12.331
जनमेजय उवाच॥
ब्रह्मन्सुमहदाख्यानं भवता परिकीर्तितम्। यच्छ्रुत्वा मुनयः सर्वे विस्मयं परमं गताः ॥१२-३३१-१॥
इदं शतसहस्राद्धि भारताख्यानविस्तरात्। आमथ्य मतिमन्थेन ज्ञानोदधिमनुत्तमम् ॥१२-३३१-२॥
नवनीतं यथा दध्नो मलयाच्चन्दनं यथा। आरण्यकं च वेदेभ्य ओषधिभ्योऽमृतं यथा ॥१२-३३१-३॥
समुद्धृतमिदं ब्रह्मन्कथामृतमनुत्तमम्। तपोनिधे त्वयोक्तं हि नारायणकथाश्रयम् ॥१२-३३१-४॥
स हीशो भगवान्देवः सर्वभूतात्मभावनः। अहो नारायणं तेजो दुर्दर्शं द्विजसत्तम ॥१२-३३१-५॥
यत्राविशन्ति कल्पान्ते सर्वे ब्रह्मादयः सुराः। ऋषयश्च सगन्धर्वा यच्च किञ्चिच्चराचरम् ॥ न ततोऽस्ति परं मन्ये पावनं दिवि चेह च ॥१२-३३१-६॥
सर्वाश्रमाभिगमनं सर्वतीर्थावगाहनम्। न तथा फलदं चापि नारायणकथा यथा ॥१२-३३१-७॥
सर्वथा पाविताः स्मेह श्रुत्वेमामादितः कथाम्। हरेर्विश्वेश्वरस्येह सर्वपापप्रणाशनीम् ॥१२-३३१-८॥
न चित्रं कृतवांस्तत्र यदार्यो मे धनञ्जयः। वासुदेवसहायो यः प्राप्तवाञ्जयमुत्तमम् ॥१२-३३१-९॥
न चास्य किञ्चिदप्राप्यं मन्ये लोकेष्वपि त्रिषु। त्रैलोक्यनाथो विष्णुः स यस्यासीत्साह्यकृत्सखा ॥१२-३३१-१०॥
धन्याश्च सर्व एवासन्ब्रह्मंस्ते मम पूर्वकाः। हिताय श्रेयसे चैव येषामासीज्जनार्दनः ॥१२-३३१-११॥
तपसापि न दृश्यो हि भगवाँल्लोकपूजितः। यं दृष्टवन्तस्ते साक्षाच्छ्रीवत्साङ्कविभूषणम् ॥१२-३३१-१२॥
तेभ्यो धन्यतरश्चैव नारदः परमेष्ठिजः। न चाल्पतेजसमृषिं वेद्मि नारदमव्ययम् ॥ श्वेतद्वीपं समासाद्य येन दृष्टः स्वयं हरिः ॥१२-३३१-१३॥
देवप्रसादानुगतं व्यक्तं तत्तस्य दर्शनम्। यद्दृष्टवांस्तदा देवमनिरुद्धतनौ स्थितम् ॥१२-३३१-१४॥
बदरीमाश्रमं यत्तु नारदः प्राद्रवत्पुनः। नरनारायणौ द्रष्टुं किं नु तत्कारणं मुने ॥१२-३३१-१५॥
श्वेतद्वीपान्निवृत्तश्च नारदः परमेष्ठिजः। बदरीमाश्रमं प्राप्य समागम्य च तावृषी ॥१२-३३१-१६॥
कियन्तं कालमवसत्काः कथाः पृष्टवांश्च सः। श्वेतद्वीपादुपावृत्ते तस्मिन्वा सुमहात्मनि ॥१२-३३१-१७॥
किमब्रूतां महात्मानौ नरनारायणावृषी। तदेतन्मे यथातत्त्वं सर्वमाख्यातुमर्हसि ॥१२-३३१-१८॥
वैशम्पायन उवाच॥
नमो भगवते तस्मै व्यासायामिततेजसे। यस्य प्रसादाद्वक्ष्यामि नारायणकथामिमाम् ॥१२-३३१-१९॥
प्राप्य श्वेतं महाद्वीपं दृष्ट्वा च हरिमव्ययम्। निवृत्तो नारदो राजंस्तरसा मेरुमागमत् ॥ हृदयेनोद्वहन्भारं यदुक्तं परमात्मना ॥१२-३३१-२०॥
पश्चादस्याभवद्राजन्नात्मनः साध्वसं महत्। यद्गत्वा दूरमध्वानं क्षेमी पुनरिहागतः ॥१२-३३१-२१॥
ततो मेरोः प्रचक्राम पर्वतं गन्धमादनम्। निपपात च खात्तूर्णं विशालां बदरीमनु ॥१२-३३१-२२॥
ततः स ददृशे देवौ पुराणावृषिसत्तमौ। तपश्चरन्तौ सुमहदात्मनिष्ठौ महाव्रतौ ॥१२-३३१-२३॥
तेजसाभ्यधिकौ सूर्यात्सर्वलोकविरोचनात्। श्रीवत्सलक्षणौ पूज्यौ जटामण्डलधारिणौ ॥१२-३३१-२४॥
जालपादभुजौ तौ तु पादयोश्चक्रलक्षणौ। व्यूढोरस्कौ दीर्घभुजौ तथा मुष्कचतुष्किणौ ॥१२-३३१-२५॥
षष्टिदन्तावष्टदंष्ट्रौ मेघौघसदृशस्वनौ। स्वास्यौ पृथुललाटौ च सुहनू सुभ्रुनासिकौ ॥१२-३३१-२६॥
आतपत्रेण सदृशे शिरसी देवयोस्तयोः। एवं लक्षणसम्पन्नौ महापुरुषसञ्ज्ञितौ ॥१२-३३१-२७॥
तौ दृष्ट्वा नारदो हृष्टस्ताभ्यां च प्रतिपूजितः। स्वागतेनाभिभाष्याथ पृष्टश्चानामयं तदा ॥१२-३३१-२८॥
बभूवान्तर्गतमतिर्निरीक्ष्य पुरुषोत्तमौ। सदोगतास्तत्र ये वै सर्वभूतनमस्कृताः ॥१२-३३१-२९॥
श्वेतद्वीपे मया दृष्टास्तादृशावृषिसत्तमौ। इति सञ्चिन्त्य मनसा कृत्वा चाभिप्रदक्षिणम् ॥ उपोपविविशे तत्र पीठे कुशमये शुभे ॥१२-३३१-३०॥
ततस्तौ तपसां वासौ यशसां तेजसामपि। ऋषी शमदमोपेतौ कृत्वा पूर्वाह्णिकं विधिम् ॥१२-३३१-३१॥
पश्चान्नारदमव्यग्रौ पाद्यार्घ्याभ्यां प्रपूज्य च। पीठयोश्चोपविष्टौ तौ कृतातिथ्याह्निकौ नृप ॥१२-३३१-३२॥
तेषु तत्रोपविष्टेषु स देशोऽभिव्यराजत। आज्याहुतिमहाज्वालैर्यज्ञवाटोऽग्निभिर्यथा ॥१२-३३१-३३॥
अथ नारायणस्तत्र नारदं वाक्यमब्रवीत्। सुखोपविष्टं विश्रान्तं कृतातिथ्यं सुखस्थितम् ॥१२-३३१-३४॥
अपीदानीं स भगवान्परमात्मा सनातनः। श्वेतद्वीपे त्वया दृष्ट आवयोः प्रकृतिः परा ॥१२-३३१-३५॥
नारद उवाच॥
दृष्टो मे पुरुषः श्रीमान्विश्वरूपधरोऽव्ययः। सर्वे हि लोकास्तत्रस्थास्तथा देवाः सहर्षिभिः ॥ अद्यापि चैनं पश्यामि युवां पश्यन्सनातनौ ॥१२-३३१-३६॥
यैर्लक्षणैरुपेतः स हरिरव्यक्तरूपधृक्। तैर्लक्षणैरुपेतौ हि व्यक्तरूपधरौ युवाम् ॥१२-३३१-३७॥
दृष्टौ मया युवां तत्र तस्य देवस्य पार्श्वतः। इह चैवागतोऽस्म्यद्य विसृष्टः परमात्मना ॥१२-३३१-३८॥
को हि नाम भवेत्तस्य तेजसा यशसा श्रिया। सदृशस्त्रिषु लोकेषु ऋते धर्मात्मजौ युवाम् ॥१२-३३१-३९॥
तेन मे कथितं पूर्वं नाम क्षेत्रज्ञसञ्ज्ञितम्। प्रादुर्भावाश्च कथिता भविष्यन्ति हि ये यथा ॥१२-३३१-४०॥
तत्र ये पुरुषाः श्वेताः पञ्चेन्द्रियविवर्जिताः। प्रतिबुद्धाश्च ते सर्वे भक्ताश्च पुरुषोत्तमम् ॥१२-३३१-४१॥
तेऽर्चयन्ति सदा देवं तैः सार्धं रमते च सः। प्रियभक्तो हि भगवान्परमात्मा द्विजप्रियः ॥१२-३३१-४२॥
रमते सोऽर्च्यमानो हि सदा भागवतप्रियः। विश्वभुक्सर्वगो देवो बान्धवो भक्तवत्सलः ॥ स कर्ता कारणं चैव कार्यं चातिबलद्युतिः ॥१२-३३१-४३॥
तपसा योज्य सोऽऽत्मानं श्वेतद्वीपात्परं हि यत्। तेज इत्यभिविख्यातं स्वयम्भासावभासितम् ॥१२-३३१-४४॥
शान्तिः सा त्रिषु लोकेषु सिद्धानां भावितात्मनाम्। एतया शुभया बुद्ध्या नैष्ठिकं व्रतमास्थितः ॥१२-३३१-४५॥
न तत्र सूर्यस्तपति न सोमोऽभिविराजते। न वायुर्वाति देवेशे तपश्चरति दुश्चरम् ॥१२-३३१-४६॥
वेदीमष्टतलोत्सेधां भूमावास्थाय विश्वभुक्। एकपादस्थितो देव ऊर्ध्वबाहुरुदङ्मुखः ॥ साङ्गानावर्तयन्वेदांस्तपस्तेपे सुदुश्चरम् ॥१२-३३१-४७॥
यद्ब्रह्मा ऋषयश्चैव स्वयं पशुपतिश्च यत्। शेषाश्च विबुधश्रेष्ठा दैत्यदानवराक्षसाः ॥१२-३३१-४८॥
नागाः सुपर्णा गन्धर्वाः सिद्धा राजर्षयश्च ये। हव्यं कव्यं च सततं विधिपूर्वं प्रयुञ्जते ॥ कृत्स्नं तत्तस्य देवस्य चरणावुपतिष्ठति ॥१२-३३१-४९॥
याः क्रियाः सम्प्रयुक्तास्तु एकान्तगतबुद्धिभिः। ताः सर्वाः शिरसा देवः प्रतिगृह्णाति वै स्वयम् ॥१२-३३१-५०॥
न तस्यान्यः प्रियतरः प्रतिबुद्धैर्महात्मभिः। विद्यते त्रिषु लोकेषु ततोऽस्म्यैकान्तिकं गतः ॥ इह चैवागतस्तेन विसृष्टः परमात्मना ॥१२-३३१-५१॥
एवं मे भगवान्देवः स्वयमाख्यातवान्हरिः। आसिष्ये तत्परो भूत्वा युवाभ्यां सह नित्यशः ॥१२-३३१-५२॥