13.004
भीष्म उवाच॥
श्रूयतां पार्थ तत्त्वेन विश्वामित्रो यथा पुरा। ब्राह्मणत्वं गतस्तात ब्रह्मर्षित्वं तथैव च ॥१३-४-१॥
भरतस्यान्वये चैवाजमीढो नाम पार्थिवः। बभूव भरतश्रेष्ठ यज्वा धर्मभृतां वरः ॥१३-४-२॥
तस्य पुत्रो महानासीज्जह्नुर्नाम नरेश्वरः। दुहितृत्वमनुप्राप्ता गङ्गा यस्य महात्मनः ॥१३-४-३॥
तस्यात्मजस्तुल्यगुणः सिन्धुद्वीपो महायशाः। सिन्धुद्वीपाच्च राजर्षिर्बलाकाश्वो महाबलः ॥१३-४-४॥
वल्लभस्तस्य तनयः साक्षाद्धर्म इवापरः। कुशिकस्तस्य तनयः सहस्राक्षसमद्युतिः ॥१३-४-५॥
कुशिकस्यात्मजः श्रीमान्गाधिर्नाम जनेश्वरः। अपुत्रः स महाबाहुर्वनवासमुदावसत् ॥१३-४-६॥
कन्या जज्ञे सुता तस्य वने निवसतः सतः। नाम्ना सत्यवती नाम रूपेणाप्रतिमा भुवि ॥१३-४-७॥
तां वव्रे भार्गवः श्रीमांश्च्यवनस्यात्मजः प्रभुः। ऋचीक इति विख्यातो विपुले तपसि स्थितः ॥१३-४-८॥
स तां न प्रददौ तस्मै ऋचीकाय महात्मने। दरिद्र इति मत्वा वै गाधिः शत्रुनिबर्हणः ॥१३-४-९॥
प्रत्याख्याय पुनर्यान्तमब्रवीद्राजसत्तमः। शुल्कं प्रदीयतां मह्यं ततो वेत्स्यसि मे सुताम् ॥१३-४-१०॥
ऋचीक उवाच॥
किं प्रयच्छामि राजेन्द्र तुभ्यं शुल्कमहं नृप। दुहितुर्ब्रूह्यसंसक्तो मात्राभूत्ते विचारणा ॥१३-४-११॥
गाधिरुवाच॥
चन्द्ररश्मिप्रकाशानां हयानां वातरंहसाम्। एकतः श्यामकर्णानां सहस्रं देहि भार्गव ॥१३-४-१२॥
भीष्म उवाच॥
ततः स भृगुशार्दूलश्च्यवनस्यात्मजः प्रभुः। अब्रवीद्वरुणं देवमादित्यं पतिमम्भसाम् ॥१३-४-१३॥
एकतः श्यामकर्णानां हयानां चन्द्रवर्चसाम्। सहस्रं वातवेगानां भिक्षे त्वां देवसत्तम ॥१३-४-१४॥
तथेति वरुणो देव आदित्यो भृगुसत्तमम्। उवाच यत्र ते छन्दस्तत्रोत्थास्यन्ति वाजिनः ॥१३-४-१५॥
ध्यातमात्रे ऋचीकेन हयानां चन्द्रवर्चसाम्। गङ्गाजलात्समुत्तस्थौ सहस्रं विपुलौजसाम् ॥१३-४-१६॥
अदूरे कन्यकुब्जस्य गङ्गायास्तीरमुत्तमम्। अश्वतीर्थं तदद्यापि मानवाः परिचक्षते ॥१३-४-१७॥
तत्तदा गाधये तात सहस्रं वाजिनां शुभम्। ऋचीकः प्रददौ प्रीतः शुल्कार्थं जपतां वरः ॥१३-४-१८॥
ततः स विस्मितो राजा गाधिः शापभयेन च। ददौ तां समलङ्कृत्य कन्यां भृगुसुताय वै ॥१३-४-१९॥
जग्राह पाणिं विधिना तस्य ब्रह्मर्षिसत्तमः। सा च तं पतिमासाद्य परं हर्षमवाप ह ॥१३-४-२०॥
स तुतोष च विप्रर्षिस्तस्या वृत्तेन भारत। छन्दयामास चैवैनां वरेण वरवर्णिनीम् ॥१३-४-२१॥
मात्रे तत्सर्वमाचख्यौ सा कन्या राजसत्तमम्। अथ तामब्रवीन्माता सुतां किञ्चिदवाङ्मुखीम् ॥१३-४-२२॥
ममापि पुत्रि भर्ता ते प्रसादं कर्तुमर्हति। अपत्यस्य प्रदानेन समर्थः स महातपाः ॥१३-४-२३॥
ततः सा त्वरितं गत्वा तत्सर्वं प्रत्यवेदयत्। मातुश्चिकीर्षितं राजन्नृचीकस्तामथाब्रवीत् ॥१३-४-२४॥
गुणवन्तमपत्यं वै त्वं च सा जनयिष्यथः। जनन्यास्तव कल्याणि मा भूद्वै प्रणयोऽन्यथा ॥१३-४-२५॥
तव चैव गुणश्लाघी पुत्र उत्पत्स्यते शुभे। अस्मद्वंशकरः श्रीमांस्तव भ्राता च वंशकृत् ॥१३-४-२६॥
ऋतुस्नाता च साश्वत्थं त्वं च वृक्षमुदुम्बरम्। परिष्वजेथाः कल्याणि तत इष्टमवाप्स्यथः ॥१३-४-२७॥
चरुद्वयमिदं चैव मन्त्रपूतं शुचिस्मिते। त्वं च सा चोपयुञ्जीथां ततः पुत्राववाप्स्यथः ॥१३-४-२८॥
ततः सत्यवती हृष्टा मातरं प्रत्यभाषत। यदृचीकेन कथितं तच्चाचख्यौ चरुद्वयम् ॥१३-४-२९॥
तामुवाच ततो माता सुतां सत्यवतीं तदा। पुत्रि मूर्ध्ना प्रपन्नायाः कुरुष्व वचनं मम ॥१३-४-३०॥
भर्त्रा य एष दत्तस्ते चरुर्मन्त्रपुरस्कृतः। एतं प्रयच्छ मह्यं त्वं मदीयं त्वं गृहाण च ॥१३-४-३१॥
व्यत्यासं वृक्षयोश्चापि करवाव शुचिस्मिते। यदि प्रमाणं वचनं मम मातुरनिन्दिते ॥१३-४-३२॥
व्यक्तं भगवता चात्र कृतमेवं भविष्यति। ततो मे त्वच्चरौ भावः पादपे च सुमध्यमे ॥ कथं विशिष्टो भ्राता ते भवेदित्येव चिन्तय ॥१३-४-३३॥
तथा च कृतवत्यौ ते माता सत्यवती च सा। अथ गर्भावनुप्राप्ते उभे ते वै युधिष्ठिर ॥१३-४-३४॥
दृष्ट्वा गर्भमनुप्राप्तां भार्यां स च महानृषिः। उवाच तां सत्यवतीं दुर्मना भृगुसत्तमः ॥१३-४-३५॥
व्यत्यासेनोपयुक्तस्ते चरुर्व्यक्तं भविष्यति। व्यत्यासः पादपे चापि सुव्यक्तं ते कृतः शुभे ॥१३-४-३६॥
मया हि विश्वं यद्ब्रह्म त्वच्चरौ संनिवेशितम्। क्षत्रवीर्यं च सकलं चरौ तस्या निवेशितम् ॥१३-४-३७॥
त्रिलोकविख्यातगुणं त्वं विप्रं जनयिष्यसि। सा च क्षत्रं विशिष्टं वै तत एतत्कृतं मया ॥१३-४-३८॥
व्यत्यासस्तु कृतो यस्मात्त्वया मात्रा तथैव च। तस्मात्सा ब्राह्मणश्रेष्ठं माता ते जनयिष्यति ॥१३-४-३९॥
क्षत्रियं तूग्रकर्माणं त्वं भद्रे जनयिष्यसि। न हि ते तत्कृतं साधु मातृस्नेहेन भामिनि ॥१३-४-४०॥
सा श्रुत्वा शोकसन्तप्ता पपात वरवर्णिनी। भूमौ सत्यवती राजंश्छिन्नेव रुचिरा लता ॥१३-४-४१॥
प्रतिलभ्य च सा सञ्ज्ञां शिरसा प्रणिपत्य च। उवाच भार्या भर्तारं गाधेयी ब्राह्मणर्षभम् ॥१३-४-४२॥
प्रसादयन्त्यां भार्यायां मयि ब्रह्मविदां वर। प्रसादं कुरु विप्रर्षे न मे स्यात्क्षत्रियः सुतः ॥१३-४-४३॥
कामं ममोग्रकर्मा वै पौत्रो भवितुमर्हति। न तु मे स्यात्सुतो ब्रह्मन्नेष मे दीयतां वरः ॥१३-४-४४॥
एवमस्त्विति होवाच स्वां भार्यां सुमहातपाः। ततः सा जनयामास जमदग्निं सुतं शुभम् ॥१३-४-४५॥
विश्वामित्रं चाजनयद्गाधेर्भार्या यशस्विनी। ऋषेः प्रभावाद्राजेन्द्र ब्रह्मर्षिं ब्रह्मवादिनम् ॥१३-४-४६॥
ततो ब्राह्मणतां यातो विश्वामित्रो महातपाः। क्षत्रियः सोऽप्यथ तथा ब्रह्मवंशस्य कारकः ॥१३-४-४७॥
तस्य पुत्रा महात्मानो ब्रह्मवंशविवर्धनाः। तपस्विनो ब्रह्मविदो गोत्रकर्तार एव च ॥१३-४-४८॥
मधुच्छन्दश्च भगवान्देवरातश्च वीर्यवान्। अक्षीणश्च शकुन्तश्च बभ्रुः कालपथस्तथा ॥१३-४-४९॥
याज्ञवल्क्यश्च विख्यातस्तथा स्थूणो महाव्रतः। उलूको यमदूतश्च तथर्षिः सैन्धवायनः ॥१३-४-५०॥
कर्णजङ्घश्च भगवान्गालवश्च महानृषिः। ऋषिर्वज्रस्तथाख्यातः शालङ्कायन एव च ॥१३-४-५१॥
लालाट्यो नारदश्चैव तथा कूर्चमुखः स्मृतः। वादुलिर्मुसलश्चैव रक्षोग्रीवस्तथैव च ॥१३-४-५२॥
अङ्घ्रिको नैकभृच्चैव शिलायूपः सितः शुचिः। चक्रको मारुतन्तव्यो वातघ्नोऽथाश्वलायनः ॥१३-४-५३॥
श्यामायनोऽथ गार्ग्यश्च जाबालिः सुश्रुतस्तथा। कारीषिरथ संश्रुत्यः परपौरवतन्तवः ॥१३-४-५४॥
महानृषिश्च कपिलस्तथर्षिस्तारकायनः। तथैव चोपगहनस्तथर्षिश्चार्जुनायनः ॥१३-४-५५॥
मार्गमित्रिर्हिरण्याक्षो जङ्घारिर्बभ्रुवाहनः। सूतिर्विभूतिः सूतश्च सुरङ्गश्च तथैव हि ॥१३-४-५६॥
आराद्धिर्नामयश्चैव चाम्पेयोज्जयनौ तथा। नवतन्तुर्बकनखः शयोनरतिरेव च ॥१३-४-५७॥
शयोरुहश्चारुमत्स्यः शिरीषी चाथ गार्दभिः। उज्जयोनिरदापेक्षी नारदी च महानृषिः ॥ विश्वामित्रात्मजाः सर्वे मुनयो ब्रह्मवादिनः ॥१३-४-५८॥
तन्नैष क्षत्रियो राजन्विश्वामित्रो महातपाः। ऋचीकेनाहितं ब्रह्म परमेतद्युधिष्ठिर ॥१३-४-५९॥
एतत्ते सर्वमाख्यातं तत्त्वेन भरतर्षभ। विश्वामित्रस्य वै जन्म सोमसूर्याग्नितेजसः ॥१३-४-६०॥
यत्र यत्र च संदेहो भूयस्ते राजसत्तम। तत्र तत्र च मां ब्रूहि च्छेत्तास्मि तव संशयान् ॥१३-४-६१॥