13.007
कर्मफलवर्णनम्
युधिष्ठिर उवाच॥
कर्मणां मे समस्तानां शुभानां भरतर्षभ। फलानि महतां श्रेष्ठ प्रब्रूहि परिपृच्छतः ॥१३-७-१॥
भीष्म उवाच॥
रहस्यं यदृषीणां तु तच्छृणुष्व युधिष्ठिर। या गतिः प्राप्यते येन प्रेत्यभावे चिरेप्सिता ॥१३-७-२॥
येन येन शरीरेण यद्यत्कर्म करोति यः। तेन तेन शरीरेण तत्तत्फलमुपाश्नुते ॥१३-७-३॥
यस्यां यस्यामवस्थायां यत्करोति शुभाशुभम्। तस्यां तस्यामवस्थायां भुङ्क्ते जन्मनि जन्मनि ॥१३-७-४॥
न नश्यति कृतं कर्म सदा पञ्चेन्द्रियैरिह। ते ह्यस्य साक्षिणो नित्यं षष्ठ आत्मा तथैव च ॥१३-७-५॥
चक्षुर्दद्यान्मनो दद्याद्वाचं दद्याच्च सूनृताम्। अनुव्रजेदुपासीत स यज्ञः पञ्चदक्षिणः ॥१३-७-६॥
यो दद्यादपरिक्लिष्टमन्नमध्वनि वर्तते। श्रान्तायादृष्टपूर्वाय तस्य पुण्यफलं महत् ॥१३-७-७॥
स्थण्डिले शयमानानां गृहाणि शयनानि च। चीरवल्कलसंवीते वासांस्याभरणानि च ॥१३-७-८॥
वाहनासनयानानि योगात्मनि तपोधने। अग्नीनुपशयानस्य राजपौरुषमुच्यते ॥१३-७-९॥
रसानां प्रतिसंहारे सौभाग्यमनुगच्छति। आमिषप्रतिसंहारे पशून्पुत्रांश्च विन्दति ॥१३-७-१०॥
अवाक्षिरास्तु यो लम्बेदुदवासं च यो वसेत्। सततं चैकशायी यः स लभेतेप्सितां गतिम् ॥१३-७-११॥
पाद्यमासनमेवाथ दीपमन्नं प्रतिश्रयम्। दद्यादतिथिपूजार्थं स यज्ञः पञ्चदक्षिणः ॥१३-७-१२॥
वीरासनं वीरशय्यां वीरस्थानमुपासतः। अक्षयास्तस्य वै लोकाः सर्वकामगमास्तथा ॥१३-७-१३॥
धनं लभेत दानेन मौनेनाज्ञां विशां पते। उपभोगांश्च तपसा ब्रह्मचर्येण जीवितम् ॥१३-७-१४॥
रूपमैश्वर्यमारोग्यमहिंसाफलमश्नुते। फलमूलाशिनां राज्यं स्वर्गः पर्णाशिनां तथा ॥१३-७-१५॥
प्रायोपवेशनाद्राज्यं सर्वत्र सुखमुच्यते। स्वर्गं सत्येन लभते दीक्षया कुलमुत्तमम् ॥१३-७-१६॥
गवाढ्यः शाकदीक्षायां स्वर्गगामी तृणाशनः। स्त्रियस्त्रिषवणं स्नात्वा वायुं पीत्वा क्रतुं लभेत् ॥१३-७-१७॥
सलिलाशी भवेद्यश्च सदाग्निः संस्कृतो द्विजः। मरुं साधयतो राज्यं नाकपृष्ठमनाशके ॥१३-७-१८॥
उपवासं च दीक्षां च अभिषेकं च पार्थिव। कृत्वा द्वादशवर्षाणि वीरस्थानाद्विशिष्यते ॥१३-७-१९॥
अधीत्य सर्ववेदान्वै सद्यो दुःखात्प्रमुच्यते। मानसं हि चरन्धर्मं स्वर्गलोकमवाप्नुयात् ॥१३-७-२०॥
या दुस्त्यजा दुर्मतिभिर्या न जीर्यति जीर्यतः। योऽसौ प्राणान्तिको रोगस्तां तृष्णां त्यजतः सुखम् ॥१३-७-२१॥
यथा धेनुसहस्रेषु वत्सो विन्दति मातरम्। एवं पूर्वकृतं कर्म कर्तारमनुगच्छति ॥१३-७-२२॥
अचोद्यमानानि यथा पुष्पाणि च फलानि च। स्वकालं नातिवर्तन्ते तथा कर्म पुराकृतम् ॥१३-७-२३॥
जीर्यन्ति जीर्यतः केशा दन्ता जीर्यन्ति जीर्यतः। चक्षुःश्रोत्रे च जीर्येते तृष्णैका तु न जीर्यते ॥१३-७-२४॥
येन प्रीणाति पितरं तेन प्रीतः प्रजापतिः। प्रीणाति मातरं येन पृथिवी तेन पूजिता ॥ येन प्रीणात्युपाध्यायं तेन स्याद्ब्रह्म पूजितम् ॥१३-७-२५॥
सर्वे तस्यादृता धर्मा यस्यैते त्रय आदृताः। अनादृतास्तु यस्यैते सर्वास्तस्याफलाः क्रियाः ॥१३-७-२६॥
वैशम्पायन उवाच॥
भीष्मस्य तद्वचः श्रुत्वा विस्मिताः कुरुपुङ्गवाः। आसन्प्रहृष्टमनसः प्रीतिमन्तोऽभवंस्तदा ॥१३-७-२७॥
यन्मन्त्रे भवति वृथा प्रयुज्यमाने; यत्सोमे भवति वृथाभिषूयमाणे। यच्चाग्नौ भवति वृथाभिहूयमाने; तत्सर्वं भवति वृथाभिधीयमाने ॥१३-७-२८॥
इत्येतदृषिणा प्रोक्तमुक्तवानस्मि यद्विभो। शुभाशुभफलप्राप्तौ किमतः श्रोतुमिच्छसि ॥१३-७-२९॥