Mahabharata - Shanti Parva (महाभारत - शान्तिपर्वम्)
12.326
भीष्म उवाच॥
एवं स्तुतः स भगवान्गुह्यैस्तथ्यैश्च नामभिः। तं मुनिं दर्शयामास नारदं विश्वरूपधृक् ॥३-३२६-१॥
किञ्चिच्चन्द्रविशुद्धात्मा किञ्चिच्चन्द्राद्विशेषवान्। कृशानुवर्णः किञ्चिच्च किञ्चिद्धिष्ण्याकृतिः प्रभुः ॥३-३२६-२॥
शुकपत्रवर्णः किञ्चिच्च किञ्चित्स्फटिकसप्रभः। नीलाञ्जनचयप्रख्यो जातरूपप्रभः क्वचित् ॥३-३२६-३॥
प्रवालाङ्कुरवर्णश्च श्वेतवर्णः क्वचिद्बभौ। क्वचित्सुवर्णवर्णाभो वैडूर्यसदृशः क्वचित् ॥३-३२६-४॥
नीलवैडूर्यसदृश इन्द्रनीलनिभः क्वचित्। मयूरग्रीववर्णाभो मुक्ताहारनिभः क्वचित् ॥३-३२६-५॥
एतान्वर्णान्बहुविधान्रूपे बिभ्रत्सनातनः। सहस्रनयनः श्रीमाञ्शतशीर्षः सहस्रपात् ॥३-३२६-६॥
सहस्रोदरबाहुश्च अव्यक्त इति च क्वचित्। ओङ्कारमुद्गिरन्वक्त्रात्सावित्रीं च तदन्वयाम् ॥३-३२६-७॥
शेषेभ्यश्चैव वक्त्रेभ्यश्चतुर्वेदोद्गतं वसु। आरण्यकं जगौ देवो हरिर्नारायणो वशी ॥३-३२६-८॥
वेदीं कमण्डलुं दर्भान्मणिरूपानथोपलान्। अजिनं दण्डकाष्ठं च ज्वलितं च हुताशनम् ॥ धारयामास देवेशो हस्तैर्यज्ञपतिस्तदा ॥३-३२६-९॥
तं प्रसन्नं प्रसन्नात्मा नारदो द्विजसत्तमः। वाग्यतः प्रयतो भूत्वा ववन्दे परमेश्वरम् ॥ तमुवाच नतं मूर्ध्ना देवानामादिरव्ययः ॥३-३२६-१०॥
एकतश्च द्वितश्चैव त्रितश्चैव महर्षयः। इमं देशमनुप्राप्ता मम दर्शनलालसाः ॥३-३२६-११॥
न च मां ते ददृशिरे न च द्रक्ष्यति कश्चन। ऋते ह्येकान्तिकश्रेष्ठात्त्वं चैवैकान्तिको मतः ॥३-३२६-१२॥
ममैतास्तनवः श्रेष्ठा जाता धर्मगृहे द्विज। तास्त्वं भजस्व सततं साधयस्व यथागतम् ॥३-३२६-१३॥
वृणीष्व च वरं विप्र मत्तस्त्वं यमिहेच्छसि। प्रसन्नोऽहं तवाद्येह विश्वमूर्तिरिहाव्ययः ॥३-३२६-१४॥
नारद उवाच॥
अद्य मे तपसो देव यमस्य नियमस्य च। सद्यः फलमवाप्तं वै दृष्टो यद्भगवान्मया ॥३-३२६-१५॥
वर एष ममात्यन्तं दृष्टस्त्वं यत्सनातनः। भगवान्विश्वदृक्सिंहः सर्वमूर्तिर्महाप्रभुः ॥३-३२६-१६॥
भीष्म उवाच॥
एवं संदर्शयित्वा तु नारदं परमेष्ठिजम्। उवाच वचनं भूयो गच्छ नारद माचिरम् ॥३-३२६-१७॥
इमे ह्यनिन्द्रियाहारा मद्भक्ताश्चन्द्रवर्चसः। एकाग्राश्चिन्तयेयुर्मां नैषां विघ्नो भवेदिति ॥३-३२६-१८॥
सिद्धाश्चैते महाभागाः पुरा ह्येकान्तिनोऽभवन्। तमोरजोविनिर्मुक्ता मां प्रवेक्ष्यन्त्यसंशयम् ॥३-३२६-१९॥
न दृश्यश्चक्षुषा योऽसौ न स्पृश्यः स्पर्शनेन च। न घ्रेयश्चैव गन्धेन रसेन च विवर्जितः ॥३-३२६-२०॥
सत्त्वं रजस्तमश्चैव न गुणास्तं भजन्ति वै। यश्च सर्वगतः साक्षी लोकस्यात्मेति कथ्यते ॥३-३२६-२१॥
भूतग्रामशरीरेषु नश्यत्सु न विनश्यति। अजो नित्यः शाश्वतश्च निर्गुणो निष्कलस्तथा ॥३-३२६-२२॥
द्विर्द्वादशेभ्यस्तत्त्वेभ्यः ख्यातो यः पञ्चविंशकः। पुरुषो निष्क्रियश्चैव ज्ञानदृश्यश्च कथ्यते ॥३-३२६-२३॥
यं प्रविश्य भवन्तीह मुक्ता वै द्विजसत्तम। स वासुदेवो विज्ञेयः परमात्मा सनातनः ॥३-३२६-२४॥
पश्य देवस्य माहात्म्यं महिमानं च नारद। शुभाशुभैः कर्मभिर्यो न लिप्यति कदाचन ॥३-३२६-२५॥
सत्त्वं रजस्तमश्चैव गुणानेतान्प्रचक्षते। एते सर्वशरीरेषु तिष्ठन्ति विचरन्ति च ॥३-३२६-२६॥
एतान्गुणांस्तु क्षेत्रज्ञो भुङ्क्ते नैभिः स भुज्यते। निर्गुणो गुणभुक्चैव गुणस्रष्टा गुणाधिकः ॥३-३२६-२७॥
जगत्प्रतिष्ठा देवर्षे पृथिव्यप्सु प्रलीयते। ज्योतिष्यापः प्रलीयन्ते ज्योतिर्वायौ प्रलीयते ॥३-३२६-२८॥
खे वायुः प्रलयं याति मनस्याकाशमेव च। मनो हि परमं भूतं तदव्यक्ते प्रलीयते ॥३-३२६-२९॥
अव्यक्तं पुरुषे ब्रह्मन्निष्क्रिये सम्प्रलीयते। नास्ति तस्मात्परतरं पुरुषाद्वै सनातनात् ॥३-३२६-३०॥
नित्यं हि नास्ति जगति भूतं स्थावरजङ्गमम्। ऋते तमेकं पुरुषं वासुदेवं सनातनम् ॥ सर्वभूतात्मभूतो हि वासुदेवो महाबलः ॥३-३२६-३१॥
पृथिवी वायुराकाशमापो ज्योतिश्च पञ्चमम्। ते समेता महात्मानः शरीरमिति सञ्ज्ञितम् ॥३-३२६-३२॥
तदाविशति यो ब्रह्मन्नदृश्यो लघुविक्रमः। उत्पन्न एव भवति शरीरं चेष्टयन्प्रभुः ॥३-३२६-३३॥
न विना धातुसङ्घातं शरीरं भवति क्वचित्। न च जीवं विना ब्रह्मन्धातवश्चेष्टयन्त्युत ॥३-३२६-३४॥
स जीवः परिसङ्ख्यातः शेषः सङ्कर्षणः प्रभुः। तस्मात्सनत्कुमारत्वं यो लभेत स्वकर्मणा ॥३-३२६-३५॥
यस्मिंश्च सर्वभूतानि प्रलयं यान्ति सङ्क्षये। स मनः सर्वभूतानां प्रद्युम्नः परिपठ्यते ॥३-३२६-३६॥
तस्मात्प्रसूतो यः कर्ता कार्यं कारणमेव च। यस्मात्सर्वं प्रभवति जगत्स्थावरजङ्गमम् ॥ सोऽनिरुद्धः स ईशानो व्यक्तिः सा सर्वकर्मसु ॥३-३२६-३७॥
यो वासुदेवो भगवान्क्षेत्रज्ञो निर्गुणात्मकः। ज्ञेयः स एव भगवाञ्जीवः सङ्कर्षणः प्रभुः ॥३-३२६-३८॥
सङ्कर्षणाच्च प्रद्युम्नो मनोभूतः स उच्यते। प्रद्युम्नाद्योऽनिरुद्धस्तु सोऽहङ्कारो महेश्वरः ॥३-३२६-३९॥
मत्तः सर्वं सम्भवति जगत्स्थावरजङ्गमम्। अक्षरं च क्षरं चैव सच्चासच्चैव नारद ॥३-३२६-४०॥
मां प्रविश्य भवन्तीह मुक्ता भक्तास्तु ये मम। अहं हि पुरुषो ज्ञेयो निष्क्रियः पञ्चविंशकः ॥३-३२६-४१॥
निर्गुणो निष्कलश्चैव निर्द्वंद्वो निष्परिग्रहः। एतत्त्वया न विज्ञेयं रूपवानिति दृश्यते ॥ इच्छन्मुहूर्तान्नश्येयमीशोऽहं जगतो गुरुः ॥३-३२६-४२॥
माया ह्येषा मया सृष्टा यन्मां पश्यसि नारद। सर्वभूतगुणैर्युक्तं नैवं त्वं ज्ञातुमर्हसि ॥ मयैतत्कथितं सम्यक्तव मूर्तिचतुष्टयम् ॥३-३२६-४३॥
सिद्धा ह्येते महाभागा नरा ह्येकान्तिनोऽभवन्। तमोरजोभ्यां निर्मुक्ताः प्रवेक्ष्यन्ति च मां मुने ॥३-३२६-४४॥
अहं कर्ता च कार्यं च कारणं चापि नारद। अहं हि जीवसञ्ज्ञो वै मयि जीवः समाहितः ॥ मैवं ते बुद्धिरत्राभूद्दृष्टो जीवो मयेति च ॥३-३२६-४५॥
अहं सर्वत्रगो ब्रह्मन्भूतग्रामान्तरात्मकः। भूतग्रामशरीरेषु नश्यत्सु न नशाम्यहम् ॥३-३२६-४६॥
हिरण्यगर्भो लोकादिश्चतुर्वक्त्रो निरुक्तगः। ब्रह्मा सनातनो देवो मम बह्वर्थचिन्तकः ॥३-३२६-४७॥
पश्यैकादश मे रुद्रान्दक्षिणं पार्श्वमास्थितान्। द्वादशैव तथादित्यान्वामं पार्श्वं समास्थितान् ॥३-३२६-४८॥
अग्रतश्चैव मे पश्य वसूनष्टौ सुरोत्तमान्। नासत्यं चैव दस्रं च भिषजौ पश्य पृष्ठतः ॥३-३२६-४९॥
सर्वान्प्रजापतीन्पश्य पश्य सप्त ऋषीनपि। वेदान्यज्ञांश्च शतशः पश्यामृतमथौषधीः ॥३-३२६-५०॥
तपांसि नियमांश्चैव यमानपि पृथग्विधान्। तथाष्टगुणमैश्वर्यमेकस्थं पश्य मूर्तिमत् ॥३-३२६-५१॥
श्रियं लक्ष्मीं च कीर्तिं च पृथिवीं च ककुद्मिनीम्। वेदानां मातरं पश्य मत्स्थां देवीं सरस्वतीम् ॥३-३२६-५२॥
ध्रुवं च ज्योतिषां श्रेष्ठं पश्य नारद खेचरम्। अम्भोधरान्समुद्रांश्च सरांसि सरितस्तथा ॥३-३२६-५३॥
मूर्तिमन्तः पितृगणांश्चतुरः पश्य सत्तम। त्रींश्चैवेमान्गुणान्पश्य मत्स्थान्मूर्तिविवर्जितान् ॥३-३२६-५४॥
देवकार्यादपि मुने पितृकार्यं विशिष्यते। देवानां च पितॄणां च पिता ह्येकोऽहमादितः ॥३-३२६-५५॥
अहं हयशिरो भूत्वा समुद्रे पश्चिमोत्तरे। पिबामि सुहुतं हव्यं कव्यं च श्रद्धयान्वितम् ॥३-३२६-५६॥
मया सृष्टः पुरा ब्रह्मा मद्यज्ञमयजत्स्वयम्। ततस्तस्मै वरान्प्रीतो ददावहमनुत्तमान् ॥३-३२६-५७॥
मत्पुत्रत्वं च कल्पादौ लोकाध्यक्षत्वमेव च। अहङ्कारकृतं चैव नाम पर्यायवाचकम् ॥३-३२६-५८॥
त्वया कृतां च मर्यादां नातिक्राम्यति कश्चन। त्वं चैव वरदो ब्रह्मन्वरेप्सूनां भविष्यसि ॥३-३२६-५९॥
सुरासुरगणानां च ऋषीणां च तपोधन। पितॄणां च महाभाग सततं संशितव्रत ॥ विविधानां च भूतानां त्वमुपास्यो भविष्यसि ॥३-३२६-६०॥
प्रादुर्भावगतश्चाहं सुरकार्येषु नित्यदा। अनुशास्यस्त्वया ब्रह्मन्नियोज्यश्च सुतो यथा ॥३-३२६-६१॥
एतांश्चान्यांश्च रुचिरान्ब्रह्मणेऽमिततेजसे। अहं दत्त्वा वरान्प्रीतो निवृत्तिपरमोऽभवम् ॥३-३२६-६२॥
निर्वाणं सर्वधर्माणां निवृत्तिः परमा स्मृता। तस्मान्निवृत्तिमापन्नश्चरेत्सर्वाङ्गनिर्वृतः ॥३-३२६-६३॥
विद्यासहायवन्तं मामादित्यस्थं सनातनम्। कपिलं प्राहुराचार्याः साङ्ख्यनिश्चितनिश्चयाः ॥३-३२६-६४॥
हिरण्यगर्भो भगवानेष छन्दसि सुष्टुतः। सोऽहं योगगतिर्ब्रह्मन्योगशास्त्रेषु शब्दितः ॥३-३२६-६५॥
एषोऽहं व्यक्तिमागम्य तिष्ठामि दिवि शाश्वतः। ततो युगसहस्रान्ते संहरिष्ये जगत्पुनः ॥ कृत्वात्मस्थानि भूतानि स्थावराणि चराणि च ॥३-३२६-६६॥
एकाकी विद्यया सार्धं विहरिष्ये द्विजोत्तम। ततो भूयो जगत्सर्वं करिष्यामीह विद्यया ॥३-३२६-६७॥
अस्मन्मूर्तिश्चतुर्थी या सासृजच्छेषमव्ययम्। स हि सङ्कर्षणः प्रोक्तः प्रद्युम्नं सोऽप्यजीजनत् ॥३-३२६-६८॥
प्रद्युम्नादनिरुद्धोऽहं सर्गो मम पुनः पुनः। अनिरुद्धात्तथा ब्रह्मा तत्रादिकमलोद्भवः ॥३-३२६-६९॥
ब्रह्मणः सर्वभूतानि चराणि स्थावराणि च। एतां सृष्टिं विजानीहि कल्पादिषु पुनः पुनः ॥३-३२६-७०॥
यथा सूर्यस्य गगनादुदयास्तमयाविह। नष्टौ पुनर्बलात्काल आनयत्यमितद्युतिः ॥ तथा बलादहं पृथ्वीं सर्वभूतहिताय वै ॥३-३२६-७१॥
सत्त्वैराक्रान्तसर्वाङ्गां नष्टां सागरमेखलाम्। आनयिष्यामि स्वं स्थानं वाराहं रूपमास्थितः ॥३-३२६-७२॥
हिरण्याक्षं हनिष्यामि दैतेयं बलगर्वितम्। नारसिंहं वपुः कृत्वा हिरण्यकशिपुं पुनः ॥ सुरकार्ये हनिष्यामि यज्ञघ्नं दितिनन्दनम् ॥३-३२६-७३॥
विरोचनस्य बलवान्बलिः पुत्रो महासुरः। भविष्यति स शक्रं च स्वराज्याच्च्यावयिष्यति ॥३-३२६-७४॥
त्रैलोक्येऽपहृते तेन विमुखे च शचीपतौ। अदित्यां द्वादशः पुत्रः सम्भविष्यामि कश्यपात् ॥३-३२६-७५॥
ततो राज्यं प्रदास्यामि शक्रायामिततेजसे। देवताः स्थापयिष्यामि स्वेषु स्थानेषु नारद ॥ बलिं चैव करिष्यामि पातालतलवासिनम् ॥३-३२६-७६॥
त्रेतायुगे भविष्यामि रामो भृगुकुलोद्वहः। क्षत्रं चोत्सादयिष्यामि समृद्धबलवाहनम् ॥३-३२६-७७॥
सन्धौ तु समनुप्राप्ते त्रेतायां द्वापरस्य च। रामो दाशरथिर्भूत्वा भविष्यामि जगत्पतिः ॥३-३२६-७८॥
त्रितोपघाताद्वैरूप्यमेकतोऽथ द्वितस्तथा। प्राप्स्यतो वानरत्वं हि प्रजापतिसुतावृषी ॥३-३२६-७९॥
तयोर्ये त्वन्वये जाता भविष्यन्ति वनौकसः। ते सहाया भविष्यन्ति सुरकार्ये मम द्विज ॥३-३२६-८०॥
ततो रक्षःपतिं घोरं पुलस्त्यकुलपांसनम्। हनिष्ये रावणं सङ्ख्ये सगणं लोककण्टकम् ॥३-३२६-८१॥
द्वापरस्य कलेश्चैव सन्धौ पर्यवसानिके। प्रादुर्भावः कंसहेतोर्मथुरायां भविष्यति ॥३-३२६-८२॥
तत्राहं दानवान्हत्वा सुबहून्देवकण्टकान्। कुशस्थलीं करिष्यामि निवासं द्वारकां पुरीम् ॥३-३२६-८३॥
वसानस्तत्र वै पुर्यामदितेर्विप्रियङ्करम्। हनिष्ये नरकं भौमं मुरं पीठं च दानवम् ॥३-३२६-८४॥
प्राग्ज्योतिषपुरं रम्यं नानाधनसमन्वितम्। कुशस्थलीं नयिष्यामि हत्वा वै दानवोत्तमान् ॥३-३२६-८५॥
शङ्करं च महासेनं बाणप्रियहितैषिणम्। पराजेष्याम्यथोद्युक्तौ देवलोकनमस्कृतौ ॥३-३२६-८६॥
ततः सुतं बलेर्जित्वा बाणं बाहुसहस्रिणम्। विनाशयिष्यामि ततः सर्वान्सौभनिवासिनः ॥३-३२६-८७॥
यः कालयवनः ख्यातो गर्गतेजोभिसंवृतः। भविष्यति वधस्तस्य मत्त एव द्विजोत्तम ॥३-३२६-८८॥
जरासन्धश्च बलवान्सर्वराजविरोधकः। भविष्यत्यसुरः स्फीतो भूमिपालो गिरिव्रजे ॥ मम बुद्धिपरिस्पन्दाद्वधस्तस्य भविष्यति ॥३-३२६-८९॥
समागतेषु बलिषु पृथिव्यां सर्वराजसु। वासविः सुसहायो वै मम ह्येको भविष्यति ॥३-३२६-९०॥
एवं लोका वदिष्यन्ति नरनारायणावृषी। उद्युक्तौ दहतः क्षत्रं लोककार्यार्थमीश्वरौ ॥३-३२६-९१॥
कृत्वा भारावतरणं वसुधाया यथेप्सितम्। सर्वसात्वतमुख्यानां द्वारकायाश्च सत्तम ॥३-३२६-९२॥
करिष्ये प्रलयं घोरमात्मज्ञातिविनाशनम् ॥३-३२६-९२॥
कर्माण्यपरिमेयानि चतुर्मूर्तिधरो ह्यहम्। कृत्वा लोकान्गमिष्यामि स्वानहं ब्रह्मसत्कृतान् ॥३-३२६-९३॥
हंसो हयशिराश्चैव प्रादुर्भावा द्विजोत्तम। यदा वेदश्रुतिर्नष्टा मया प्रत्याहृता तदा ॥ सवेदाः सश्रुतीकाश्च कृताः पूर्वं कृते युगे ॥३-३२६-९४॥
अतिक्रान्ताः पुराणेषु श्रुतास्ते यदि वा क्वचित्। अतिक्रान्ताश्च बहवः प्रादुर्भावा ममोत्तमाः ॥ लोककार्याणि कृत्वा च पुनः स्वां प्रकृतिं गताः ॥३-३२६-९५॥
न ह्येतद्ब्रह्मणा प्राप्तमीदृशं मम दर्शनम्। यत्त्वया प्राप्तमद्येह एकान्तगतबुद्धिना ॥३-३२६-९६॥
एतत्ते सर्वमाख्यातं ब्रह्मन्भक्तिमतो मया। पुराणं च भविष्यं च सरहस्यं च सत्तम ॥३-३२६-९७॥
एवं स भगवान्देवो विश्वमूर्तिधरोऽव्ययः। एतावदुक्त्वा वचनं तत्रैवान्तरधीयत ॥३-३२६-९८॥
नारदोऽपि महातेजाः प्राप्यानुग्रहमीप्सितम्। नरनारायणौ द्रष्टुं प्राद्रवद्बदराश्रमम् ॥३-३२६-९९॥
इदं महोपनिषदं चतुर्वेदसमन्वितम्। साङ्ख्ययोगकृतं तेन पञ्चरात्रानुशब्दितम् ॥३-३२६-१००॥
नारायणमुखोद्गीतं नारदोऽश्रावयत्पुनः। ब्रह्मणः सदने तात यथा दृष्टं यथा श्रुतम् ॥३-३२६-१०१॥
युधिष्ठिर उवाच॥
एतदाश्चर्यभूतं हि माहात्म्यं तस्य धीमतः। किं ब्रह्मा न विजानीते यतः शुश्राव नारदात् ॥३-३२६-१०२॥
पितामहो हि भगवांस्तस्माद्देवादनन्तरः। कथं स न विजानीयात्प्रभावममितौजसः ॥३-३२६-१०३॥
भीष्म उवाच॥
महाकल्पसहस्राणि महाकल्पशतानि च। समतीतानि राजेन्द्र सर्गाश्च प्रलयाश्च ह ॥३-३२६-१०४॥
सर्गस्यादौ स्मृतो ब्रह्मा प्रजासर्गकरः प्रभुः। जानाति देवप्रवरं भूयश्चातोऽधिकं नृप ॥ परमात्मानमीशानमात्मनः प्रभवं तथा ॥३-३२६-१०५॥
ये त्वन्ये ब्रह्मसदने सिद्धसङ्घाः समागताः। तेभ्यस्तच्छ्रावयामास पुराणं वेदसंमितम् ॥३-३२६-१०६॥
तेषां सकाशात्सूर्यश्च श्रुत्वा वै भावितात्मनाम्। आत्मानुगामिनां ब्रह्म श्रावयामास भारत ॥३-३२६-१०७॥
षट्षष्टिर्हि सहस्राणि ऋषीणां भावितात्मनाम्। सूर्यस्य तपतो लोकान्निर्मिता ये पुरःसराः ॥ तेषामकथयत्सूर्यः सर्वेषां भावितात्मनाम् ॥३-३२६-१०८॥
सूर्यानुगामिभिस्तात ऋषिभिस्तैर्महात्मभिः। मेरौ समागता देवाः श्राविताश्चेदमुत्तमम् ॥३-३२६-१०९॥
देवानां तु सकाशाद्वै ततः श्रुत्वासितो द्विजः। श्रावयामास राजेन्द्र पितॄणां मुनिसत्तमः ॥३-३२६-११०॥
मम चापि पिता तात कथयामास शन्तनुः। ततो मयैतच्छ्रुत्वा च कीर्तितं तव भारत ॥३-३२६-१११॥
सुरैर्वा मुनिभिर्वापि पुराणं यैरिदं श्रुतम्। सर्वे ते परमात्मानं पूजयन्ति पुनः पुनः ॥३-३२६-११२॥
इदमाख्यानमार्षेयं पारम्पर्यागतं नृप। नावासुदेवभक्ताय त्वया देयं कथञ्चन ॥३-३२६-११३॥
मत्तोऽन्यानि च ते राजन्नुपाख्यानशतानि वै। यानि श्रुतानि धर्म्याणि तेषां सारोऽयमुद्धृतः ॥३-३२६-११४॥
सुरासुरैर्यथा राजन्निर्मथ्यामृतमुद्धृतम्। एवमेतत्पुरा विप्रैः कथामृतमिहोद्धृतम् ॥३-३२६-११५॥
यश्चेदं पठते नित्यं यश्चेदं शृणुयान्नरः। एकान्तभावोपगत एकान्ते सुसमाहितः ॥३-३२६-११६॥
प्राप्य श्वेतं महाद्वीपं भूत्वा चन्द्रप्रभो नरः। स सहस्रार्चिषं देवं प्रविशेन्नात्र संशयः ॥३-३२६-११७॥
मुच्येदार्तस्तथा रोगाच्छ्रुत्वेमामादितः कथाम्। जिज्ञासुर्लभते कामान्भक्तो भक्तगतिं व्रजेत् ॥३-३२६-११८॥
त्वयापि सततं राजन्नभ्यर्च्यः पुरुषोत्तमः। स हि माता पिता चैव कृत्स्नस्य जगतो गुरुः ॥३-३२६-११९॥
ब्रह्मण्यदेवो भगवान्प्रीयतां ते सनातनः। युधिष्ठिर महाबाहो महाबाहुर्जनार्दनः ॥३-३२६-१२०॥
वैशम्पायन उवाच॥
श्रुत्वैतदाख्यानवरं धर्मराड्जनमेजय। भ्रातरश्चास्य ते सर्वे नारायणपराभवन् ॥३-३२६-१२१॥
जितं भगवता तेन पुरुषेणेति भारत। नित्यं जप्यपरा भूत्वा सरस्वतीमुदीरयन् ॥३-३२६-१२२॥
यो ह्यस्माकं गुरुः श्रेष्ठः कृष्णद्वैपायनो मुनिः। स जगौ परमं जप्यं नारायणमुदीरयन् ॥३-३२६-१२३॥
गत्वान्तरिक्षात्सततं क्षीरोदममृताशयम्। पूजयित्वा च देवेशं पुनरायात्स्वमाश्रमम् ॥३-३२६-१२४॥

...

ॐ असतो मा सद्गमय। तमसो मा ज्योतिर्गमय। मृत्योर्माऽमृतं गमय। ॐ शान्ति: शान्ति: शान्ति: ॥ - बृहदारण्यकोपनिषद् 1.3.28
"Ōm! Lead me from the unreal to the real, from darkness to light, and from death to immortality. Let there be peace, peace, and peace. Ōm!" - Brihadaranyaka Upanishad 1.3.28

Copyright © 2025, Incredible Wisdom.
All rights reserved.