Mahabharata - Shanti Parva (महाभारत - शान्तिपर्वम्)
12.328
जनमेजय उवाच॥
अस्तौषीद्यैरिमं व्यासः सशिष्यो मधुसूदनम्। नामभिर्विविधैरेषां निरुक्तं भगवन्मम ॥३-३२८-१॥
वक्तुमर्हसि शुश्रूषोः प्रजापतिपतेर्हरेः। श्रुत्वा भवेयं यत्पूतः शरच्चन्द्र इवामलः ॥३-३२८-२॥
वैशम्पायन उवाच॥
शृणु राजन्यथाचष्ट फल्गुनस्य हरिर्विभुः। प्रसन्नात्मात्मनो नाम्नां निरुक्तं गुणकर्मजम् ॥३-३२८-३॥
नामभिः कीर्तितैस्तस्य केशवस्य महात्मनः। पृष्टवान्केशवं राजन्फल्गुनः परवीरहा ॥३-३२८-४॥
अर्जुन उवाच॥
भगवन्भूतभव्येश सर्वभूतसृगव्यय। लोकधाम जगन्नाथ लोकानामभयप्रद ॥३-३२८-५॥
यानि नामानि ते देव कीर्तितानि महर्षिभिः। वेदेषु सपुराणेषु यानि गुह्यानि कर्मभिः ॥३-३२८-६॥
तेषां निरुक्तं त्वत्तोऽहं श्रोतुमिच्छामि केशव। न ह्यन्यो वर्तयेन्नाम्नां निरुक्तं त्वामृते प्रभो ॥३-३२८-७॥
श्रीभगवानुवाच॥
ऋग्वेदे सयजुर्वेदे तथैवाथर्वसामसु। पुराणे सोपनिषदे तथैव ज्योतिषेऽर्जुन ॥३-३२८-८॥
साङ्ख्ये च योगशास्त्रे च आयुर्वेदे तथैव च। बहूनि मम नामानि कीर्तितानि महर्षिभिः ॥३-३२८-९॥
गौणानि तत्र नामानि कर्मजानि च कानिचित्। निरुक्तं कर्मजानां च शृणुष्व प्रयतोऽनघ ॥ कथ्यमानं मया तात त्वं हि मेऽर्धं स्मृतः पुरा ॥३-३२८-१०॥
नमोऽतियशसे तस्मै देहिनां परमात्मने। नारायणाय विश्वाय निर्गुणाय गुणात्मने ॥३-३२८-११॥
यस्य प्रसादजो ब्रह्मा रुद्रश्च क्रोधसम्भवः। योऽसौ योनिर्हि सर्वस्य स्थावरस्य चरस्य च ॥३-३२८-१२॥
अष्टादशगुणं यत्तत्सत्त्वं सत्त्ववतां वर। प्रकृतिः सा परा मह्यं रोदसी योगधारिणी ॥ ऋता सत्यामराजय्या लोकानामात्मसञ्ज्ञिता ॥३-३२८-१३॥
तस्मात्सर्वाः प्रवर्तन्ते सर्गप्रलयविक्रियाः। ततो यज्ञश्च यष्टा च पुराणः पुरुषो विराट् ॥ अनिरुद्ध इति प्रोक्तो लोकानां प्रभवाप्ययः ॥३-३२८-१४॥
ब्राह्मे रात्रिक्षये प्राप्ते तस्य ह्यमिततेजसः। प्रसादात्प्रादुरभवत्पद्मं पद्मनिभेक्षण ॥ तत्र ब्रह्मा समभवत्स तस्यैव प्रसादजः ॥३-३२८-१५॥
अह्नः क्षये ललाटाच्च सुतो देवस्य वै तथा। क्रोधाविष्टस्य सञ्जज्ञे रुद्रः संहारकारकः ॥३-३२८-१६॥
एतौ द्वौ विबुधश्रेष्ठौ प्रसादक्रोधजौ स्मृतौ। तदादेशितपन्थानौ सृष्टिसंहारकारकौ ॥ निमित्तमात्रं तावत्र सर्वप्राणिवरप्रदौ ॥३-३२८-१७॥
कपर्दी जटिलो मुण्डः श्मशानगृहसेवकः। उग्रव्रतधरो रुद्रो योगी त्रिपुरदारुणः ॥३-३२८-१८॥
दक्षक्रतुहरश्चैव भगनेत्रहरस्तथा। नारायणात्मको ज्ञेयः पाण्डवेय युगे युगे ॥३-३२८-१९॥
तस्मिन्हि पूज्यमाने वै देवदेवे महेश्वरे। सम्पूजितो भवेत्पार्थ देवो नारायणः प्रभुः ॥३-३२८-२०॥
अहमात्मा हि लोकानां विश्वानां पाण्डुनन्दन। तस्मादात्मानमेवाग्रे रुद्रं सम्पूजयाम्यहम् ॥३-३२८-२१॥
यद्यहं नार्चयेयं वै ईशानं वरदं शिवम्। आत्मानं नार्चयेत्कश्चिदिति मे भावितं मनः ॥ मया प्रमाणं हि कृतं लोकः समनुवर्तते ॥३-३२८-२२॥
प्रमाणानि हि पूज्यानि ततस्तं पूजयाम्यहम्। यस्तं वेत्ति स मां वेत्ति योऽनु तं स हि मामनु ॥३-३२८-२३॥
रुद्रो नारायणश्चैव सत्त्वमेकं द्विधाकृतम्। लोके चरति कौन्तेय व्यक्तिस्थं सर्वकर्मसु ॥३-३२८-२४॥
न हि मे केनचिद्देयो वरः पाण्डवनन्दन। इति सञ्चिन्त्य मनसा पुराणं विश्वमीश्वरम् ॥ पुत्रार्थमाराधितवानात्मानमहमात्मना ॥३-३२८-२५॥
न हि विष्णुः प्रणमति कस्मैचिद्विबुधाय तु। ऋत आत्मानमेवेति ततो रुद्रं भजाम्यहम् ॥३-३२८-२६॥
सब्रह्मकाः सरुद्राश्च सेन्द्रा देवाः सहर्षिभिः। अर्चयन्ति सुरश्रेष्ठं देवं नारायणं हरिम् ॥३-३२८-२७॥
भविष्यतां वर्ततां च भूतानां चैव भारत। सर्वेषामग्रणीर्विष्णुः सेव्यः पूज्यश्च नित्यशः ॥३-३२८-२८॥
नमस्व हव्यदं विष्णुं तथा शरणदं नम। वरदं नमस्व कौन्तेय हव्यकव्यभुजं नम ॥३-३२८-२९॥
चतुर्विधा मम जना भक्ता एवं हि ते श्रुतम्। तेषामेकान्तिनः श्रेष्ठास्ते चैवानन्यदेवताः ॥ अहमेव गतिस्तेषां निराशीःकर्मकारिणाम् ॥३-३२८-३०॥
ये च शिष्टास्त्रयो भक्ताः फलकामा हि ते मताः। सर्वे च्यवनधर्माणः प्रतिबुद्धस्तु श्रेष्ठभाक् ॥३-३२८-३१॥
ब्रह्माणं शितिकण्ठं च याश्चान्या देवताः स्मृताः। प्रबुद्धवर्याः सेवन्ते मामेवैष्यन्ति यत्परम् ॥ भक्तं प्रति विशेषस्ते एष पार्थानुकीर्तितः ॥३-३२८-३२॥
त्वं चैवाहं च कौन्तेय नरनारायणौ स्मृतौ। भारावतरणार्थं हि प्रविष्टौ मानुषीं तनुम् ॥३-३२८-३३॥
जानाम्यध्यात्मयोगांश्च योऽहं यस्माच्च भारत। निवृत्तिलक्षणो धर्मस्तथाभ्युदयिकोऽपि च ॥३-३२८-३४॥
नराणामयनं ख्यातमहमेकः सनातनः। आपो नारा इति प्रोक्ता आपो वै नरसूनवः ॥ अयनं मम तत्पूर्वमतो नारायणो ह्यहम् ॥३-३२८-३५॥
छादयामि जगद्विश्वं भूत्वा सूर्य इवांशुभिः। सर्वभूताधिवासश्च वासुदेवस्ततो ह्यहम् ॥३-३२८-३६॥
गतिश्च सर्वभूतानां प्रजानां चापि भारत। व्याप्ता मे रोदसी पार्थ कान्तिश्चाभ्यधिका मम ॥३-३२८-३७॥
अधिभूतानि चान्तेऽहं तदिच्छंश्चास्मि भारत। क्रमणाच्चाप्यहं पार्थ विष्णुरित्यभिसञ्ज्ञितः ॥३-३२८-३८॥
दमात्सिद्धिं परीप्सन्तो मां जनाः कामयन्ति हि। दिवं चोर्वीं च मध्यं च तस्माद्दामोदरो ह्यहम् ॥३-३२८-३९॥
पृश्निरित्युच्यते चान्नं वेदा आपोऽमृतं तथा। ममैतानि सदा गर्भे पृश्निगर्भस्ततो ह्यहम् ॥३-३२८-४०॥
ऋषयः प्राहुरेवं मां त्रितकूपाभिपातितम्। पृश्निगर्भ त्रितं पाहीत्येकतद्वितपातितम् ॥३-३२८-४१॥
ततः स ब्रह्मणः पुत्र आद्यो ऋषिवरस्त्रितः। उत्ततारोदपानाद्वै पृश्निगर्भानुकीर्तनात् ॥३-३२८-४२॥
सूर्यस्य तपतो लोकानग्नेः सोमस्य चाप्युत। अंशवो ये प्रकाशन्ते मम ते केशसञ्ज्ञिताः ॥ सर्वज्ञाः केशवं तस्मान्मामाहुर्द्विजसत्तमाः ॥३-३२८-४३॥
स्वपत्न्यामाहितो गर्भ उतथ्येन महात्मना। उतथ्येऽन्तर्हिते चैव कदाचिद्देवमायया ॥ बृहस्पतिरथाविन्दत्तां पत्नीं तस्य भारत ॥३-३२८-४४॥
ततो वै तमृषिश्रेष्ठं मैथुनोपगतं तथा। उवाच गर्भः कौन्तेय पञ्चभूतसमन्वितः ॥३-३२८-४५॥
पूर्वागतोऽहं वरद नार्हस्यम्बां प्रबाधितुम्। एतद्बृहस्पतिः श्रुत्वा चुक्रोध च शशाप च ॥३-३२८-४६॥
मैथुनोपगतो यस्मात्त्वयाहं विनिवारितः। तस्मादन्धो जास्यसि त्वं मच्छापान्नात्र संशयः ॥३-३२८-४७॥
स शापादृषिमुख्यस्य दीर्घं तम उपेयिवान्। स हि दीर्घतमा नाम नाम्ना ह्यासीदृषिः पुरा ॥३-३२८-४८॥
वेदानवाप्य चतुरः साङ्गोपाङ्गान्सनातनान्। प्रयोजयामास तदा नाम गुह्यमिदं मम ॥३-३२८-४९॥
आनुपूर्व्येण विधिना केशवेति पुनः पुनः। स चक्षुष्मान्समभवद्गौतमश्चाभवत्पुनः ॥३-३२८-५०॥
एवं हि वरदं नाम केशवेति ममार्जुन। देवानामथ सर्वेषामृषीणां च महात्मनाम् ॥३-३२८-५१॥
अग्निः सोमेन संयुक्त एकयोनि मुखं कृतम्। अग्नीषोमात्मकं तस्माज्जगत्कृत्स्नं चराचरम् ॥३-३२८-५२॥
अपि हि पुराणे भवति एकयोन्यात्मकावग्नीषोमौ देवाश्चाग्निमुखा इति एकयोनित्वाच्च परस्परं महयन्तो लोकान्धारयत इति ॥३-३२८-५३॥

...

ॐ असतो मा सद्गमय। तमसो मा ज्योतिर्गमय। मृत्योर्माऽमृतं गमय। ॐ शान्ति: शान्ति: शान्ति: ॥ - बृहदारण्यकोपनिषद् 1.3.28
"Ōm! Lead me from the unreal to the real, from darkness to light, and from death to immortality. Let there be peace, peace, and peace. Ōm!" - Brihadaranyaka Upanishad 1.3.28

Copyright © 2025, Incredible Wisdom.
All rights reserved.