Mahabharata - Anuśāsana Parva (महाभारत - अनुशासनपर्वम्)
13.002
सुदर्शनोपाख्यानम्
युधिष्ठिर उवाच॥
पितामह महाप्राज्ञ सर्वशास्त्रविशारद। श्रुतं मे महदाख्यानमिदं मतिमतां वर ॥१३-२-१॥
भूयस्तु श्रोतुमिच्छामि धर्मार्थसहितं नृप। कथ्यमानं त्वया किञ्चित्तन्मे व्याख्यातुमर्हसि ॥१३-२-२॥
केन मृत्युर्गृहस्थेन धर्ममाश्रित्य निर्जितः। इत्येतत्सर्वमाचक्ष्व तत्त्वेन मम पार्थिव ॥१३-२-३॥
भीष्म उवाच॥
अत्राप्युदाहरन्तीममितिहासं पुरातनम्। यथा मृत्युर्गृहस्थेन धर्ममाश्रित्य निर्जितः ॥१३-२-४॥
मनोः प्रजापते राजन्निक्ष्वाकुरभवत्सुतः। तस्य पुत्रशतं जज्ञे नृपतेः सूर्यवर्चसः ॥१३-२-५॥
दशमस्तस्य पुत्रस्तु दशाश्वो नाम भारत। माहिष्मत्यामभूद्राजा धर्मात्मा सत्यविक्रमः ॥१३-२-६॥
दशाश्वस्य सुतस्त्वासीद्राजा परमधार्मिकः। सत्ये तपसि दाने च यस्य नित्यं रतं मनः ॥१३-२-७॥
मदिराश्व इति ख्यातः पृथिव्यां पृथिवीपतिः। धनुर्वेदे च वेदे च निरतो योऽभवत्सदा ॥१३-२-८॥
मदिराश्वस्य पुत्रस्तु द्युतिमान्नाम पार्थिवः। महाभागो महातेजा महासत्त्वो महाबलः ॥१३-२-९॥
पुत्रो द्युतिमतस्त्वासीत्सुवीरो नाम पार्थिवः। धर्मात्मा कोशवांश्चापि देवराज इवापरः ॥१३-२-१०॥
सुवीरस्य तु पुत्रोऽभूत्सर्वसङ्ग्रामदुर्जयः। दुर्जयेत्यभिविख्यातः सर्वशास्त्रविशारदः ॥१३-२-११॥
दुर्जयस्येन्द्रवपुषः पुत्रोऽग्निसदृशद्युतिः। दुर्योधनो नाम महान्राजासीद्राजसत्तम ॥१३-२-१२॥
तस्येन्द्रसमवीर्यस्य सङ्ग्रामेष्वनिवर्तिनः। विषयश्च प्रभावश्च तुल्यमेवाभ्यवर्तत ॥१३-२-१३॥
रत्नैर्धनैश्च पशुभिः सस्यैश्चापि पृथग्विधैः। नगरं विषयश्चास्य प्रतिपूर्णं तदाभवत् ॥१३-२-१४॥
न तस्य विषये चाभूत्कृपणो नापि दुर्गतः। व्याधितो वा कृशो वापि तस्मिन्नाभून्नरः क्वचित् ॥१३-२-१५॥
सुदक्षिणो मधुरवागनसूयुर्जितेन्द्रियः। धर्मात्मा चानृशंसश्च विक्रान्तोऽथाविकत्थनः ॥१३-२-१६॥
यज्वा वदान्यो मेधावी ब्रह्मण्यः सत्यसङ्गरः। न चावमन्ता दाता च वेदवेदाङ्गपारगः ॥१३-२-१७॥
तं नर्मदा देवनदी पुण्या शीतजला शिवा। चकमे पुरुषश्रेष्ठं स्वेन भावेन भारत ॥१३-२-१८॥
तस्य जज्ञे तदा नद्यां कन्या राजीवलोचना। नाम्ना सुदर्शना राजन्रूपेण च सुदर्शना ॥१३-२-१९॥
तादृग्रूपा न नारीषु भूतपूर्वा युधिष्ठिर। दुर्योधनसुता यादृगभवद्वरवर्णिनी ॥१३-२-२०॥
तामग्निश्चकमे साक्षाद्राजकन्यां सुदर्शनाम्। भूत्वा च ब्राह्मणः साक्षाद्वरयामास तं नृपम् ॥१३-२-२१॥
दरिद्रश्चासवर्णश्च ममायमिति पार्थिवः। न दित्सति सुतां तस्मै तां विप्राय सुदर्शनाम् ॥१३-२-२२॥
ततोऽस्य वितते यज्ञे नष्टोऽभूद्धव्यवाहनः। ततो दुर्योधनो राजा वाक्यमाहर्त्विजस्तदा ॥१३-२-२३॥
दुष्कृतं मम किं नु स्याद्भवतां वा द्विजर्षभाः। येन नाशं जगामाग्निः कृतं कुपुरुषेष्विव ॥१३-२-२४॥
न ह्यल्पं दुष्कृतं नोऽस्ति येनाग्निर्नाशमागतः। भवतां वाथ वा मह्यं तत्त्वेनैतद्विमृश्यताम् ॥१३-२-२५॥
एतद्राज्ञो वचः श्रुत्वा विप्रास्ते भरतर्षभ। नियता वाग्यताश्चैव पावकं शरणं ययुः ॥१३-२-२६॥
तान्दर्शयामास तदा भगवान्हव्यवाहनः। स्वं रूपं दीप्तिमत्कृत्वा शरदर्कसमद्युतिः ॥१३-२-२७॥
ततो महात्मा तानाह दहनो ब्राह्मणर्षभान्। वरयाम्यात्मनोऽर्थाय दुर्योधनसुतामिति ॥१३-२-२८॥
ततस्ते काल्यमुत्थाय तस्मै राज्ञे न्यवेदयन्। ब्राह्मणा विस्मिताः सर्वे यदुक्तं चित्रभानुना ॥१३-२-२९॥
ततः स राजा तच्छ्रुत्वा वचनं ब्रह्मवादिनाम्। अवाप्य परमं हर्षं तथेति प्राह बुद्धिमान् ॥१३-२-३०॥
प्रायाचत नृपः शुल्कं भगवन्तं विभावसुम्। नित्यं सांनिध्यमिह ते चित्रभानो भवेदिति ॥ तमाह भगवानग्निरेवमस्त्विति पार्थिवम् ॥१३-२-३१॥
ततः सांनिध्यमध्यापि माहिष्मत्यां विभावसोः। दृष्टं हि सहदेवेन दिशो विजयता तदा ॥१३-२-३२॥
ततस्तां समलङ्कृत्य कन्यामहतवाससम्। ददौ दुर्योधनो राजा पावकाय महात्मने ॥१३-२-३३॥
प्रतिजग्राह चाग्निस्तां राजपुत्रीं सुदर्शनाम्। विधिना वेददृष्टेन वसोर्धारामिवाध्वरे ॥१३-२-३४॥
तस्या रूपेण शीलेन कुलेन वपुषा श्रिया। अभवत्प्रीतिमानग्निर्गर्भं तस्यां समादधे ॥१३-२-३५॥
तस्यां समभवत्पुत्रो नाम्नाग्नेयः सुदर्शनः। शिशुरेवाध्यगात्सर्वं स च ब्रह्म सनातनम् ॥१३-२-३६॥
अथौघवान्नाम नृपो नृगस्यासीत्पितामहः। तस्याप्योघवती कन्या पुत्रश्चौघरथोऽभवत् ॥१३-२-३७॥
तामोघवान्ददौ तस्मै स्वयमोघवतीं सुताम्। सुदर्शनाय विदुषे भार्यार्थे देवरूपिणीम् ॥१३-२-३८॥
स गृहस्थाश्रमरतस्तया सह सुदर्शनः। कुरुक्षेत्रेऽवसद्राजन्नोघवत्या समन्वितः ॥१३-२-३९॥
गृहस्थश्चावजेष्यामि मृत्युमित्येव स प्रभो। प्रतिज्ञामकरोद्धीमान्दीप्ततेजा विशां पते ॥१३-२-४०॥
तामथौघवतीं राजन्स पावकसुतोऽब्रवीत्। अतिथेः प्रतिकूलं ते न कर्तव्यं कथञ्चन ॥१३-२-४१॥
येन येन च तुष्येत नित्यमेव त्वयातिथिः। अप्यात्मनः प्रदानेन न ते कार्या विचारणा ॥१३-२-४२॥
एतद्व्रतं मम सदा हृदि सम्परिवर्तते। गृहस्थानां हि सुश्रोणि नातिथेर्विद्यते परम् ॥१३-२-४३॥
प्रमाणं यदि वामोरु वचस्ते मम शोभने। इदं वचनमव्यग्रा हृदि त्वं धारयेः सदा ॥१३-२-४४॥
निष्क्रान्ते मयि कल्याणि तथा संनिहितेऽनघे। नातिथिस्तेऽवमन्तव्यः प्रमाणं यद्यहं तव ॥१३-२-४५॥
तमब्रवीदोघवती यता मूर्ध्नि कृताञ्जलिः। न मे त्वद्वचनात्किञ्चिदकर्तव्यं कथञ्चन ॥१३-२-४६॥
जिगीषमाणं तु गृहे तदा मृत्युः सुदर्शनम्। पृष्ठतोऽन्वगमद्राजन्रन्ध्रान्वेषी तदा सदा ॥१३-२-४७॥
इध्मार्थं तु गते तस्मिन्नग्निपुत्रे सुदर्शने। अतिथिर्ब्राह्मणः श्रीमांस्तामाहौघवतीं तदा ॥१३-२-४८॥
आतिथ्यं दत्तमिच्छामि त्वयाद्य वरवर्णिनि। प्रमाणं यदि धर्मस्ते गृहस्थाश्रमसंमतः ॥१३-२-४९॥
इत्युक्ता तेन विप्रेण राजपुत्री यशस्विनी। विधिना प्रतिजग्राह वेदोक्तेन विशां पते ॥१३-२-५०॥
आसनं चैव पाद्यं च तस्मै दत्त्वा द्विजातये। प्रोवाचौघवती विप्रं केनार्थः किं ददामि ते ॥१३-२-५१॥
तामब्रवीत्ततो विप्रो राजपुत्रीं सुदर्शनाम्। त्वया ममार्थः कल्याणि निर्विशङ्के तदाचर ॥१३-२-५२॥
यदि प्रमाणं धर्मस्ते गृहस्थाश्रमसंमतः। प्रदानेनात्मनो राज्ञि कर्तुमर्हसि मे प्रियम् ॥१३-२-५३॥
तथा सञ्छन्द्यमानोऽन्यैरीप्सितैर्नृपकन्यया। नान्यमात्मप्रदानात्स तस्या वव्रे वरं द्विजः ॥१३-२-५४॥
सा तु राजसुता स्मृत्वा भर्तुर्वचनमादितः। तथेति लज्जमाना सा तमुवाच द्विजर्षभम् ॥१३-२-५५॥
ततो रहः स विप्रर्षिः सा चैवोपविवेश ह। संस्मृत्य भर्तुर्वचनं गृहस्थाश्रमकाङ्क्षिणः ॥१३-२-५६॥
अथेध्मान्समुपादाय स पावकिरुपागमत्। मृत्युना रौद्रभावेन नित्यं बन्धुरिवान्वितः ॥१३-२-५७॥
ततस्त्वाश्रममागम्य स पावकसुतस्तदा। तामाजुहावौघवतीं क्वासि यातेति चासकृत् ॥१३-२-५८॥
तस्मै प्रतिवचः सा तु भर्त्रे न प्रददौ तदा। कराभ्यां तेन विप्रेण स्पृष्टा भर्तृव्रता सती ॥१३-२-५९॥
उच्छिष्टास्मीति मन्वाना लज्जिता भर्तुरेव च। तूष्णीम्भूताभवत्साध्वी न चोवाचाथ किञ्चन ॥१३-२-६०॥
अथ तां पुनरेवेदं प्रोवाच स सुदर्शनः। क्व सा साध्वी क्व सा याता गरीयः किमतो मम ॥१३-२-६१॥
पतिव्रता सत्यशीला नित्यं चैवार्जवे रता। कथं न प्रत्युदेत्यद्य स्मयमाना यथा पुरा ॥१३-२-६२॥
उटजस्थस्तु तं विप्रः प्रत्युवाच सुदर्शनम्। अतिथिं विद्धि सम्प्राप्तं पावके ब्राह्मणं च माम् ॥१३-२-६३॥
अनया छन्द्यमानोऽहं भार्यया तव सत्तम। तैस्तैरतिथिसत्कारैरार्जवेऽस्या दृढं मनः ॥१३-२-६४॥
अनेन विधिना सेयं मामर्चति शुभानना। अनुरूपं यदत्राद्य तद्भवान्वक्तुमर्हति ॥१३-२-६५॥
कूटमुद्गरहस्तस्तु मृत्युस्तं वै समन्वयात्। हीनप्रतिज्ञमत्रैनं वधिष्यामीति चिन्तयन् ॥१३-२-६६॥
सुदर्शनस्तु मनसा कर्मणा चक्षुषा गिरा। त्यक्तेर्ष्यस्त्यक्तमन्युश्च स्मयमानोऽब्रवीदिदम् ॥१३-२-६७॥
सुरतं तेऽस्तु विप्राग्र्य प्रीतिर्हि परमा मम। गृहस्थस्य हि धर्मोऽग्र्यः सम्प्राप्तातिथिपूजनम् ॥१३-२-६८॥
अतिथिः पूजितो यस्य गृहस्थस्य तु गच्छति। नान्यस्तस्मात्परो धर्म इति प्राहुर्मनीषिणः ॥१३-२-६९॥
प्राणा हि मम दाराश्च यच्चान्यद्विद्यते वसु। अतिथिभ्यो मया देयमिति मे व्रतमाहितम् ॥१३-२-७०॥
निःसंदिग्धं मया वाक्यमेतत्ते समुदाहृतम्। तेनाहं विप्र सत्येन स्वयमात्मानमालभे ॥१३-२-७१॥
पृथिवी वायुराकाशमापो ज्योतिश्च पञ्चमम्। बुद्धिरात्मा मनः कालो दिशश्चैव गुणा दश ॥१३-२-७२॥
नित्यमेते हि पश्यन्ति देहिनां देहसंश्रिताः। सुकृतं दुष्कृतं चापि कर्म धर्मभृतां वर ॥१३-२-७३॥
यथैषा नानृता वाणी मयाद्य समुदाहृता। तेन सत्येन मां देवाः पालयन्तु दहन्तु वा ॥१३-२-७४॥
ततो नादः समभवद्दिक्षु सर्वासु भारत। असकृत्सत्यमित्येव नैतन्मिथ्येति सर्वशः ॥१३-२-७५॥
उटजात्तु ततस्तस्मान्निश्चक्राम स वै द्विजः। वपुषा खं च भूमिं च व्याप्य वायुरिवोद्यतः ॥१३-२-७६॥
स्वरेण विप्रः शैक्षेण त्रीँल्लोकाननुनादयन्। उवाच चैनं धर्मज्ञं पूर्वमामन्त्र्य नामतः ॥१३-२-७७॥
धर्मोऽहमस्मि भद्रं ते जिज्ञासार्थं तवानघ। प्राप्तः सत्यं च ते ज्ञात्वा प्रीतिर्मे परमा त्वयि ॥१३-२-७८॥
विजितश्च त्वया मृत्युर्योऽयं त्वामनुगच्छति। रन्ध्रान्वेषी तव सदा त्वया धृत्या वशीकृतः ॥१३-२-७९॥
न चास्ति शक्तिस्त्रैलोक्ये कस्यचित्पुरुषोत्तम। पतिव्रतामिमां साध्वीं तवोद्वीक्षितुमप्युत ॥१३-२-८०॥
रक्षिता त्वद्गुणैरेषा पतिव्रतगुणैस्तथा। अधृष्या यदियं ब्रूयात्तथा तन्नान्यथा भवेत् ॥१३-२-८१॥
एषा हि तपसा स्वेन संयुक्ता ब्रह्मवादिनी। पावनार्थं च लोकस्य सरिच्छ्रेष्ठा भविष्यति ॥१३-२-८२॥
अर्धेनौघवती नाम त्वामर्धेनानुयास्यति। शरीरेण महाभागा योगो ह्यस्या वशे स्थितः ॥१३-२-८३॥
अनया सह लोकांश्च गन्तासि तपसार्जितान्। यत्र नावृत्तिमभ्येति शाश्वतांस्तान्सनातनान् ॥१३-२-८४॥
अनेन चैव देहेन लोकांस्त्वमभिपत्स्यसे। निर्जितश्च त्वया मृत्युरैश्वर्यं च तवोत्तमम् ॥१३-२-८५॥
पञ्च भूतान्यतिक्रान्तः स्ववीर्याच्च मनोभवः। गृहस्थधर्मेणानेन कामक्रोधौ च ते जितौ ॥१३-२-८६॥
स्नेहो रागश्च तन्द्री च मोहो द्रोहश्च केवलः। तव शुश्रूषया राजन्राजपुत्र्या विनिर्जिताः ॥१३-२-८७॥
भीष्म उवाच॥
शुक्लानां तु सहस्रेण वाजिनां रथमुत्तमम्। युक्तं प्रगृह्य भगवान्व्यवसायो जगाम तम् ॥१३-२-८८॥
मृत्युरात्मा च लोकाश्च जिता भूतानि पञ्च च। बुद्धिः कालो मनो व्योम कामक्रोधौ तथैव च ॥१३-२-८९॥
तस्माद्गृहाश्रमस्थस्य नान्यद्दैवतमस्ति वै। ऋतेऽतिथिं नरव्याघ्र मनसैतद्विचारय ॥१३-२-९०॥
अतिथिः पूजितो यस्य ध्यायते मनसा शुभम्। न तत्क्रतुशतेनापि तुल्यमाहुर्मनीषिणः ॥१३-२-९१॥
पात्रं त्वतिथिमासाद्य शीलाढ्यं यो न पूजयेत्। स दत्त्वा सुकृतं तस्य क्षपयेत ह्यनर्चितः ॥१३-२-९२॥
एतत्ते कथितं पुत्र मयाख्यानमनुत्तमम्। यथा हि विजितो मृत्युर्गृहस्थेन पुराभवत् ॥१३-२-९३॥
धन्यं यशस्यमायुष्यमिदमाख्यानमुत्तमम्। बुभूषताभिमन्तव्यं सर्वदुश्चरितापहम् ॥१३-२-९४॥
य इदं कथयेद्विद्वानहन्यहनि भारत। सुदर्शनस्य चरितं पुण्याँल्लोकानवाप्नुयात् ॥१३-२-९५॥

...

ॐ असतो मा सद्गमय। तमसो मा ज्योतिर्गमय। मृत्योर्माऽमृतं गमय। ॐ शान्ति: शान्ति: शान्ति: ॥ - बृहदारण्यकोपनिषद् 1.3.28
"Ōm! Lead me from the unreal to the real, from darkness to light, and from death to immortality. Let there be peace, peace, and peace. Ōm!" - Brihadaranyaka Upanishad 1.3.28

Copyright © 2025, Incredible Wisdom.
All rights reserved.