Mahabharata - Anuśāsana Parva (महाभारत - अनुशासनपर्वम्)
13.009
सृगालवानरसंवादः
युधिष्ठिर उवाच॥
ब्राह्मणानां तु ये लोके प्रतिश्रुत्य पितामह। न प्रयच्छन्ति मोहात्ते के भवन्ति महामते ॥१३-९-१॥
एतन्मे तत्त्वतो ब्रूहि धर्मं धर्मभृतां वर। प्रतिश्रुत्य दुरात्मानो न प्रयच्छन्ति ये नराः ॥१३-९-२॥
भीष्म उवाच॥
यो न दद्यात्प्रतिश्रुत्य स्वल्पं वा यदि वा बहु। आशास्तस्य हताः सर्वाः क्लीबस्येव प्रजाफलम् ॥१३-९-३॥
यां रात्रिं जायते पापो यां च रात्रिं विनश्यति। एतस्मिन्नन्तरे यद्यत्सुकृतं तस्य भारत ॥ यच्च तस्य हुतं किञ्चित्सर्वं तस्योपहन्यते ॥१३-९-४॥
अत्रैतद्वचनं प्राहुर्धर्मशास्त्रविदो जनाः। निशम्य भरतश्रेष्ठ बुद्ध्या परमयुक्तया ॥१३-९-५॥
अपि चोदाहरन्तीमं धर्मशास्त्रविदो जनाः। अश्वानां श्यामकर्णानां सहस्रेण स मुच्यते ॥१३-९-६॥
अत्रैवोदाहरन्तीममितिहासं पुरातनम्। सृगालस्य च संवादं वानरस्य च भारत ॥१३-९-७॥
तौ सखायौ पुरा ह्यास्तां मानुषत्वे परन्तप। अन्यां योनिं समापन्नौ सार्गालीं वानरीं तथा ॥१३-९-८॥
ततः परासून्खादन्तं सृगालं वानरोऽब्रवीत्। श्मशानमध्ये सम्प्रेक्ष्य पूर्वजातिमनुस्मरन् ॥१३-९-९॥
किं त्वया पापकं कर्म कृतं पूर्वं सुदारुणम्। यस्त्वं श्मशाने मृतकान्पूतिकानत्सि कुत्सितान् ॥१३-९-१०॥
एवमुक्तः प्रत्युवाच सृगालो वानरं तदा। ब्राह्मणस्य प्रतिश्रुत्य न मया तदुपाकृतम् ॥१३-९-११॥
तत्कृते पापिकां योनिमापन्नोऽस्मि प्लवङ्गम। तस्मादेवंविधं भक्ष्यं भक्षयामि बुभुक्षितः ॥१३-९-१२॥
इत्येतद्ब्रुवतो राजन्ब्राह्मणस्य मया श्रुतम्। कथां कथयतः पुण्यां धर्मज्ञस्य पुरातनीम् ॥१३-९-१३॥
श्रुतं चापि मया भूयः कृष्णस्यापि विशां पते। कथां कथयतः पूर्वं ब्राह्मणं प्रति पाण्डव ॥१३-९-१४॥
एवमेव च मां नित्यं ब्राह्मणाः संदिशन्ति वै। प्रतिश्रुत्य भवेद्देयं नाशा कार्या हि ब्राह्मणैः ॥१३-९-१५॥
ब्राह्मणो ह्याशया पूर्वं कृतया पृथिवीपते। सुसमिद्धो यथा दीप्तः पावकस्तद्विधः स्मृतः ॥१३-९-१६॥
यं निरीक्षेत सङ्क्रुद्ध आशया पूर्वजातया। प्रदहेत हि तं राजन्कक्षमक्षय्यभुग्यथा ॥१३-९-१७॥
स एव हि यदा तुष्टो वचसा प्रतिनन्दति। भवत्यगदसङ्काशो विषये तस्य भारत ॥१३-९-१८॥
पुत्रान्पौत्रान्पशूंश्चैव बान्धवान्सचिवांस्तथा। पुरं जनपदं चैव शान्तिरिष्टेव पुष्यति ॥१३-९-१९॥
एतद्धि परमं तेजो ब्राह्मणस्येह दृश्यते। सहस्रकिरणस्येव सवितुर्धरणीतले ॥१३-९-२०॥
तस्माद्दातव्यमेवेह प्रतिश्रुत्य युधिष्ठिर। यदीच्छेच्छोभनां जातिं प्राप्तुं भरतसत्तम ॥१३-९-२१॥
ब्राह्मणस्य हि दत्तेन ध्रुवं स्वर्गो ह्यनुत्तमः। शक्यं प्राप्तुं विशेषेण दानं हि महती क्रिया ॥१३-९-२२॥
इतो दत्तेन जीवन्ति देवताः पितरस्तथा। तस्माद्दानानि देयानि ब्राह्मणेभ्यो विजानता ॥१३-९-२३॥
महद्धि भरतश्रेष्ठ ब्राह्मणस्तीर्थमुच्यते। वेलायां न तु कस्याञ्चिद्गच्छेद्विप्रो ह्यपूजितः ॥१३-९-२४॥

...

ॐ असतो मा सद्गमय। तमसो मा ज्योतिर्गमय। मृत्योर्माऽमृतं गमय। ॐ शान्ति: शान्ति: शान्ति: ॥ - बृहदारण्यकोपनिषद् 1.3.28
"Ōm! Lead me from the unreal to the real, from darkness to light, and from death to immortality. Let there be peace, peace, and peace. Ōm!" - Brihadaranyaka Upanishad 1.3.28

Copyright © 2025, Incredible Wisdom.
All rights reserved.