13.010
नीचस्योपदेशनिषेधः
युधिष्ठिर उवाच॥
मित्रसौहृदभावेन उपदेशं करोति यः। जात्यावरस्य राजर्षे दोषस्तस्य भवेन्न वा ॥१३-१०-१॥
एतदिच्छामि तत्त्वेन व्याख्यातुं वै पितामह। सूक्ष्मा गतिर्हि धर्मस्य यत्र मुह्यन्ति मानवाः ॥१३-१०-२॥
भीष्म उवाच॥
अत्र ते वर्तयिष्यामि शृणु राजन्यथागमम्। ऋषीणां वदतां पूर्वं श्रुतमासीद्यथा मया ॥१३-१०-३॥
उपदेशो न कर्तव्यो जातिहीनस्य कस्यचित्। उपदेशे महान्दोष उपाध्यायस्य भाष्यते ॥१३-१०-४॥
निदर्शनमिदं राजञ्शृणु मे भरतर्षभ। दुरुक्तवचने राजन्यथा पूर्वं युधिष्ठिर ॥ ब्रह्माश्रमपदे वृत्तं पार्श्वे हिमवतः शुभे ॥१३-१०-५॥
तत्राश्रमपदं पुण्यं नानावृक्षगणायुतम्। बहुगुल्मलताकीर्णं मृगद्विजनिषेवितम् ॥१३-१०-६॥
सिद्धचारणसङ्घुष्टं रम्यं पुष्पितकाननम्। व्रतिभिर्बहुभिः कीर्णं तापसैरुपशोभितम् ॥१३-१०-७॥
ब्राह्मणैश्च महाभागैः सूर्यज्वलनसंनिभैः। नियमव्रतसम्पन्नैः समाकीर्णं तपस्विभिः ॥ दीक्षितैर्भरतश्रेष्ठ यताहारैः कृतात्मभिः ॥१३-१०-८॥
वेदाध्ययनघोषैश्च नादितं भरतर्षभ। वालखिल्यैश्च बहुभिर्यतिभिश्च निषेवितम् ॥१३-१०-९॥
तत्र कश्चित्समुत्साहं कृत्वा शूद्रो दयान्वितः। आगतो ह्याश्रमपदं पूजितश्च तपस्विभिः ॥१३-१०-१०॥
तांस्तु दृष्ट्वा मुनिगणान्देवकल्पान्महौजसः। वहतो विविधा दीक्षाः सम्प्रहृष्यत भारत ॥१३-१०-११॥
अथास्य बुद्धिरभवत्तपस्ये भरतर्षभ। ततोऽब्रवीत्कुलपतिं पादौ सङ्गृह्य भारत ॥१३-१०-१२॥
भवत्प्रसादादिच्छामि धर्मं चर्तुं द्विजर्षभ। तन्मां त्वं भगवन्वक्तुं प्रव्राजयितुमर्हसि ॥१३-१०-१३॥
वर्णावरोऽहं भगवञ्शूद्रो जात्यास्मि सत्तम। शुश्रूषां कर्तुमिच्छामि प्रपन्नाय प्रसीद मे ॥१३-१०-१४॥
कुलपतिरुवाच॥
न शक्यमिह शूद्रेण लिङ्गमाश्रित्य वर्तितुम्। आस्यतां यदि ते बुद्धिः शुश्रूषानिरतो भव ॥१३-१०-१५॥
भीष्म उवाच॥
एवमुक्तस्तु मुनिना स शूद्रोऽचिन्तयन्नृप। कथमत्र मया कार्यं श्रद्धा धर्मे परा च मे ॥ विज्ञातमेवं भवतु करिष्ये प्रियमात्मनः ॥१३-१०-१६॥
गत्वाश्रमपदाद्दूरमुटजं कृतवांस्तु सः। तत्र वेदिं च भूमिं च देवतायतनानि च ॥ निवेश्य भरतश्रेष्ठ नियमस्थोऽभवत्सुखम् ॥१३-१०-१७॥
अभिषेकांश्च नियमान्देवतायतनेषु च। बलिं च कृत्वा हुत्वा च देवतां चाप्यपूजयत् ॥१३-१०-१८॥
सङ्कल्पनियमोपेतः फलाहारो जितेन्द्रियः। नित्यं संनिहिताभिश्च ओषधीभिः फलैस्तथा ॥१३-१०-१९॥
अतिथीन्पूजयामास यथावत्समुपागतान्। एवं हि सुमहान्कालो व्यत्यक्रामत्स तस्य वै ॥१३-१०-२०॥
अथास्य मुनिरागच्छत्सङ्गत्या वै तमाश्रमम्। सम्पूज्य स्वागतेनर्षिं विधिवत्पर्यतोषयत् ॥१३-१०-२१॥
अनुकूलाः कथाः कृत्वा यथावत्पर्यपृच्छत। ऋषिः परमतेजस्वी धर्मात्मा संयतेन्द्रियः ॥१३-१०-२२॥
एवं स बहुशस्तस्य शूद्रस्य भरतर्षभ। सोऽगच्छदाश्रममृषिः शूद्रं द्रष्टुं नरर्षभ ॥१३-१०-२३॥
अथ तं तापसं शूद्रः सोऽब्रवीद्भरतर्षभ। पितृकार्यं करिष्यामि तत्र मेऽनुग्रहं कुरु ॥१३-१०-२४॥
बाढमित्येव तं विप्र उवाच भरतर्षभ। शुचिर्भूत्वा स शूद्रस्तु तस्यर्षेः पाद्यमानयत् ॥१३-१०-२५॥
अथ दर्भांश्च वन्याश्च ओषधीर्भरतर्षभ। पवित्रमासनं चैव बृसीं च समुपानयत् ॥१३-१०-२६॥
अथ दक्षिणमावृत्य बृसीं परमशीर्षिकाम्। कृतामन्यायतो दृष्ट्वा ततस्तमृषिरब्रवीत् ॥१३-१०-२७॥
कुरुष्वैतां पूर्वशीर्षां भव चोदङ्मुखः शुचिः। स च तत्कृतवाञ्शूद्रः सर्वं यदृषिरब्रवीत् ॥१३-१०-२८॥
यथोपदिष्टं मेधावी दर्भादींस्तान्यथातथम्। हव्यकव्यविधिं कृत्स्नमुक्तं तेन तपस्विना ॥१३-१०-२९॥
ऋषिणा पितृकार्ये च स च धर्मपथे स्थितः। पितृकार्ये कृते चापि विसृष्टः स जगाम ह ॥१३-१०-३०॥
अथ दीर्घस्य कालस्य स तप्यञ्शूद्रतापसः। वने पञ्चत्वमगमत्सुकृतेन च तेन वै ॥ अजायत महाराजराजवंशे महाद्युतिः ॥१३-१०-३१॥
तथैव स ऋषिस्तात कालधर्ममवाप्य ह। पुरोहितकुले विप्र आजातो भरतर्षभ ॥१३-१०-३२॥
एवं तौ तत्र सम्भूतावुभौ शूद्रमुनी तदा। क्रमेण वर्धितौ चापि विद्यासु कुशलावुभौ ॥१३-१०-३३॥
अथर्ववेदे वेदे च बभूवर्षिः सुनिश्चितः। कल्पप्रयोगे चोत्पन्ने ज्योतिषे च परं गतः ॥ सख्ये चापि परा प्रीतिस्तयोश्चापि व्यवर्धत ॥१३-१०-३४॥
पितर्युपरते चापि कृतशौचः स भारत। अभिषिक्तः प्रकृतिभी राजपुत्रः स पार्थिवः ॥ अभिषिक्तेन स ऋषिरभिषिक्तः पुरोहितः ॥१३-१०-३५॥
स तं पुरोधाय सुखमवसद्भरतर्षभ। राज्यं शशास धर्मेण प्रजाश्च परिपालयन् ॥१३-१०-३६॥
पुण्याहवाचने नित्यं धर्मकार्येषु चासकृत्। उत्स्मयन्प्राहसच्चापि दृष्ट्वा राजा पुरोहितम् ॥१३-१०-३७॥
एवं स बहुशो राजन्पुरोधसमुपाहसत् ॥१३-१०-३७॥
लक्षयित्वा पुरोधास्तु बहुशस्तं नराधिपम्। उत्स्मयन्तं च सततं दृष्ट्वासौ मन्युमानभूत् ॥१३-१०-३८॥
अथ शून्ये पुरोधास्तु सह राज्ञा समागतः। कथाभिरनुकूलाभी राजानमभिरामयत् ॥१३-१०-३९॥
ततोऽब्रवीन्नरेन्द्रं स पुरोधा भरतर्षभ। वरमिच्छाम्यहं त्वेकं त्वया दत्तं महाद्युते ॥१३-१०-४०॥
राजोवाच॥
वराणां ते शतं दद्यां किमुतैकं द्विजोत्तम। स्नेहाच्च बहुमानाच्च नास्त्यदेयं हि मे तव ॥१३-१०-४१॥
पुरोहित उवाच॥
एकं वै वरमिच्छामि यदि तुष्टोऽसि पार्थिव। यद्ददासि महाराज सत्यं तद्वद मानृतम् ॥१३-१०-४२॥
भीष्म उवाच॥
बाढमित्येव तं राजा प्रत्युवाच युधिष्ठिर। यदि ज्ञास्यामि वक्ष्यामि अजानन्न तु संवदे ॥१३-१०-४३॥
पुरोहित उवाच॥
पुण्याहवाचने नित्यं धर्मकृत्येषु चासकृत्। शान्तिहोमेषु च सदा किं त्वं हससि वीक्ष्य माम् ॥१३-१०-४४॥
सव्रीडं वै भवति हि मनो मे हसता त्वया। कामया शापितो राजन्नान्यथा वक्तुमर्हसि ॥१३-१०-४५॥
भाव्यं हि कारणेनात्र न ते हास्यमकारणम्। कौतूहलं मे सुभृशं तत्त्वेन कथयस्व मे ॥१३-१०-४६॥
राजोवाच॥
एवमुक्ते त्वया विप्र यदवाच्यं भवेदपि। अवश्यमेव वक्तव्यं शृणुष्वैकमना द्विज ॥१३-१०-४७॥
पूर्वदेहे यथा वृत्तं तन्निबोध द्विजोत्तम। जातिं स्मराम्यहं ब्रह्मन्नवधानेन मे शृणु ॥१३-१०-४८॥
शूद्रोऽहमभवं पूर्वं तापसो भृशसंयुतः। ऋषिरुग्रतपास्त्वं च तदाभूर्द्विजसत्तम ॥१३-१०-४९॥
प्रीयता हि तदा ब्रह्मन्ममानुग्रहबुद्धिना। पितृकार्ये त्वया पूर्वमुपदेशः कृतोऽनघ ॥ बृस्यां दर्भेषु हव्ये च कव्ये च मुनिसत्तम ॥१३-१०-५०॥
एतेन कर्मदोषेण पुरोधास्त्वमजायथाः। अहं राजा च विप्रेन्द्र पश्य कालस्य पर्ययम् ॥१३-१०-५१॥
मत्कृते ह्युपदेशेन त्वया प्राप्तमिदं फलम् ॥१३-१०-५१॥
एतस्मात्कारणाद्ब्रह्मन्प्रहसे त्वां द्विजोत्तम। न त्वां परिभवन्ब्रह्मन्प्रहसामि गुरुर्भवान् ॥१३-१०-५२॥
विपर्ययेण मे मन्युस्तेन सन्तप्यते मनः। जातिं स्मराम्यहं तुभ्यमतस्त्वां प्रहसामि वै ॥१३-१०-५३॥
एवं तवोग्रं हि तप उपदेशेन नाशितम्। पुरोहितत्वमुत्सृज्य यतस्व त्वं पुनर्भवे ॥१३-१०-५४॥
इतस्त्वमधमामन्यां मा योनिं प्राप्स्यसे द्विज। गृह्यतां द्रविणं विप्र पूतात्मा भव सत्तम ॥१३-१०-५५॥
भीष्म उवाच॥
ततो विसृष्टो राज्ञा तु विप्रो दानान्यनेकशः। ब्राह्मणेभ्यो ददौ वित्तं भूमिं ग्रामांश्च सर्वशः ॥१३-१०-५६॥
कृच्छ्राणि चीर्त्वा च ततो यथोक्तानि द्विजोत्तमः। तीर्थानि चाभिगत्वा वै दानानि विविधानि च ॥१३-१०-५७॥
दत्त्वा गाश्चैव विप्राणां पूतात्मा सोऽभवद्द्विजः। तमेव चाश्रमं गत्वा चचार विपुलं तपः ॥१३-१०-५८॥
ततः सिद्धिं परां प्राप्तो ब्राह्मणो राजसत्तम। संमतश्चाभवत्तेषामाश्रमेऽऽश्रमवासिनाम् ॥१३-१०-५९॥
एवं प्राप्तो महत्कृच्छ्रमृषिः स नृपसत्तम। ब्राह्मणेन न वक्तव्यं तस्माद्वर्णावरे जने ॥१३-१०-६०॥
वर्जयेदुपदेशं च सदैव ब्राह्मणो नृप। उपदेशं हि कुर्वाणो द्विजः कृच्छ्रमवाप्नुयात् ॥१३-१०-६१॥
एषितव्यं सदा वाचा नृपेण द्विजसत्तमात्। न प्रवक्तव्यमिह हि किञ्चिद्वर्णावरे जने ॥१३-१०-६२॥
ब्राह्मणाः क्षत्रिया वैश्यास्त्रयो वर्णा द्विजातयः। एतेषु कथयन्राजन्ब्राह्मणो न प्रदुष्यति ॥१३-१०-६३॥
तस्मात्सद्भिर्न वक्तव्यं कस्यचित्किञ्चिदग्रतः। सूक्ष्मा गतिर्हि धर्मस्य दुर्ज्ञेया ह्यकृतात्मभिः ॥१३-१०-६४॥
तस्मान्मौनानि मुनयो दीक्षां कुर्वन्ति चादृताः। दुरुक्तस्य भयाद्राजन्नानुभाषन्ति किञ्चन ॥१३-१०-६५॥
धार्मिका गुणसम्पन्नाः सत्यार्जवपरायणाः। दुरुक्तवाचाभिहताः प्राप्नुवन्तीह दुष्कृतम् ॥१३-१०-६६॥
उपदेशो न कर्तव्यः कदाचिदपि कस्यचित्। उपदेशाद्धि तत्पापं ब्राह्मणः समवाप्नुयात् ॥१३-१०-६७॥
विमृश्य तस्मात्प्राज्ञेन वक्तव्यं धर्ममिच्छता। सत्यानृतेन हि कृत उपदेशो हिनस्ति वै ॥१३-१०-६८॥
वक्तव्यमिह पृष्टेन विनिश्चित्य विपर्ययम्। स चोपदेशः कर्तव्यो येन धर्ममवाप्नुयात् ॥१३-१०-६९॥
एतत्ते सर्वमाख्यातमुपदेशे कृते सति। महान्क्लेशो हि भवति तस्मान्नोपदिशेत्क्वचित् ॥१३-१०-७०॥