13.001
दानधर्मपर्व
मृत्युगौतम्यादिसंवादः
युधिष्ठिर उवाच॥
शमो बहुविधाकारः सूक्ष्म उक्तः पितामह। न च मे हृदये शान्तिरस्ति कृत्वेदमीदृशम् ॥१३-१-१॥
अस्मिन्नर्थे बहुविधा शान्तिरुक्ता त्वयानघ। स्वकृते का नु शान्तिः स्याच्छमाद्बहुविधादपि ॥१३-१-२॥
शराचितशरीरं हि तीव्रव्रणमुदीक्ष्य च। शमं नोपलभे वीर दुष्कृतान्येव चिन्तयन् ॥१३-१-३॥
रुधिरेणावसिक्ताङ्गं प्रस्रवन्तं यथाचलम्। त्वां दृष्ट्वा पुरुषव्याघ्र सीदे वर्षास्विवाम्बुजम् ॥१३-१-४॥
अतः कष्टतरं किं नु मत्कृते यत्पितामहः। इमामवस्थां गमितः प्रत्यमित्रै रणाजिरे ॥ तथैवान्ये नृपतयः सहपुत्राः सबान्धवाः ॥१३-१-५॥
वयं हि धार्तराष्ट्राश्च कालमन्युवशानुगाः। कृत्वेदं निन्दितं कर्म प्राप्स्यामः कां गतिं नृप ॥१३-१-६॥
अहं तव ह्यन्तकरः सुहृद्वधकरस्तथा। न शान्तिमधिगच्छामि पश्यंस्त्वां दुःखितं क्षितौ ॥१३-१-७॥
भीष्म उवाच॥
परतन्त्रं कथं हेतुमात्मानमनुपश्यसि। कर्मण्यस्मिन्महाभाग सूक्ष्मं ह्येतदतीन्द्रियम् ॥१३-१-८॥
अत्राप्युदाहरन्तीममितिहासं पुरातनम्। संवादं मृत्युगौतम्योः काललुब्धकपन्नगैः ॥१३-१-९॥
गौतमी नाम कौन्तेय स्थविरा शमसंयुता। सर्पेण दष्टं स्वं पुत्रमपश्यद्गतचेतनम् ॥१३-१-१०॥
अथ तं स्नायुपाशेन बद्ध्वा सर्पममर्षितः। लुब्धकोऽर्जुनको नाम गौतम्याः समुपानयत् ॥१३-१-११॥
तां चाब्रवीदयं ते स पुत्रहा पन्नगाधमः। ब्रूहि क्षिप्रं महाभागे वध्यतां केन हेतुना ॥१३-१-१२॥
अग्नौ प्रक्षिप्यतामेष च्छिद्यतां खण्डशोऽपि वा। न ह्ययं बालहा पापश्चिरं जीवितुमर्हति ॥१३-१-१३॥
गौतम्युवाच॥
विसृजैनमबुद्धिस्त्वं न वध्योऽर्जुनक त्वया। को ह्यात्मानं गुरुं कुर्यात्प्राप्तव्ये सति चिन्तयन् ॥१३-१-१४॥
प्लवन्ते धर्मलघवो लोकेऽम्भसि यथा प्लवाः। मज्जन्ति पापगुरवः शस्त्रं स्कन्नमिवोदके ॥१३-१-१५॥
न चामृत्युर्भविता वै हतेऽस्मि; न्को वात्ययः स्यादहतेऽस्मिञ्जनस्य। अस्योत्सर्गे प्राणयुक्तस्य जन्तो; र्मृत्योर्लोकं को नु गच्छेदनन्तम् ॥१३-१-१६॥
लुब्धक उवाच॥
जानाम्येवं नेह गुणागुणज्ञाः; सर्वे नियुक्ता गुरवो वै भवन्ति। स्वस्थस्यैते तूपदेशा भवन्ति; तस्मात्क्षुद्रं सर्पमेनं हनिष्ये ॥१३-१-१७॥
समीप्सन्तः कालयोगं त्यजन्ति; सद्यः शुचं त्वर्थविदस्त्यजन्ति। श्रेयः क्षयः शोचतां नित्यशो हि; तस्मात्त्याज्यं जहि शोकं हतेऽस्मिन् ॥१३-१-१८॥
गौतम्युवाच॥
न चैवार्तिर्विद्यतेऽस्मद्विधानां; धर्मारामः सततं सज्जनो हि। नित्यायस्तो बालजनो न चास्ति; धर्मो ह्येष प्रभवाम्यस्य नाहम् ॥१३-१-१९॥
न ब्राह्मणानां कोपोऽस्ति कुतः कोपाच्च यातना। मार्दवात्क्षम्यतां साधो मुच्यतामेष पन्नगः ॥१३-१-२०॥
लुब्धक उवाच॥
हत्वा लाभः श्रेय एवाव्ययं स्या; त्सद्यो लाभो बलवद्भिः प्रशस्तः। कालाल्लाभो यस्तु सद्यो भवेत; हते श्रेयः कुत्सिते त्वीदृशे स्यात् ॥१३-१-२१॥
गौतम्युवाच॥
कार्थप्राप्तिर्गृह्य शत्रुं निहत्य; का वा शान्तिः प्राप्य शत्रुं नमुक्त्वा। कस्मात्सौम्य भुजगे न क्षमेयं; मोक्षं वा किं कारणं नास्य कुर्याम् ॥१३-१-२२॥
लुब्धक उवाच॥
अस्मादेकस्माद्बहवो रक्षितव्या; नैको बहुभ्यो गौतमि रक्षितव्यः। कृतागसं धर्मविदस्त्यजन्ति; सरीसृपं पापमिमं जहि त्वम् ॥१३-१-२३॥
गौतम्युवाच॥
नास्मिन्हते पन्नगे पुत्रको मे; सम्प्राप्स्यते लुब्धक जीवितं वै। गुणं चान्यं नास्य वधे प्रपश्ये; तस्मात्सर्पं लुब्धक मुञ्च जीवम् ॥१३-१-२४॥
लुब्धक उवाच॥
वृत्रं हत्वा देवराट्श्रेष्ठभाग्वै; यज्ञं हत्वा भागमवाप चैव। शूली देवो देववृत्तं कुरु त्वं; क्षिप्रं सर्पं जहि मा भूद्विशङ्का ॥१३-१-२५॥
भीष्म उवाच॥
असकृत्प्रोच्यमानापि गौतमी भुजगं प्रति। लुब्धकेन महाभागा पापे नैवाकरोन्मतिम् ॥१३-१-२६॥
ईषदुच्छ्वसमानस्तु कृच्छ्रात्संस्तभ्य पन्नगः। उत्ससर्ज गिरं मन्दां मानुषीं पाशपीडितः ॥१३-१-२७॥
को न्वर्जुनक दोषोऽत्र विद्यते मम बालिश। अस्वतन्त्रं हि मां मृत्युर्विवशं यदचूचुदत् ॥१३-१-२८॥
तस्यायं वचनाद्दष्टो न कोपेन न काम्यया। तस्य तत्किल्बिषं लुब्ध विद्यते यदि किल्बिषम् ॥१३-१-२९॥
लुब्धक उवाच॥
यद्यन्यवशगेनेदं कृतं ते पन्नगाशुभम्। कारणं वै त्वमप्यत्र तस्मात्त्वमपि किल्बिषी ॥१३-१-३०॥
मृत्पात्रस्य क्रियायां हि दण्डचक्रादयो यथा। कारणत्वे प्रकल्प्यन्ते तथा त्वमपि पन्नग ॥१३-१-३१॥
किल्बिषी चापि मे वध्यः किल्बिषी चासि पन्नग। आत्मानं कारणं ह्यत्र त्वमाख्यासि भुजङ्गम ॥१३-१-३२॥
सर्प उवाच॥
सर्व एते ह्यस्ववशा दण्डचक्रादयो यथा। तथाहमपि तस्मान्मे नैष हेतुर्मतस्तव ॥१३-१-३३॥
अथ वा मतमेतत्ते तेऽप्यन्योन्यप्रयोजकाः। कार्यकारणसंदेहो भवत्यन्योन्यचोदनात् ॥१३-१-३४॥
एवं सति न दोषो मे नास्मि वध्यो न किल्बिषी। किल्बिषं समवाये स्यान्मन्यसे यदि किल्बिषम् ॥१३-१-३५॥
लुब्धक उवाच॥
कारणं यदि न स्याद्वै न कर्ता स्यास्त्वमप्युत। विनाशे कारणं त्वं च तस्माद्वध्योऽसि मे मतः ॥१३-१-३६॥
असत्यपि कृते कार्ये नेह पन्नग लिप्यते। तस्मान्नात्रैव हेतुः स्याद्वध्यः किं बहु भाषसे ॥१३-१-३७॥
सर्प उवाच॥
कार्याभावे क्रिया न स्यात्सत्यसत्यपि कारणे। तस्मात्त्वमस्मिन्हेतौ मे वाच्यो हेतुर्विशेषतः ॥१३-१-३८॥
यद्यहं कारणत्वेन मतो लुब्धक तत्त्वतः। अन्यः प्रयोगे स्यादत्र किल्बिषी जन्तुनाशने ॥१३-१-३९॥
लुब्धक उवाच॥
वध्यस्त्वं मम दुर्बुद्धे बालघाती नृशंसकृत्। भाषसे किं बहु पुनर्वध्यः सन्पन्नगाधम ॥१३-१-४०॥
सर्प उवाच॥
यथा हवींषि जुह्वाना मखे वै लुब्धकर्त्विजः। न फलं प्राप्नुवन्त्यत्र परलोके तथा ह्यहम् ॥१३-१-४१॥
भीष्म उवाच॥
तथा ब्रुवति तस्मिंस्तु पन्नगे मृत्युचोदिते। आजगाम ततो मृत्युः पन्नगं चाब्रवीदिदम् ॥१३-१-४२॥
कालेनाहं प्रणुदितः पन्नग त्वामचूचुदम्। विनाशहेतुर्नास्य त्वमहं वा प्राणिनः शिशोः ॥१३-१-४३॥
यथा वायुर्जलधरान्विकर्षति ततस्ततः। तद्वज्जलदवत्सर्प कालस्याहं वशानुगः ॥१३-१-४४॥
सात्त्विका राजसाश्चैव तामसा ये च केचन। भावाः कालात्मकाः सर्वे प्रवर्तन्ते हि जन्तुषु ॥१३-१-४५॥
जङ्गमाः स्थावराश्चैव दिवि वा यदि वा भुवि। सर्वे कालात्मकाः सर्प कालात्मकमिदं जगत् ॥१३-१-४६॥
प्रवृत्तयश्च या लोके तथैव च निवृत्तयः। तासां विकृतयो याश्च सर्वं कालात्मकं स्मृतम् ॥१३-१-४७॥
आदित्यश्चन्द्रमा विष्णुरापो वायुः शतक्रतुः। अग्निः खं पृथिवी मित्र ओषध्यो वसवस्तथा ॥१३-१-४८॥
सरितः सागराश्चैव भावाभावौ च पन्नग। सर्वे कालेन सृज्यन्ते ह्रियन्ते च तथा पुनः ॥१३-१-४९॥
एवं ज्ञात्वा कथं मां त्वं सदोषं सर्प मन्यसे। अथ चैवङ्गते दोषो मयि त्वमपि दोषवान् ॥१३-१-५०॥
सर्प उवाच॥
निर्दोषं दोषवन्तं वा न त्वा मृत्यो ब्रवीम्यहम्। त्वयाहं चोदित इति ब्रवीम्येतावदेव तु ॥१३-१-५१॥
यदि काले तु दोषोऽस्ति यदि तत्रापि नेष्यते। दोषो नैव परीक्ष्यो मे न ह्यत्राधिकृता वयम् ॥१३-१-५२॥
निर्मोक्षस्त्वस्य दोषस्य मया कार्यो यथा तथा। मृत्यो विदोषः स्यामेव यथा तन्मे प्रयोजनम् ॥१३-१-५३॥
भीष्म उवाच॥
सर्पोऽथार्जुनकं प्राह श्रुतं ते मृत्युभाषितम्। नानागसं मां पाशेन सन्तापयितुमर्हसि ॥१३-१-५४॥
लुब्धक उवाच॥
मृत्योः श्रुतं मे वचनं तव चैव भुजङ्गम। नैव तावद्विदोषत्वं भवति त्वयि पन्नग ॥१३-१-५५॥
मृत्यस्त्वं चैव हेतुर्हि जन्तोरस्य विनाशने। उभयं कारणं मन्ये न कारणमकारणम् ॥१३-१-५६॥
धिङ्मृत्युं च दुरात्मानं क्रूरं दुःखकरं सताम्। त्वां चैवाहं वधिष्यामि पापं पापस्य कारणम् ॥१३-१-५७॥
मृत्युरुवाच॥
विवशौ कालवशगावावां तद्दिष्टकारिणौ। नावां दोषेण गन्तव्यौ यदि सम्यक्प्रपश्यसि ॥१३-१-५८॥
लुब्धक उवाच॥
युवामुभौ कालवशौ यदि वै मृत्युपन्नगौ। हर्षक्रोधौ कथं स्यातामेतदिच्छामि वेदितुम् ॥१३-१-५९॥
मृत्युरुवाच॥
याः काश्चिदिह चेष्टाः स्युः सर्वाः कालप्रचोदिताः। पूर्वमेवैतदुक्तं हि मया लुब्धक कालतः ॥१३-१-६०॥
तस्मादुभौ कालवशावावां तद्दिष्टकारिणौ। नावां दोषेण गन्तव्यौ त्वया लुब्धक कर्हिचित् ॥१३-१-६१॥
भीष्म उवाच॥
अथोपगम्य कालस्तु तस्मिन्धर्मार्थसंशये। अब्रवीत्पन्नगं मृत्युं लुब्धमर्जुनकं च तम् ॥१३-१-६२॥
काल उवाच॥
नैवाहं नाप्ययं मृत्युर्नायं लुब्धक पन्नगः। किल्बिषी जन्तुमरणे न वयं हि प्रयोजकाः ॥१३-१-६३॥
अकरोद्यदयं कर्म तन्नोऽर्जुनक चोदकम्। प्रणाशहेतुर्नान्योऽस्य वध्यतेऽयं स्वकर्मणा ॥१३-१-६४॥
यदनेन कृतं कर्म तेनायं निधनं गतः। विनाशहेतुः कर्मास्य सर्वे कर्मवशा वयम् ॥१३-१-६५॥
कर्मदायादवाँल्लोकः कर्मसम्बन्धलक्षणः। कर्माणि चोदयन्तीह यथान्योन्यं तथा वयम् ॥१३-१-६६॥
यथा मृत्पिण्डतः कर्ता कुरुते यद्यदिच्छति। एवमात्मकृतं कर्म मानवः प्रतिपद्यते ॥१३-१-६७॥
यथा छायातपौ नित्यं सुसम्बद्धौ निरन्तरम्। तथा कर्म च कर्ता च सम्बद्धावात्मकर्मभिः ॥१३-१-६८॥
एवं नाहं न वै मृत्युर्न सर्पो न तथा भवान्। न चेयं ब्राह्मणी वृद्धा शिशुरेवात्र कारणम् ॥१३-१-६९॥
तस्मिंस्तथा ब्रुवाणे तु ब्राह्मणी गौतमी नृप। स्वकर्मप्रत्ययाँल्लोकान्मत्वार्जुनकमब्रवीत् ॥१३-१-७०॥
नैव कालो न भुजगो न मृत्युरिह कारणम्। स्वकर्मभिरयं बालः कालेन निधनं गतः ॥१३-१-७१॥
मया च तत्कृतं कर्म येनायं मे मृतः सुतः। यातु कालस्तथा मृत्युर्मुञ्चार्जुनक पन्नगम् ॥१३-१-७२॥
भीष्म उवाच॥
ततो यथागतं जग्मुर्मृत्युः कालोऽथ पन्नगः। अभूद्विरोषोऽर्जुनको विशोका चैव गौतमी ॥१३-१-७३॥
एतच्छ्रुत्वा शमं गच्छ मा भूश्चिन्तापरो नृप। स्वकर्मप्रत्ययाँल्लोकांस्त्रीन्विद्धि मनुजर्षभ ॥१३-१-७४॥
न तु त्वया कृतं पार्थ नापि दुर्योधनेन वै। कालेन तत्कृतं विद्धि विहता येन पार्थिवाः ॥१३-१-७५॥
वैशम्पायन उवाच॥
इत्येतद्वचनं श्रुत्वा बभूव विगतज्वरः। युधिष्ठिरो महातेजाः पप्रच्छेदं च धर्मवित् ॥१३-१-७६॥