13.006
दैवपुरुषकारबलाबलम्
युधिष्ठिर उवाच॥
पितामह महाप्राज्ञ सर्वशास्त्रविशारद। दैवे पुरुषकारे च किं स्विच्छ्रेष्ठतरं भवेत् ॥१३-६-१॥
भीष्म उवाच॥
अत्राप्युदाहरन्तीममितिहासं पुरातनम्। वसिष्ठस्य च संवादं ब्रह्मणश्च युधिष्ठिर ॥१३-६-२॥
दैवमानुषयोः किं स्वित्कर्मणोः श्रेष्ठमित्युत। पुरा वसिष्ठो भगवान्पितामहमपृच्छत ॥१३-६-३॥
ततः पद्मोद्भवो राजन्देवदेवः पितामहः। उवाच मधुरं वाक्यमर्थवद्धेतुभूषितम् ॥१३-६-४॥
नाबीजं जायते किञ्चिन्न बीजेन विना फलम्। बीजाद्बीजं प्रभवति बीजादेव फलं स्मृतम् ॥१३-६-५॥
यादृशं वपते बीजं क्षेत्रमासाद्य कर्षकः। सुकृते दुष्कृते वापि तादृशं लभते फलम् ॥१३-६-६॥
यथा बीजं विना क्षेत्रमुप्तं भवति निष्फलम्। तथा पुरुषकारेण विना दैवं न सिध्यति ॥१३-६-७॥
क्षेत्रं पुरुषकारस्तु दैवं बीजमुदाहृतम्। क्षेत्रबीजसमायोगात्ततः सस्यं समृध्यते ॥१३-६-८॥
कर्मणः फलनिर्वृत्तिं स्वयमश्नाति कारकः। प्रत्यक्षं दृश्यते लोके कृतस्याप्यकृतस्य च ॥१३-६-९॥
शुभेन कर्मणा सौख्यं दुःखं पापेन कर्मणा। कृतं सर्वत्र लभते नाकृतं भुज्यते क्वचित् ॥१३-६-१०॥
कृती सर्वत्र लभते प्रतिष्ठां भाग्यविक्षतः। अकृती लभते भ्रष्टः क्षते क्षारावसेचनम् ॥१३-६-११॥
तपसा रूपसौभाग्यं रत्नानि विविधानि च। प्राप्यते कर्मणा सर्वं न दैवादकृतात्मना ॥१३-६-१२॥
तथा स्वर्गश्च भोगश्च निष्ठा या च मनीषिता। सर्वं पुरुषकारेण कृतेनेहोपपद्यते ॥१३-६-१३॥
ज्योतींषि त्रिदशा नागा यक्षाश्चन्द्रार्कमारुताः। सर्वे पुरुषकारेण मानुष्याद्देवतां गताः ॥१३-६-१४॥
अर्थो वा मित्रवर्गो वा ऐश्वर्यं वा कुलान्वितम्। श्रीश्चापि दुर्लभा भोक्तुं तथैवाकृतकर्मभिः ॥१३-६-१५॥
शौचेन लभते विप्रः क्षत्रियो विक्रमेण च। वैश्यः पुरुषकारेण शूद्रः शुश्रूषया श्रियम् ॥१३-६-१६॥
नादातारं भजन्त्यर्था न क्लीबं नापि निष्क्रियम्। नाकर्मशीलं नाशूरं तथा नैवातपस्विनम् ॥१३-६-१७॥
येन लोकास्त्रयः सृष्टा दैत्याः सर्वाश्च देवताः। स एष भगवान्विष्णुः समुद्रे तप्यते तपः ॥१३-६-१८॥
स्वं चेत्कर्मफलं न स्यात्सर्वमेवाफलं भवेत्। लोको दैवं समालम्ब्य उदासीनो भवेन्न तु ॥१३-६-१९॥
अकृत्वा मानुषं कर्म यो दैवमनुवर्तते। वृथा श्राम्यति सम्प्राप्य पतिं क्लीबमिवाङ्गना ॥१३-६-२०॥
न तथा मानुषे लोके भयमस्ति शुभाशुभे। यथा त्रिदशलोके हि भयमल्पेन जायते ॥१३-६-२१॥
कृतः पुरुषकारस्तु दैवमेवानुवर्तते। न दैवमकृते किञ्चित्कस्यचिद्दातुमर्हति ॥१३-६-२२॥
यदा स्थानान्यनित्यानि दृश्यन्ते दैवतेष्वपि। कथं कर्म विना दैवं स्थास्यते स्थापयिष्यति ॥१३-६-२३॥
न दैवतानि लोकेऽस्मिन्व्यापारं यान्ति कस्यचित्। व्यासङ्गं जनयन्त्युग्रमात्माभिभवशङ्कया ॥१३-६-२४॥
ऋषीणां देवतानां च सदा भवति विग्रहः। कस्य वाचा ह्यदैवं स्याद्यतो दैवं प्रवर्तते ॥१३-६-२५॥
कथं चास्य समुत्पत्तिर्यथा दैवं प्रवर्तते। एवं त्रिदशलोकेऽपि प्राप्यन्ते बहवश्छलाः ॥१३-६-२६॥
आत्मैव ह्यात्मनो बन्धुरात्मैव रिपुरात्मनः। आत्मैव चात्मनः साक्षी कृतस्याप्यकृतस्य च ॥१३-६-२७॥
कृतं च विकृतं किञ्चित्कृते कर्मणि सिध्यति। सुकृते दुष्कृतं कर्म न यथार्थं प्रपद्यते ॥१३-६-२८॥
देवानां शरणं पुण्यं सर्वं पुण्यैरवाप्यते। पुण्यशीलं नरं प्राप्य किं दैवं प्रकरिष्यति ॥१३-६-२९॥
पुरा ययातिर्विभ्रष्टश्च्यावितः पतितः क्षितौ। पुनरारोपितः स्वर्गं दौहित्रैः पुण्यकर्मभिः ॥१३-६-३०॥
पुरूरवाश्च राजर्षिर्द्विजैरभिहितः पुरा। ऐल इत्यभिविख्यातः स्वर्गं प्राप्तो महीपतिः ॥१३-६-३१॥
अश्वमेधादिभिर्यज्ञैः सत्कृतः कोसलाधिपः। महर्षिशापात्सौदासः पुरुषादत्वमागतः ॥१३-६-३२॥
अश्वत्थामा च रामश्च मुनिपुत्रौ धनुर्धरौ। न गच्छतः स्वर्गलोकं सुकृतेनेह कर्मणा ॥१३-६-३३॥
वसुर्यज्ञशतैरिष्ट्वा द्वितीय इव वासवः। मिथ्याभिधानेनैकेन रसातलतलं गतः ॥१३-६-३४॥
बलिर्वैरोचनिर्बद्धो धर्मपाशेन दैवतैः। विष्णोः पुरुषकारेण पातालशयनः कृतः ॥१३-६-३५॥
शक्रस्योदस्य चरणं प्रस्थितो जनमेजयः। द्विजस्त्रीणां वधं कृत्वा किं दैवेन न वारितः ॥१३-६-३६॥
अज्ञानाद्ब्राह्मणं हत्वा स्पृष्टो बालवधेन च। वैशम्पायनविप्रर्षिः किं दैवेन निवारितः ॥१३-६-३७॥
गोप्रदानेन मिथ्या च ब्राह्मणेभ्यो महामखे। पुरा नृगश्च राजर्षिः कृकलासत्वमागतः ॥१३-६-३८॥
धुन्धुमारश्च राजर्षिः सत्रेष्वेव जरां गतः। प्रीतिदायं परित्यज्य सुष्वाप स गिरिव्रजे ॥१३-६-३९॥
पाण्डवानां हृतं राज्यं धार्तराष्ट्रैर्महाबलैः। पुनः प्रत्याहृतं चैव न दैवाद्भुजसंश्रयात् ॥१३-६-४०॥
तपोनियमसंयुक्ता मुनयः संशितव्रताः। किं ते दैवबलाच्छापमुत्सृजन्ते न कर्मणा ॥१३-६-४१॥
पापमुत्सृजते लोके सर्वं प्राप्य सुदुर्लभम्। लोभमोहसमापन्नं न दैवं त्रायते नरम् ॥१३-६-४२॥
यथाग्निः पवनोद्धूतः सूक्ष्मोऽपि भवते महान्। तथा कर्मसमायुक्तं दैवं साधु विवर्धते ॥१३-६-४३॥
यथा तैलक्षयाद्दीपः प्रम्लानिमुपगच्छति। तथा कर्मक्षयाद्दैवं प्रम्लानिमुपगच्छति ॥१३-६-४४॥
विपुलमपि धनौघं प्राप्य भोगान्स्त्रियो वा; पुरुष इह न शक्तः कर्महीनोऽपि भोक्तुम्। सुनिहितमपि चार्थं दैवतै रक्ष्यमाणं; व्ययगुणमपि साधुं कर्मणा संश्रयन्ते ॥१३-६-४५॥
भवति मनुजलोकाद्देवलोको विशिष्टो; बहुतरसुसमृद्ध्या मानुषाणां गृहाणि। पितृवनभवनाभं दृश्यते चामराणां; न च फलति विकर्मा जीवलोकेन दैवम् ॥१३-६-४६॥
व्यपनयति विमार्गं नास्ति दैवे प्रभुत्वं; गुरुमिव कृतमग्र्यं कर्म संयाति दैवम्। अनुपहतमदीनं कामकारेण दैवं; नयति पुरुषकारः सञ्चितस्तत्र तत्र ॥१३-६-४७॥
एतत्ते सर्वमाख्यातं मया वै मुनिसत्तम। फलं पुरुषकारस्य सदा संदृश्य तत्त्वतः ॥१३-६-४८॥
अभ्युत्थानेन दैवस्य समारब्धेन कर्मणा। विधिना कर्मणा चैव स्वर्गमार्गमवाप्नुयात् ॥१३-६-४९॥