12.327
जनमेजय उवाच॥
कथं स भगवान्देवो यज्ञेष्वग्रहरः प्रभुः। यज्ञधारी च सततं वेदवेदाङ्गवित्तथा ॥३-३२७-१॥
निवृत्तं चास्थितो धर्मं क्षेमी भागवतप्रियः। प्रवृत्तिधर्मान्विदधे स एव भगवान्प्रभुः ॥३-३२७-२॥
कथं प्रवृत्तिधर्मेषु भागार्हा देवताः कृताः। कथं निवृत्तिधर्माश्च कृता व्यावृत्तबुद्धयः ॥३-३२७-३॥
एतं नः संशयं विप्र छिन्धि गुह्यं सनातनम्। त्वया नारायणकथा श्रुता वै धर्मसंहिता ॥३-३२७-४॥
इमे सब्रह्मका लोकाः ससुरासुरमानवाः। क्रियास्वभ्युदयोक्तासु सक्ता दृश्यन्ति सर्वशः ॥ मोक्षश्चोक्तस्त्वया ब्रह्मन्निर्वाणं परमं सुखम् ॥३-३२७-५॥
ये च मुक्ता भवन्तीह पुण्यपापविवर्जिताः। ते सहस्रार्चिषं देवं प्रविशन्तीति शुश्रुमः ॥३-३२७-६॥
अहो हि दुरनुष्ठेयो मोक्षधर्मः सनातनः। यं हित्वा देवताः सर्वा हव्यकव्यभुजोऽभवन् ॥३-३२७-७॥
किं नु ब्रह्मा च रुद्रश्च शक्रश्च बलभित्प्रभुः। सूर्यस्ताराधिपो वायुरग्निर्वरुण एव च ॥३-३२७-८॥
आकाशं जगती चैव ये च शेषा दिवौकसः ॥३-३२७-८॥
प्रलयं न विजानन्ति आत्मनः परिनिर्मितम्। ततस्ते नास्थिता मार्गं ध्रुवमक्षयमव्ययम् ॥३-३२७-९॥
स्मृत्वा कालपरीमाणं प्रवृत्तिं ये समास्थिताः। दोषः कालपरीमाणे महानेष क्रियावताम् ॥३-३२७-१०॥
एतन्मे संशयं विप्र हृदि शल्यमिवार्पितम्। छिन्धीतिहासकथनात्परं कौतूहलं हि मे ॥३-३२७-११॥
कथं भागहराः प्रोक्ता देवताः क्रतुषु द्विज। किमर्थं चाध्वरे ब्रह्मन्निज्यन्ते त्रिदिवौकसः ॥३-३२७-१२॥
ये च भागं प्रगृह्णन्ति यज्ञेषु द्विजसत्तम। ते यजन्तो महायज्ञैः कस्य भागं ददन्ति वै ॥३-३२७-१३॥
वैशम्पायन उवाच॥
अहो गूढतमः प्रश्नस्त्वया पृष्टो जनेश्वर। नातप्ततपसा ह्येष नावेदविदुषा तथा ॥ नापुराणविदा चापि शक्यो व्याहर्तुमञ्जसा ॥३-३२७-१४॥
हन्त ते कथयिष्यामि यन्मे पृष्टः पुरा गुरुः। कृष्णद्वैपायनो व्यासो वेदव्यासो महानृषिः ॥३-३२७-१५॥
सुमन्तुर्जैमिनिश्चैव पैलश्च सुदृढव्रतः। अहं चतुर्थः शिष्यो वै पञ्चमश्च शुकः स्मृतः ॥३-३२७-१६॥
एतान्समागतान्सर्वान्पञ्च शिष्यान्दमान्वितान्। शौचाचारसमायुक्ताञ्जितक्रोधाञ्जितेन्द्रियान् ॥३-३२७-१७॥
वेदानध्यापयामास महाभारतपञ्चमान्। मेरौ गिरिवरे रम्ये सिद्धचारणसेविते ॥३-३२७-१८॥
तेषामभ्यस्यतां वेदान्कदाचित्संशयोऽभवत्। एष वै यस्त्वया पृष्टस्तेन तेषां प्रकीर्तितः ॥ ततः श्रुतो मया चापि तवाख्येयोऽद्य भारत ॥३-३२७-१९॥
शिष्याणां वचनं श्रुत्वा सर्वाज्ञानतमोनुदः। पराशरसुतः श्रीमान्व्यासो वाक्यमुवाच ह ॥३-३२७-२०॥
मया हि सुमहत्तप्तं तपः परमदारुणम्। भूतं भव्यं भविष्यच्च जानीयामिति सत्तमाः ॥३-३२७-२१॥
तस्य मे तप्ततपसो निगृहीतेन्द्रियस्य च। नारायणप्रसादेन क्षीरोदस्यानुकूलतः ॥३-३२७-२२॥
त्रैकालिकमिदं ज्ञानं प्रादुर्भूतं यथेप्सितम्। तच्छृणुध्वं यथाज्ञानं वक्ष्ये संशयमुत्तमम् ॥ यथा वृत्तं हि कल्पादौ दृष्टं मे ज्ञानचक्षुषा ॥३-३२७-२३॥
परमात्मेति यं प्राहुः साङ्ख्ययोगविदो जनाः। महापुरुषसञ्ज्ञां स लभते स्वेन कर्मणा ॥३-३२७-२४॥
तस्मात्प्रसूतमव्यक्तं प्रधानं तद्विदुर्बुधाः। अव्यक्ताद्व्यक्तमुत्पन्नं लोकसृष्ट्यर्थमीश्वरात् ॥३-३२७-२५॥
अनिरुद्धो हि लोकेषु महानात्मेति कथ्यते। योऽसौ व्यक्तत्वमापन्नो निर्ममे च पितामहम् ॥ सोऽहङ्कार इति प्रोक्तः सर्वतेजोमयो हि सः ॥३-३२७-२६॥
पृथिवी वायुराकाशमापो ज्योतिश्च पञ्चमम्। अहङ्कारप्रसूतानि महाभूतानि भारत ॥३-३२७-२७॥
महाभूतानि सृष्ट्वाथ तद्गुणान्निर्ममे पुनः। भूतेभ्यश्चैव निष्पन्ना मूर्तिमन्तोऽष्ट ताञ्शृणु ॥३-३२७-२८॥
मरीचिरङ्गिराश्चात्रिः पुलस्त्यः पुलहः क्रतुः। वसिष्ठश्च महात्मा वै मनुः स्वायम्भुवस्तथा ॥३-३२७-२९॥
ज्ञेयाः प्रकृतयोऽष्टौ ता यासु लोकाः प्रतिष्ठिताः ॥३-३२७-२९॥
वेदान्वेदाङ्गसंयुक्तान्यज्ञान्यज्ञाङ्गसंयुतान्। निर्ममे लोकसिद्ध्यर्थं ब्रह्मा लोकपितामहः ॥ अष्टाभ्यः प्रकृतिभ्यश्च जातं विश्वमिदं जगत् ॥३-३२७-३०॥
रुद्रो रोषात्मको जातो दशान्यान्सोऽसृजत्स्वयम्। एकादशैते रुद्रास्तु विकाराः पुरुषाः स्मृताः ॥३-३२७-३१॥
ते रुद्राः प्रकृतिश्चैव सर्वे चैव सुरर्षयः। उत्पन्ना लोकसिद्ध्यर्थं ब्रह्माणं समुपस्थिताः ॥३-३२७-३२॥
वयं हि सृष्टा भगवंस्त्वया वै प्रभविष्णुना। येन यस्मिन्नधीकारे वर्तितव्यं पितामह ॥३-३२७-३३॥
योऽसौ त्वया विनिर्दिष्टो अधिकारोऽर्थचिन्तकः। परिपाल्यः कथं तेन सोऽधिकारोऽधिकारिणा ॥३-३२७-३४॥
प्रदिशस्व बलं तस्य योऽधिकारार्थचिन्तकः। एवमुक्तो महादेवो देवांस्तानिदमब्रवीत् ॥३-३२७-३५॥
साध्वहं ज्ञापितो देवा युष्माभिर्भद्रमस्तु वः। ममाप्येषा समुत्पन्ना चिन्ता या भवतां मता ॥३-३२७-३६॥
लोकतन्त्रस्य कृत्स्नस्य कथं कार्यः परिग्रहः। कथं बलक्षयो न स्याद्युष्माकं ह्यात्मनश्च मे ॥३-३२७-३७॥
इतः सर्वेऽपि गच्छामः शरणं लोकसाक्षिणम्। महापुरुषमव्यक्तं स नो वक्ष्यति यद्धितम् ॥३-३२७-३८॥
ततस्ते ब्रह्मणा सार्धमृषयो विबुधास्तथा। क्षीरोदस्योत्तरं कूलं जग्मुर्लोकहितार्थिनः ॥३-३२७-३९॥
ते तपः समुपातिष्ठन्ब्रह्मोक्तं वेदकल्पितम्। स महानियमो नाम तपश्चर्या सुदारुणा ॥३-३२७-४०॥
ऊर्ध्वं दृष्टिर्बाहवश्च एकाग्रं च मनोऽभवत्। एकपादस्थिताः सम्यक्काष्ठभूताः समाहिताः ॥३-३२७-४१॥
दिव्यं वर्षसहस्रं ते तपस्तप्त्वा तदुत्तमम्। शुश्रुवुर्मधुरां वाणीं वेदवेदाङ्गभूषिताम् ॥३-३२७-४२॥
भो भोः सब्रह्मका देवा ऋषयश्च तपोधनाः। स्वागतेनार्च्य वः सर्वाञ्श्रावये वाक्यमुत्तमम् ॥३-३२७-४३॥
विज्ञातं वो मया कार्यं तच्च लोकहितं महत्। प्रवृत्तियुक्तं कर्तव्यं युष्मत्प्राणोपबृंहणम् ॥३-३२७-४४॥
सुतप्तं वस्तपो देवा ममाराधनकाम्यया। भोक्ष्यथास्य महासत्त्वास्तपसः फलमुत्तमम् ॥३-३२७-४५॥
एष ब्रह्मा लोकगुरुः सर्वलोकपितामहः। यूयं च विबुधश्रेष्ठा मां यजध्वं समाहिताः ॥३-३२७-४६॥
सर्वे भागान्कल्पयध्वं यज्ञेषु मम नित्यशः। तथा श्रेयो विधास्यामि यथाधीकारमीश्वराः ॥३-३२७-४७॥
श्रुत्वैतद्देवदेवस्य वाक्यं हृष्टतनूरुहाः। ततस्ते विबुधाः सर्वे ब्रह्मा ते च महर्षयः ॥३-३२७-४८॥
वेददृष्टेन विधिना वैष्णवं क्रतुमाहरन्। तस्मिन्सत्रे तदा ब्रह्मा स्वयं भागमकल्पयत् ॥ देवा देवर्षयश्चैव सर्वे भागानकल्पयन् ॥३-३२७-४९॥
ते कार्तयुगधर्माणो भागाः परमसत्कृताः। प्रापुरादित्यवर्णं तं पुरुषं तमसः परम् ॥ बृहन्तं सर्वगं देवमीशानं वरदं प्रभुम् ॥३-३२७-५०॥
ततोऽथ वरदो देवस्तान्सर्वानमरान्स्थितान्। अशरीरो बभाषेदं वाक्यं खस्थो महेश्वरः ॥३-३२७-५१॥
येन यः कल्पितो भागः स तथा समुपागतः। प्रीतोऽहं प्रदिशाम्यद्य फलमावृत्तिलक्षणम् ॥३-३२७-५२॥
एतद्वो लक्षणं देवा मत्प्रसादसमुद्भवम्। यूयं यज्ञैरिज्यमानाः समाप्तवरदक्षिणैः ॥ युगे युगे भविष्यध्वं प्रवृत्तिफलभोगिनः ॥३-३२७-५३॥
यज्ञैर्ये चापि यक्ष्यन्ति सर्वलोकेषु वै सुराः। कल्पयिष्यन्ति वो भागांस्ते नरा वेदकल्पितान् ॥३-३२७-५४॥
यो मे यथा कल्पितवान्भागमस्मिन्महाक्रतौ। स तथा यज्ञभागार्हो वेदसूत्रे मया कृतः ॥३-३२७-५५॥
यूयं लोकान्धारयध्वं यज्ञभागफलोदिताः। सर्वार्थचिन्तका लोके यथाधीकारनिर्मिताः ॥३-३२७-५६॥
याः क्रियाः प्रचरिष्यन्ति प्रवृत्तिफलसत्कृताः। ताभिराप्यायितबला लोकान्वै धारयिष्यथ ॥३-३२७-५७॥
यूयं हि भाविता लोके सर्वयज्ञेषु मानवैः। मां ततो भावयिष्यध्वमेषा वो भावना मम ॥३-३२७-५८॥
इत्यर्थं निर्मिता वेदा यज्ञाश्चौषधिभिः सह। एभिः सम्यक्प्रयुक्तैर्हि प्रीयन्ते देवताः क्षितौ ॥३-३२७-५९॥
निर्माणमेतद्युष्माकं प्रवृत्तिगुणकल्पितम्। मया कृतं सुरश्रेष्ठा यावत्कल्पक्षयादिति ॥ चिन्तयध्वं लोकहितं यथाधीकारमीश्वराः ॥३-३२७-६०॥
मरीचिरङ्गिराश्चात्रिः पुलस्त्यः पुलहः क्रतुः। वसिष्ठ इति सप्तैते मानसा निर्मिता हि वै ॥३-३२७-६१॥
एते वेदविदो मुख्या वेदाचार्याश्च कल्पिताः। प्रवृत्तिधर्मिणश्चैव प्राजापत्येन कल्पिताः ॥३-३२७-६२॥
अयं क्रियावतां पन्था व्यक्तीभूतः सनातनः। अनिरुद्ध इति प्रोक्तो लोकसर्गकरः प्रभुः ॥३-३२७-६३॥
सनः सनत्सुजातश्च सनकः ससनन्दनः। सनत्कुमारः कपिलः सप्तमश्च सनातनः ॥३-३२७-६४॥
सप्तैते मानसाः प्रोक्ता ऋषयो ब्रह्मणः सुताः। स्वयमागतविज्ञाना निवृत्तं धर्ममास्थिताः ॥३-३२७-६५॥
एते योगविदो मुख्याः साङ्ख्यधर्मविदस्तथा। आचार्या मोक्षशास्त्रे च मोक्षधर्मप्रवर्तकाः ॥३-३२७-६६॥
यतोऽहं प्रसृतः पूर्वमव्यक्तात्त्रिगुणो महान्। तस्मात्परतरो योऽसौ क्षेत्रज्ञ इति कल्पितः ॥ सोऽहं क्रियावतां पन्थाः पुनरावृत्तिदुर्लभः ॥३-३२७-६७॥
यो यथा निर्मितो जन्तुर्यस्मिन्यस्मिंश्च कर्मणि। प्रवृत्तौ वा निवृत्तौ वा तत्फलं सोऽश्नुतेऽवशः ॥३-३२७-६८॥
एष लोकगुरुर्ब्रह्मा जगदादिकरः प्रभुः। एष माता पिता चैव युष्माकं च पितामहः ॥ मयानुशिष्टो भविता सर्वभूतवरप्रदः ॥३-३२७-६९॥
अस्य चैवानुजो रुद्रो ललाटाद्यः समुत्थितः। ब्रह्मानुशिष्टो भविता सर्वत्रसवरप्रदः ॥३-३२७-७०॥
गच्छध्वं स्वानधीकारांश्चिन्तयध्वं यथाविधि। प्रवर्तन्तां क्रियाः सर्वाः सर्वलोकेषु माचिरम् ॥३-३२७-७१॥
प्रदृश्यन्तां च कर्माणि प्राणिनां गतयस्तथा। परिनिर्मितकालानि आयूंषि च सुरोत्तमाः ॥३-३२७-७२॥
इदं कृतयुगं नाम कालः श्रेष्ठः प्रवर्तते। अहिंस्या यज्ञपशवो युगेऽस्मिन्नैतदन्यथा ॥ चतुष्पात्सकलो धर्मो भविष्यत्यत्र वै सुराः ॥३-३२७-७३॥
ततस्त्रेतायुगं नाम त्रयी यत्र भविष्यति। प्रोक्षिता यत्र पशवो वधं प्राप्स्यन्ति वै मखे ॥ तत्र पादचतुर्थो वै धर्मस्य न भविष्यति ॥३-३२७-७४॥
ततो वै द्वापरं नाम मिश्रः कालो भविष्यति। द्विपादहीनो धर्मश्च युगे तस्मिन्भविष्यति ॥३-३२७-७५॥
ततस्तिष्येऽथ सम्प्राप्ते युगे कलिपुरस्कृते। एकपादस्थितो धर्मो यत्र तत्र भविष्यति ॥३-३२७-७६॥
देवा ऊचुः॥
एकपादस्थिते धर्मे यत्रक्वचनगामिनि। कथं कर्तव्यमस्माभिर्भगवंस्तद्वदस्व नः ॥३-३२७-७७॥
श्रीभगवानुवाच॥
यत्र वेदाश्च यज्ञाश्च तपः सत्यं दमस्तथा। अहिंसाधर्मसंयुक्ताः प्रचरेयुः सुरोत्तमाः ॥३-३२७-७८॥
स वै देशः सेवितव्यो मा वोऽधर्मः पदा स्पृशेत् ॥३-३२७-७८॥
व्यास उवाच॥
तेऽनुशिष्टा भगवता देवाः सर्षिगणास्तथा। नमस्कृत्वा भगवते जग्मुर्देशान्यथेप्सितान् ॥३-३२७-७९॥
गतेषु त्रिदिवौकःसु ब्रह्मैकः पर्यवस्थितः। दिदृक्षुर्भगवन्तं तमनिरुद्धतनौ स्थितम् ॥३-३२७-८०॥
तं देवो दर्शयामास कृत्वा हयशिरो महत्। साङ्गानावर्तयन्वेदान्कमण्डलुगणित्रधृक् ॥३-३२७-८१॥
ततोऽश्वशिरसं दृष्ट्वा तं देवममितौजसम्। लोककर्ता प्रभुर्ब्रह्मा लोकानां हितकाम्यया ॥३-३२७-८२॥
मूर्ध्ना प्रणम्य वरदं तस्थौ प्राञ्जलिरग्रतः। स परिष्वज्य देवेन वचनं श्रावितस्तदा ॥३-३२७-८३॥
लोककार्यगतीः सर्वास्त्वं चिन्तय यथाविधि। धाता त्वं सर्वभूतानां त्वं प्रभुर्जगतो गुरुः ॥ त्वय्यावेशितभारोऽहं धृतिं प्राप्स्याम्यथाञ्जसा ॥३-३२७-८४॥
यदा च सुरकार्यं ते अविषह्यं भविष्यति। प्रादुर्भावं गमिष्यामि तदात्मज्ञानदेशिकः ॥३-३२७-८५॥
एवमुक्त्वा हयशिरास्तत्रैवान्तरधीयत। तेनानुशिष्टो ब्रह्मापि स्वं लोकमचिराद्गतः ॥३-३२७-८६॥
एवमेष महाभागः पद्मनाभः सनातनः। यज्ञेष्वग्रहरः प्रोक्तो यज्ञधारी च नित्यदा ॥३-३२७-८७॥
निवृत्तिं चास्थितो धर्मं गतिमक्षयधर्मिणाम्। प्रवृत्तिधर्मान्विदधे कृत्वा लोकस्य चित्रताम् ॥३-३२७-८८॥
स आदिः स मध्यः स चान्तः प्रजानां; स धाता स धेयः स कर्ता स कार्यम्। युगान्ते स सुप्तः सुसङ्क्षिप्य लोका; न्युगादौ प्रबुद्धो जगद्ध्युत्ससर्ज ॥३-३२७-८९॥
तस्मै नमध्वं देवाय निर्गुणाय गुणात्मने। अजाय विश्वरूपाय धाम्ने सर्वदिवौकसाम् ॥३-३२७-९०॥
महाभूताधिपतये रुद्राणां पतये तथा। आदित्यपतये चैव वसूनां पतये तथा ॥३-३२७-९१॥
अश्विभ्यां पतये चैव मरुतां पतये तथा। वेदयज्ञाधिपतये वेदाङ्गपतयेऽपि च ॥३-३२७-९२॥
समुद्रवासिने नित्यं हरये मुञ्जकेशिने। शान्तये सर्वभूतानां मोक्षधर्मानुभाषिणे ॥३-३२७-९३॥
तपसां तेजसां चैव पतये यशसोऽपि च। वाचश्च पतये नित्यं सरितां पतये तथा ॥३-३२७-९४॥
कपर्दिने वराहाय एकशृङ्गाय धीमते। विवस्वतेऽश्वशिरसे चतुर्मूर्तिधृते सदा ॥३-३२७-९५॥
गुह्याय ज्ञानदृश्याय अक्षराय क्षराय च। एष देवः सञ्चरति सर्वत्रगतिरव्ययः ॥३-३२७-९६॥
एवमेतत्पुरा दृष्टं मया वै ज्ञानचक्षुषा। कथितं तच्च वः सर्वं मया पृष्टेन तत्त्वतः ॥३-३२७-९७॥
क्रियतां मद्वचः शिष्याः सेव्यतां हरिरीश्वरः। गीयतां वेदशब्दैश्च पूज्यतां च यथाविधि ॥३-३२७-९८॥
वैशम्पायन उवाच॥
इत्युक्तास्तु वयं तेन वेदव्यासेन धीमता। सर्वे शिष्याः सुतश्चास्य शुकः परमधर्मवित् ॥३-३२७-९९॥
स चास्माकमुपाध्यायः सहास्माभिर्विशां पते। चतुर्वेदोद्गताभिश्च ऋग्भिस्तमभितुष्टुवे ॥३-३२७-१००॥
एतत्ते सर्वमाख्यातं यन्मां त्वं परिपृच्छसि। एवं मेऽकथयद्राजन्पुरा द्वैपायनो गुरुः ॥३-३२७-१०१॥
यश्चेदं शृणुयान्नित्यं यश्चेदं परिकीर्तयेत्। नमो भगवते कृत्वा समाहितमना नरः ॥३-३२७-१०२॥
भवत्यरोगो द्युतिमान्बलरूपसमन्वितः। आतुरो मुच्यते रोगाद्बद्धो मुच्येत बन्धनात् ॥३-३२७-१०३॥
कामकामी लभेत्कामं दीर्घमायुरवाप्नुयात्। ब्राह्मणः सर्ववेदी स्यात्क्षत्रियो विजयी भवेत् ॥ वैश्यो विपुललाभः स्याच्छूद्रः सुखमवाप्नुयात् ॥३-३२७-१०४॥
अपुत्रो लभते पुत्रं कन्या चैवेप्सितं पतिम्। लग्नगर्भा विमुच्येत गर्भिणी जनयेत्सुतम् ॥ वन्ध्या प्रसवमाप्नोति पुत्रपौत्रसमृद्धिमत् ॥३-३२७-१०५॥
क्षेमेण गच्छेदध्वानमिदं यः पठते पथि। यो यं कामं कामयते स तमाप्नोति च ध्रुवम् ॥३-३२७-१०६॥
इदं महर्षेर्वचनं विनिश्चितं; महात्मनः पुरुषवरस्य कीर्तनम्। समागमं चर्षिदिवौकसामिमं; निशम्य भक्ताः सुसुखं लभन्ते ॥३-३२७-१०७॥