Mahabharata - Shanti Parva (महाभारत - शान्तिपर्वम्)
12.353
भीष्म उवाच॥
स चामन्त्र्योरगश्रेष्ठं ब्राह्मणः कृतनिश्चयः। दीक्षाकाङ्क्षी तदा राजंश्च्यवनं भार्गवं श्रितः ॥१२-३५३-१॥
स तेन कृतसंस्कारो धर्ममेवोपतस्थिवान्। तथैव च कथामेतां राजन्कथितवांस्तदा ॥१२-३५३-२॥
भार्गवेणापि राजेन्द्र जनकस्य निवेशने। कथैषा कथिता पुण्या नारदाय महात्मने ॥१२-३५३-३॥
नारदेनापि राजेन्द्र देवेन्द्रस्य निवेशने। कथिता भरतश्रेष्ठ पृष्टेनाक्लिष्टकर्मणा ॥१२-३५३-४॥
देवराजेन च पुरा कथैषा कथिता शुभा। समस्तेभ्यः प्रशस्तेभ्यो वसुभ्यो वसुधाधिप ॥१२-३५३-५॥
यदा च मम रामेण युद्धमासीत्सुदारुणम्। वसुभिश्च तदा राजन्कथेयं कथिता मम ॥१२-३५३-६॥
पृच्छमानाय तत्त्वेन मया तुभ्यं विशां पते। कथेयं कथिता पुण्या धर्म्या धर्मभृतां वर ॥१२-३५३-७॥
तदेष परमो धर्मो यन्मां पृच्छसि भारत। असन्नधीरनाकाङ्क्षी धर्मार्थकरणे नृप ॥१२-३५३-८॥
स च किल कृतनिश्चयो द्विजाग्र्यो; भुजगपतिप्रतिदेशितार्थकृत्यः। यमनियमसमाहितो वनान्तं; परिगणितोञ्छशिलाशनः प्रविष्टः ॥१२-३५३-९॥

...

ॐ असतो मा सद्गमय। तमसो मा ज्योतिर्गमय। मृत्योर्माऽमृतं गमय। ॐ शान्ति: शान्ति: शान्ति: ॥ - बृहदारण्यकोपनिषद् 1.3.28
"Ōm! Lead me from the unreal to the real, from darkness to light, and from death to immortality. Let there be peace, peace, and peace. Ōm!" - Brihadaranyaka Upanishad 1.3.28

Copyright © 2025, Incredible Wisdom.
All rights reserved.