Mahabharata - Shanti Parva (महाभारत - शान्तिपर्वम्)
12.330
श्रीभगवानुवाच॥
सूर्याचन्द्रमसौ शश्वत्केशैर्मे अंशुसञ्ज्ञितैः। बोधयंस्तापयंश्चैव जगदुत्तिष्ठतः पृथक् ॥३-३३०-१॥
बोधनात्तापनाच्चैव जगतो हर्षणं भवेत्। अग्नीषोमकृतैरेभिः कर्मभिः पाण्डुनन्दन ॥ हृषीकेशोऽहमीशानो वरदो लोकभावनः ॥३-३३०-२॥
इडोपहूतयोगेन हरे भागं क्रतुष्वहम्। वर्णश्च मे हरिश्रेष्ठस्तस्माद्धरिरहं स्मृतः ॥३-३३०-३॥
धाम सारो हि लोकानामृतं चैव विचारितम्। ऋतधामा ततो विप्रैः सत्यश्चाहं प्रकीर्तितः ॥३-३३०-४॥
नष्टां च धरणीं पूर्वमविन्दं वै गुहागताम्। गोविन्द इति मां देवा वाग्भिः समभितुष्टुवुः ॥३-३३०-५॥
शिपिविष्टेति चाख्यायां हीनरोमा च यो भवेत्। तेनाविष्टं हि यत्किञ्चिच्छिपिविष्टं हि तत्स्मृतम् ॥३-३३०-६॥
यास्को मामृषिरव्यग्रो नैकयज्ञेषु गीतवान्। शिपिविष्ट इति ह्यस्माद्गुह्यनामधरो ह्यहम् ॥३-३३०-७॥
स्तुत्वा मां शिपिविष्टेति यास्को ऋषिरुदारधीः। मत्प्रसादादधो नष्टं निरुक्तमभिजग्मिवान् ॥३-३३०-८॥
न हि जातो न जायेऽहं न जनिष्ये कदाचन। क्षेत्रज्ञः सर्वभूतानां तस्मादहमजः स्मृतः ॥३-३३०-९॥
नोक्तपूर्वं मया क्षुद्रमश्लीलं वा कदाचन। ऋता ब्रह्मसुता सा मे सत्या देवी सरस्वती ॥३-३३०-१०॥
सच्चासच्चैव कौन्तेय मयावेशितमात्मनि। पौष्करे ब्रह्मसदने सत्यं मामृषयो विदुः ॥३-३३०-११॥
सत्त्वान्न च्युतपूर्वोऽहं सत्त्वं वै विद्धि मत्कृतम्। जन्मनीहाभवत्सत्त्वं पौर्विकं मे धनञ्जय ॥३-३३०-१२॥
निराशीःकर्मसंयुक्तं सात्वतं मां प्रकल्पय। सात्वतज्ञानदृष्टोऽहं सात्वतः सात्वतां पतिः ॥३-३३०-१३॥
कृषामि मेदिनीं पार्थ भूत्वा कार्ष्णायसो महान्। कृष्णो वर्णश्च मे यस्मात्तस्मात्कृष्णोऽहमर्जुन ॥३-३३०-१४॥
मया संश्लेषिता भूमिरद्भिर्व्योम च वायुना। वायुश्च तेजसा सार्धं वैकुण्ठत्वं ततो मम ॥३-३३०-१५॥
निर्वाणं परमं सौख्यं धर्मोऽसौ पर उच्यते। तस्मान्न च्युतपूर्वोऽहमच्युतस्तेन कर्मणा ॥३-३३०-१६॥
पृथिवीनभसी चोभे विश्रुते विश्वलौकिके। तयोः सन्धारणार्थं हि मामधोक्षजमञ्जसा ॥३-३३०-१७॥
निरुक्तं वेदविदुषो ये च शब्दार्थचिन्तकाः। ते मां गायन्ति प्राग्वंशे अधोक्षज इति स्थितिः ॥३-३३०-१८॥
शब्द एकमतैरेष व्याहृतः परमर्षिभिः। नान्यो ह्यधोक्षजो लोके ऋते नारायणं प्रभुम् ॥३-३३०-१९॥
घृतं ममार्चिषो लोके जन्तूनां प्राणधारणम्। घृतार्चिरहमव्यग्रैर्वेदज्ञैः परिकीर्तितः ॥३-३३०-२०॥
त्रयो हि धातवः ख्याताः कर्मजा इति च स्मृताः। पित्तं श्लेष्मा च वायुश्च एष सङ्घात उच्यते ॥३-३३०-२१॥
एतैश्च धार्यते जन्तुरेतैः क्षीणैश्च क्षीयते। आयुर्वेदविदस्तस्मात्त्रिधातुं मां प्रचक्षते ॥३-३३०-२२॥
वृषो हि भगवान्धर्मः ख्यातो लोकेषु भारत। नैघण्टुकपदाख्यातं विद्धि मां वृषमुत्तमम् ॥३-३३०-२३॥
कपिर्वराहः श्रेष्ठश्च धर्मश्च वृष उच्यते। तस्माद्वृषाकपिं प्राह कश्यपो मां प्रजापतिः ॥३-३३०-२४॥
न चादिं न मध्यं तथा नैव चान्तं; कदाचिद्विदन्ते सुराश्चासुराश्च। अनाद्यो ह्यमध्यस्तथा चाप्यनन्तः; प्रगीतोऽहमीशो विभुर्लोकसाक्षी ॥३-३३०-२५॥
शुचीनि श्रवणीयानि शृणोमीह धनञ्जय। न च पापानि गृह्णामि ततोऽहं वै शुचिश्रवाः ॥३-३३०-२६॥
एकशृङ्गः पुरा भूत्वा वराहो दिव्यदर्शनः। इमामुद्धृतवान्भूमिमेकशृङ्गस्ततो ह्यहम् ॥३-३३०-२७॥
तथैवासं त्रिककुदो वाराहं रूपमास्थितः। त्रिककुत्तेन विख्यातः शरीरस्य तु मापनात् ॥३-३३०-२८॥
विरिञ्च इति यः प्रोक्तः कपिलज्ञानचिन्तकैः। स प्रजापतिरेवाहं चेतनात्सर्वलोककृत् ॥३-३३०-२९॥
विद्यासहायवन्तं मामादित्यस्थं सनातनम्। कपिलं प्राहुराचार्याः साङ्ख्या निश्चितनिश्चयाः ॥३-३३०-३०॥
हिरण्यगर्भो द्युतिमानेष यश्छन्दसि स्तुतः। योगैः सम्पूज्यते नित्यं स एवाहं विभुः स्मृतः ॥३-३३०-३१॥
एकविंशतिशाखं च ऋग्वेदं मां प्रचक्षते। सहस्रशाखं यत्साम ये वै वेदविदो जनाः ॥३-३३०-३२॥
गायन्त्यारण्यके विप्रा मद्भक्तास्तेऽपि दुर्लभाः ॥३-३३०-३२॥
षट्पञ्चाशतमष्टौ च सप्तत्रिंशतमित्युत। यस्मिञ्शाखा यजुर्वेदे सोऽहमाध्वर्यवे स्मृतः ॥३-३३०-३३॥
पञ्चकल्पमथर्वाणं कृत्याभिः परिबृंहितम्। कल्पयन्ति हि मां विप्रा अथर्वाणविदस्तथा ॥३-३३०-३४॥
शाखाभेदाश्च ये केचिद्याश्च शाखासु गीतयः। स्वरवर्णसमुच्चाराः सर्वांस्तान्विद्धि मत्कृतान् ॥३-३३०-३५॥
यत्तद्धयशिरः पार्थ समुदेति वरप्रदम्। सोऽहमेवोत्तरे भागे क्रमाक्षरविभागवित् ॥३-३३०-३६॥
रामादेशितमार्गेण मत्प्रसादान्महात्मना। पाञ्चालेन क्रमः प्राप्तस्तस्माद्भूतात्सनातनात् ॥ बाभ्रव्यगोत्रः स बभौ प्रथमः क्रमपारगः ॥३-३३०-३७॥
नारायणाद्वरं लब्ध्वा प्राप्य योगमनुत्तमम्। क्रमं प्रणीय शिक्षां च प्रणयित्वा स गालवः ॥३-३३०-३८॥
कण्डरीकोऽथ राजा च ब्रह्मदत्तः प्रतापवान्। जातीमरणजं दुःखं स्मृत्वा स्मृत्वा पुनः पुनः ॥ सप्तजातिषु मुख्यत्वाद्योगानां सम्पदं गतः ॥३-३३०-३९॥
पुराहमात्मजः पार्थ प्रथितः कारणान्तरे। धर्मस्य कुरुशार्दूल ततोऽहं धर्मजः स्मृतः ॥३-३३०-४०॥
नरनारायणौ पूर्वं तपस्तेपतुरव्ययम्। धर्मयानं समारूढौ पर्वते गन्धमादने ॥३-३३०-४१॥
तत्कालसमयं चैव दक्षयज्ञो बभूव ह। न चैवाकल्पयद्भागं दक्षो रुद्रस्य भारत ॥३-३३०-४२॥
ततो दधीचिवचनाद्दक्षयज्ञमपाहरत्। ससर्ज शूलं क्रोधेन प्रज्वलन्तं मुहुर्मुहुः ॥३-३३०-४३॥
तच्छूलं भस्मसात्कृत्वा दक्षयज्ञं सविस्तरम्। आवयोः सहसागच्छद्बदर्याश्रममन्तिकात् ॥ वेगेन महता पार्थ पतन्नारायणोरसि ॥३-३३०-४४॥
ततः स्वतेजसाविष्टाः केशा नारायणस्य ह। बभूवुर्मुञ्जवर्णास्तु ततोऽहं मुञ्जकेशवान् ॥३-३३०-४५॥
तच्च शूलं विनिर्धूतं हुङ्कारेण महात्मना। जगाम शङ्करकरं नारायणसमाहतम् ॥३-३३०-४६॥
अथ रुद्र उपाधावत्तावृषी तपसान्वितौ। तत एनं समुद्धूतं कण्ठे जग्राह पाणिना ॥३-३३०-४७॥
नारायणः स विश्वात्मा तेनास्य शितिकण्ठता ॥३-३३०-४७॥
अथ रुद्रविघातार्थमिषीकां जगृहे नरः। मन्त्रैश्च संयुयोजाशु सोऽभवत्परशुर्महान् ॥३-३३०-४८॥
क्षिप्तश्च सहसा रुद्रे खण्डनं प्राप्तवांस्तदा। ततोऽहं खण्डपरशुः स्मृतः परशुखण्डनात् ॥३-३३०-४९॥
अर्जुन उवाच॥
अस्मिन्युद्धे तु वार्ष्णेय त्रैलोक्यमथने तदा। जयं कः प्राप्तवांस्तत्र शंसैतन्मे जनार्दन ॥३-३३०-५०॥
श्रीभगवानुवाच॥
तयोः संलग्नयोर्युद्धे रुद्रनारायणात्मनोः। उद्विग्नाः सहसा कृत्स्ना लोकाः सर्वेऽभवंस्तदा ॥३-३३०-५१॥
नागृह्णात्पावकः शुभ्रं मखेषु सुहुतं हविः। वेदा न प्रतिभान्ति स्म ऋषीणां भावितात्मनाम् ॥३-३३०-५२॥
देवान्रजस्तमश्चैव समाविविशतुस्तदा। वसुधा सञ्चकम्पेऽथ नभश्च विपफाल ह ॥३-३३०-५३॥
निष्प्रभाणि च तेजांसि ब्रह्मा चैवासनाच्च्युतः। अगाच्छोषं समुद्रश्च हिमवांश्च व्यशीर्यत ॥३-३३०-५४॥
तस्मिन्नेवं समुत्पन्ने निमित्ते पाण्डुनन्दन। ब्रह्मा वृतो देवगणैरृषिभिश्च महात्मभिः ॥ आजगामाशु तं देशं यत्र युद्धमवर्तत ॥३-३३०-५५॥
साञ्जलिप्रग्रहो भूत्वा चतुर्वक्त्रो निरुक्तगः। उवाच वचनं रुद्रं लोकानामस्तु वै शिवम् ॥ न्यस्यायुधानि विश्वेश जगतो हितकाम्यया ॥३-३३०-५६॥
यदक्षरमथाव्यक्तमीशं लोकस्य भावनम्। कूटस्थं कर्तृनिर्द्वंद्वमकर्तेति च यं विदुः ॥३-३३०-५७॥
व्यक्तिभावगतस्यास्य एका मूर्तिरियं शिवा। नरो नारायणश्चैव जातौ धर्मकुलोद्वहौ ॥३-३३०-५८॥
तपसा महता युक्तौ देवश्रेष्ठौ महाव्रतौ। अहं प्रसादजस्तस्य कस्मिंश्चित्कारणान्तरे ॥ त्वं चैव क्रोधजस्तात पूर्वसर्गे सनातनः ॥३-३३०-५९॥
मया च सार्धं वरदं विबुधैश्च महर्षिभिः। प्रसादयाशु लोकानां शान्तिर्भवतु माचिरम् ॥३-३३०-६०॥
ब्रह्मणा त्वेवमुक्तस्तु रुद्रः क्रोधाग्निमुत्सृजन्। प्रसादयामास ततो देवं नारायणं प्रभुम् ॥ शरणं च जगामाद्यं वरेण्यं वरदं हरिम् ॥३-३३०-६१॥
ततोऽथ वरदो देवो जितक्रोधो जितेन्द्रियः। प्रीतिमानभवत्तत्र रुद्रेण सह सङ्गतः ॥३-३३०-६२॥
ऋषिभिर्ब्रह्मणा चैव विबुधैश्च सुपूजितः। उवाच देवमीशानमीशः स जगतो हरिः ॥३-३३०-६३॥
यस्त्वां वेत्ति स मां वेत्ति यस्त्वामनु स मामनु। नावयोरन्तरं किञ्चिन्मा ते भूद्बुद्धिरन्यथा ॥३-३३०-६४॥
अद्य प्रभृति श्रीवत्सः शूलाङ्कोऽयं भवत्वयम्। मम पाण्यङ्कितश्चापि श्रीकण्ठस्त्वं भविष्यसि ॥३-३३०-६५॥
एवं लक्षणमुत्पाद्य परस्परकृतं तदा। सख्यं चैवातुलं कृत्वा रुद्रेण सहितावृषी ॥ तपस्तेपतुरव्यग्रौ विसृज्य त्रिदिवौकसः ॥३-३३०-६६॥
एष ते कथितः पार्थ नारायणजयो मृधे। नामानि चैव गुह्यानि निरुक्तानि च भारत ॥ ऋषिभिः कथितानीह यानि सङ्कीर्तितानि ते ॥३-३३०-६७॥
एवं बहुविधै रूपैश्चरामीह वसुन्धराम्। ब्रह्मलोकं च कौन्तेय गोलोकं च सनातनम् ॥ मया त्वं रक्षितो युद्धे महान्तं प्राप्तवाञ्जयम् ॥३-३३०-६८॥
यस्तु ते सोऽग्रतो याति युद्धे सम्प्रत्युपस्थिते। तं विद्धि रुद्रं कौन्तेय देवदेवं कपर्दिनम् ॥३-३३०-६९॥
कालः स एव कथितः क्रोधजेति मया तव। निहतांस्तेन वै पूर्वं हतवानसि वै रिपून् ॥३-३३०-७०॥
अप्रमेयप्रभावं तं देवदेवमुमापतिम्। नमस्व देवं प्रयतो विश्वेशं हरमव्ययम् ॥३-३३०-७१॥

...

ॐ असतो मा सद्गमय। तमसो मा ज्योतिर्गमय। मृत्योर्माऽमृतं गमय। ॐ शान्ति: शान्ति: शान्ति: ॥ - बृहदारण्यकोपनिषद् 1.3.28
"Ōm! Lead me from the unreal to the real, from darkness to light, and from death to immortality. Let there be peace, peace, and peace. Ōm!" - Brihadaranyaka Upanishad 1.3.28

Copyright © 2025, Incredible Wisdom.
All rights reserved.