वीपनिवासिनः। गच्छध्वं तत्र मुनयस्तत्रात्मा मे प्रकाशितः ॥३-३२३-२६॥
अथ श्रुत्वा वयं सर्वे वाचं तामशरीरिणीम्। यथाख्यातेन मार्गेण तं देशं प्रतिपेदिरे ॥३-३२३-२७॥
प्राप्य श्वेतं महाद्वीपं तच्चित्तास्तद्दिदृक्षवः। ततो नो दृष्टिविषयस्तदा प्रतिहतोऽभवत् ॥३-३२३-२८॥
न च पश्याम पुरुषं तत्तेजोहृतदर्शनाः। ततो नः प्रादुरभवद्विज्ञानं देवयोगजम् ॥३-३२३-२९॥
न किलातप्ततपसा शक्यते द्रष्टुमञ्जसा। ततः पुनर्वर्षशतं तप्त्वा तात्कालिकं महत् ॥३-३२३-३०॥
व्रतावसाने सुशुभान्नरान्ददृशिरे वयम्। श्वेतांश्चन्द्रप्रतीकाशान्सर्वलक्षणलक्षितान् ॥३-३२३-३१॥
नित्याञ्जलिकृतान्ब्रह्म जपतः प्रागुदङ्मुखान्। मानसो नाम स जपो जप्यते तैर्महात्मभिः ॥ तेनैकाग्रमनस्त्वेन प्रीतो भवति वै हरिः ॥३-३२३-३२॥
या भवेन्मुनिशार्दूल भाः सूर्यस्य युगक्षये। एकैकस्य प्रभा तादृक्साभवन्मानवस्य ह ॥३-३२३-३३॥
तेजोनिवासः स द्वीप इति वै मेनिरे वयम्। न तत्राभ्यधिकः कश्चित्सर्वे ते समतेजसः ॥३-३२३-३४॥
अथ सूर्यसहस्रस्य प्रभां युगपदुत्थिताम्। सहसा दृष्टवन्तः स्म पुनरेव बृहस्पते ॥३-३२३-३५॥
सहिताश्चाभ्यधावन्त ततस्ते मानवा द्रुतम्। कृताञ्जलिपुटा हृष्टा नम इत्येव वादिनः ॥३-३२३-३६॥
ततोऽभिवदतां तेषामश्रौष्म विपुलं ध्वनिम्। बलिः किलोपह्रियते तस्य देवस्य तैर्नरैः ॥३-३२३-३७॥
वयं तु तेजसा तस्य सहसा हृतचेतसः। न किञ्चिदपि पश्यामो हृतदृष्टिबलेन्द्रियाः ॥३-३२३-३८॥
एकस्तु शब्दोऽविरतः श्रुतोऽस्माभिरुदीरितः। जितं ते पुण्डरीकाक्ष नमस्ते विश्वभावन ॥३-३२३-३९॥
नमस्तेऽस्तु हृषीकेश महापुरुषपूर्वज। इति शब्दः श्रुतोऽस्माभिः शिक्षाक्षरसमीरितः ॥३-३२३-४०॥
एतस्मिन्नन्तरे वायुः सर्वगन्धवहः शुचिः। दिव्यान्युवाह पुष्पाणि कर्मण्याश्चौषधीस्तथा ॥३-३२३-४१॥
तैरिष्टः पञ्चकालज्ञैर्हरिरेकान्तिभिर्नरैः। नूनं तत्रागतो देवो यथा तैर्वागुदीरिता ॥ वयं त्वेनं न पश्यामो मोहितास्तस्य मायया ॥३-३२३-४२॥
मारुते संनिवृत्ते च बलौ च प्रतिपादिते। चिन्ताव्याकुलितात्मानो जाताः स्मोऽङ्गिरसां वर ॥३-३२३-४३॥
मानवानां सहस्रेषु तेषु वै शुद्धयोनिषु। अस्मान्न कश्चिन्मनसा चक्षुषा वाप्यपूजयत् ॥३-३२३-४४॥
तेऽपि स्वस्था मुनिगणा एकभावमनुव्रताः। नास्मासु दधिरे भावं ब्रह्मभावमनुष्ठिताः ॥३-३२३-४५॥
ततोऽस्मान्सुपरिश्रान्तांस्तपसा चापि कर्शितान्। उवाच खस्थं किमपि भूतं तत्राशरीरकम् ॥३-३२३-४६॥
दृष्टा वः पुरुषाः श्वेताः सर्वेन्द्रियविवर्जिताः। दृष्टो भवति देवेश एभिर्दृष्टैर्द्विजोत्तमाः ॥३-३२३-४७॥
गच्छध्वं मुनयः सर्वे यथागतमितोऽचिरात्। न स शक्यो अभक्तेन द्रष्टुं देवः कथञ्चन ॥३-३२३-४८॥
कामं कालेन महता एकान्तित्वं समागतैः। शक्यो द्रष्टुं स भगवान्प्रभामण्डलदुर्दृशः ॥३-३२३-४९॥
महत्कार्यं तु कर्तव्यं युष्माभिर्द्विजसत्तमाः। इतः कृतयुगेऽतीते विपर्यासं गतेऽपि च ॥३-३२३-५०॥
वैवस्वतेऽन्तरे विप्राः प्राप्ते त्रेतायुगे ततः। सुराणां कार्यसिद्ध्यर्थं सहाया वै भविष्यथ ॥३-३२३-५१॥
ततस्तदद्भुतं वाक्यं निशम्यैवं स्म सोमप। तस्य प्रसादात्प्राप्ताः स्मो देशमीप्सितमञ्जसा ॥३-३२३-५२॥
एवं सुतपसा चैव हव्यकव्यैस्तथैव च। देवोऽस्माभिर्न दृष्टः स कथं त्वं द्रष्टुमर्हसि ॥ नारायणो महद्भूतं विश्वसृग्घव्यकव्यभुक् ॥३-३२३-५३॥
भीष्म उवाच॥
एवमेकतवाक्येन द्वितत्रितमतेन च। अनुनीतः सदस्यैश्च बृहस्पतिरुदारधीः ॥ समानीय ततो यज्ञं दैवतं समपूजयत् ॥३-३२३-५४॥
समाप्तयज्ञो राजापि प्रजाः पालितवान्वसुः। ब्रह्मशापाद्दिवो भ्रष्टः प्रविवेश महीं ततः ॥३-३२३-५५॥
अन्तर्भूमिगतश्चैव सततं धर्मवत्सलः। नारायणपरो भूत्वा नारायणपदं जगौ ॥३-३२३-५६॥
तस्यैव च प्रसादेन पुनरेवोत्थितस्तु सः। महीतलाद्गतः स्थानं ब्रह्मणः समनन्तरम् ॥ परां गतिमनुप्राप्त इति नैष्ठिकमञ्जसा ॥३-३२३-५७॥