Mahabharata - Anuśāsana Parva (महाभारत - अनुशासनपर्वम्)
13.003
विश्वामित्रोपाख्यानम्
युधिष्ठिर उवाच॥
ब्राह्मण्यं यदि दुष्प्रापं त्रिभिर्वर्णैर्नराधिप। कथं प्राप्तं महाराज क्षत्रियेण महात्मना ॥१३-३-१॥
विश्वामित्रेण धर्मात्मन्ब्राह्मणत्वं नरर्षभ। श्रोतुमिच्छामि तत्त्वेन तन्मे ब्रूहि पितामह ॥१३-३-२॥
तेन ह्यमितवीर्येण वसिष्ठस्य महात्मनः। हतं पुत्रशतं सद्यस्तपसा प्रपितामह ॥१३-३-३॥
यातुधानाश्च बहवो राक्षसास्तिग्मतेजसः। मन्युनाविष्टदेहेन सृष्टाः कालान्तकोपमाः ॥१३-३-४॥
महान्कुशिकवंशश्च ब्रह्मर्षिशतसङ्कुलः। स्थापितो नरलोकेऽस्मिन्विद्वान्ब्राह्मणसंस्तुतः ॥१३-३-५॥
ऋचीकस्यात्मजश्चैव शुनःशेपो महातपाः। विमोक्षितो महासत्रात्पशुतामभ्युपागतः ॥१३-३-६॥
हरिश्चन्द्रक्रतौ देवांस्तोषयित्वात्मतेजसा। पुत्रतामनुसम्प्राप्तो विश्वामित्रस्य धीमतः ॥१३-३-७॥
नाभिवादयते ज्येष्ठं देवरातं नराधिप। पुत्राः पञ्चशताश्चापि शप्ताः श्वपचतां गताः ॥१३-३-८॥
त्रिशङ्कुर्बन्धुसन्त्यक्त इक्ष्वाकुः प्रीतिपूर्वकम्। अवाक्षिरा दिवं नीतो दक्षिणामाश्रितो दिशम् ॥१३-३-९॥
विश्वामित्रस्य विपुला नदी राजर्षिसेविता। कौशिकीति शिवा पुण्या ब्रह्मर्षिगणसेविता ॥१३-३-१०॥
तपोविघ्नकरी चैव पञ्चचूडा सुसंमता। रम्भा नामाप्सराः शापाद्यस्य शैलत्वमागता ॥१३-३-११॥
तथैवास्य भयाद्बद्ध्वा वसिष्ठः सलिले पुरा। आत्मानं मज्जयामास विपाशः पुनरुत्थितः ॥१३-३-१२॥
तदाप्रभृति पुण्या हि विपाशाभून्महानदी। विख्याता कर्मणा तेन वसिष्ठस्य महात्मनः ॥१३-३-१३॥
वाग्भिश्च भगवान्येन देवसेनाग्रगः प्रभुः। स्तुतः प्रीतमनाश्चासीच्छापाच्चैनममोचयत् ॥१३-३-१४॥
ध्रुवस्यौत्तानपादस्य ब्रह्मर्षीणां तथैव च। मध्ये ज्वलति यो नित्यमुदीचीमाश्रितो दिशम् ॥१३-३-१५॥
तस्यैतानि च कर्माणि तथान्यानि च कौरव। क्षत्रियस्येत्यतो जातमिदं कौतूहलं मम ॥१३-३-१६॥
किमेतदिति तत्त्वेन प्रब्रूहि भरतर्षभ। देहान्तरमनासाद्य कथं स ब्राह्मणोऽभवत् ॥१३-३-१७॥
एतत्तत्त्वेन मे राजन्सर्वमाख्यातुमर्हसि। मतङ्गस्य यथातत्त्वं तथैवैतद्ब्रवीहि मे ॥१३-३-१८॥
स्थाने मतङ्गो ब्राह्मण्यं नालभद्भरतर्षभ। चण्डालयोनौ जातो हि कथं ब्राह्मण्यमाप्नुयात् ॥१३-३-१९॥

...

ॐ असतो मा सद्गमय। तमसो मा ज्योतिर्गमय। मृत्योर्माऽमृतं गमय। ॐ शान्ति: शान्ति: शान्ति: ॥ - बृहदारण्यकोपनिषद् 1.3.28
"Ōm! Lead me from the unreal to the real, from darkness to light, and from death to immortality. Let there be peace, peace, and peace. Ōm!" - Brihadaranyaka Upanishad 1.3.28

Copyright © 2025, Incredible Wisdom.
All rights reserved.