12.352
ब्राह्मण उवाच॥
आश्चर्यं नात्र संदेहः सुप्रीतोऽस्मि भुजङ्गम। अन्वर्थोपगतैर्वाक्यैः पन्थानं चास्मि दर्शितः ॥१२-३५२-१॥
स्वस्ति तेऽस्तु गमिष्यामि साधो भुजगसत्तम। स्मरणीयोऽस्मि भवता सम्प्रेषणनियोजनैः ॥१२-३५२-२॥
नाग उवाच॥
अनुक्त्वा मद्गतं कार्यं क्वेदानीं प्रस्थितो भवान्। उच्यतां द्विज यत्कार्यं यदर्थं त्वमिहागतः ॥१२-३५२-३॥
उक्तानुक्ते कृते कार्ये मामामन्त्र्य द्विजर्षभ। मया प्रत्यभ्यनुज्ञातस्ततो यास्यसि ब्राह्मण ॥१२-३५२-४॥
न हि मां केवलं दृष्ट्वा त्यक्त्वा प्रणयवानिह। गन्तुमर्हसि विप्रर्षे वृक्षमूलगतो यथा ॥१२-३५२-५॥
त्वयि चाहं द्विजश्रेष्ठ भवान्मयि न संशयः। लोकोऽयं भवतः सर्वः का चिन्ता मयि तेऽनघ ॥१२-३५२-६॥
ब्राह्मण उवाच॥
एवमेतन्महाप्राज्ञ विज्ञातार्थ भुजङ्गम। नातिरिक्तास्त्वया देवाः सर्वथैव यथातथम् ॥१२-३५२-७॥
य एवाहं स एव त्वमेवमेतद्भुजङ्गम। अहं भवांश्च भूतानि सर्वे सर्वत्रगाः सदा ॥१२-३५२-८॥
आसीत्तु मे भोगपते संशयः पुण्यसञ्चये। सोऽहमुञ्छव्रतं साधो चरिष्याम्यर्थदर्शनम् ॥१२-३५२-९॥
एष मे निश्चयः साधो कृतः कारणवत्तरः। आमन्त्रयामि भद्रं ते कृतार्थोऽस्मि भुजङ्गम ॥१२-३५२-१०॥