Mahabharata - Anuśāsana Parva (महाभारत - अनुशासनपर्वम्)
13.005
शुक्रवासवसंवादः
युधिष्ठिर उवाच॥
आनृशंसस्य धर्मस्य गुणान्भक्तजनस्य च। श्रोतुमिच्छामि कार्त्स्न्येन तन्मे ब्रूहि पितामह ॥१३-५-१॥
भीष्म उवाच॥
विषये काशिराजस्य ग्रामान्निष्क्रम्य लुब्धकः। सविषं काण्डमादाय मृगयामास वै मृगम् ॥१३-५-२॥
तत्र चामिषलुब्धेन लुब्धकेन महावने। अविदूरे मृगं दृष्ट्वा बाणः प्रतिसमाहितः ॥१३-५-३॥
तेन दुर्वारितास्त्रेण निमित्तचपलेषुणा। महान्वनतरुर्विद्धो मृगं तत्र जिघांसता ॥१३-५-४॥
स तीक्ष्णविषदिग्धेन शरेणातिबलात्कृतः। उत्सृज्य फलपत्राणि पादपः शोषमागतः ॥१३-५-५॥
तस्मिन्वृक्षे तथाभूते कोटरेषु चिरोषितः। न जहाति शुको वासं तस्य भक्त्या वनस्पतेः ॥१३-५-६॥
निष्प्रचारो निराहारो ग्लानः शिथिलवागपि। कृतज्ञः सह वृक्षेण धर्मात्मा स व्यशुष्यत ॥१३-५-७॥
तमुदारं महासत्त्वमतिमानुषचेष्टितम्। समदुःखसुखं ज्ञात्वा विस्मितः पाकशासनः ॥१३-५-८॥
ततश्चिन्तामुपगतः शक्रः कथमयं द्विजः। तिर्यग्योनावसम्भाव्यमानृशंस्यं समास्थितः ॥१३-५-९॥
अथ वा नात्र चित्रं हीत्यभवद्वासवस्य तु। प्राणिनामिह सर्वेषां सर्वं सर्वत्र दृश्यते ॥१३-५-१०॥
ततो ब्राह्मणवेषेण मानुषं रूपमास्थितः। अवतीर्य महीं शक्रस्तं पक्षिणमुवाच ह ॥१३-५-११॥
शुक भोः पक्षिणां श्रेष्ठ दाक्षेयी सुप्रजास्त्वया। पृच्छे त्वा शुष्कमेतं वै कस्मान्न त्यजसि द्रुमम् ॥१३-५-१२॥
अथ पृष्टः शुकः प्राह मूर्ध्ना समभिवाद्य तम्। स्वागतं देवराजाय विज्ञातस्तपसा मया ॥१३-५-१३॥
ततो दशशताक्षेण साधु साध्विति भाषितम्। अहो विज्ञानमित्येवं तपसा पूजितस्ततः ॥१३-५-१४॥
तमेवं शुभकर्माणं शुकं परमधार्मिकम्। विजानन्नपि तां प्राप्तिं पप्रच्छ बलसूदनः ॥१३-५-१५॥
निष्पत्रमफलं शुष्कमशरण्यं पतत्रिणाम्। किमर्थं सेवसे वृक्षं यदा महदिदं वनम् ॥१३-५-१६॥
अन्येऽपि बहवो वृक्षाः पत्रसञ्छन्नकोटराः। शुभाः पर्याप्तसञ्चारा विद्यन्तेऽस्मिन्महावने ॥१३-५-१७॥
गतायुषमसामर्थ्यं क्षीणसारं हतश्रियम्। विमृश्य प्रज्ञया धीर जहीमं ह्यस्थिरं द्रुमम् ॥१३-५-१८॥
तदुपश्रुत्य धर्मात्मा शुकः शक्रेण भाषितम्। सुदीर्घमभिनिःश्वस्य दीनो वाक्यमुवाच ह ॥१३-५-१९॥
अनतिक्रमणीयानि दैवतानि शचीपते। यत्राभवस्तत्र भवस्तन्निबोध सुराधिप ॥१३-५-२०॥
अस्मिन्नहं द्रुमे जातः साधुभिश्च गुणैर्युतः। बालभावे च सङ्गुप्तः शत्रुभिश्च न धर्षितः ॥१३-५-२१॥
किमनुक्रोशवैफल्यमुत्पादयसि मेऽनघ। आनृशंस्येऽनुरक्तस्य भक्तस्यानुगतस्य च ॥१३-५-२२॥
अनुक्रोशो हि साधूनां सुमहद्धर्मलक्षणम्। अनुक्रोशश्च साधूनां सदा प्रीतिं प्रयच्छति ॥१३-५-२३॥
त्वमेव दैवतैः सर्वैः पृच्छ्यसे धर्मसंशयान्। अतस्त्वं देव देवानामाधिपत्ये प्रतिष्ठितः ॥१३-५-२४॥
नार्हसि त्वं सहस्राक्ष त्याजयित्वेह भक्तितः। समर्थमुपजीव्येमं त्यजेयं कथमद्य वै ॥१३-५-२५॥
तस्य वाक्येन सौम्येन हर्षितः पाकशासनः। शुकं प्रोवाच धर्मज्ञमानृशंस्येन तोषितः ॥१३-५-२६॥
वरं वृणीष्वेति तदा स च वव्रे वरं शुकः। आनृशंस्यपरो नित्यं तस्य वृक्षस्य सम्भवम् ॥१३-५-२७॥
विदित्वा च दृढां शक्रस्तां शुके शीलसम्पदम्। प्रीतः क्षिप्रमथो वृक्षममृतेनावसिक्तवान् ॥१३-५-२८॥
ततः फलानि पत्राणि शाखाश्चापि मनोरमाः। शुकस्य दृढभक्तित्वाच्छ्रीमत्त्वं चाप स द्रुमः ॥१३-५-२९॥
शुकश्च कर्मणा तेन आनृशंस्यकृतेन ह। आयुषोऽन्ते महाराज प्राप शक्रसलोकताम् ॥१३-५-३०॥
एवमेव मनुष्येन्द्र भक्तिमन्तं समाश्रितः। सर्वार्थसिद्धिं लभते शुकं प्राप्य यथा द्रुमः ॥१३-५-३१॥

...

ॐ असतो मा सद्गमय। तमसो मा ज्योतिर्गमय। मृत्योर्माऽमृतं गमय। ॐ शान्ति: शान्ति: शान्ति: ॥ - बृहदारण्यकोपनिषद् 1.3.28
"Ōm! Lead me from the unreal to the real, from darkness to light, and from death to immortality. Let there be peace, peace, and peace. Ōm!" - Brihadaranyaka Upanishad 1.3.28

Copyright © 2025, Incredible Wisdom.
All rights reserved.