13.011
श्रियो निवासस्थानानि
युधिष्ठिर उवाच॥
कीदृशे पुरुषे तात स्त्रीषु वा भरतर्षभ। श्रीः पद्मा वसते नित्यं तन्मे ब्रूहि पितामह ॥१३-११-१॥
भीष्म उवाच॥
अत्र ते वर्तयिष्यामि यथादृष्टं यथाश्रुतम्। रुक्मिणी देवकीपुत्रसंनिधौ पर्यपृच्छत ॥१३-११-२॥
नारायणस्याङ्कगतां ज्वलन्तीं; दृष्ट्वा श्रियं पद्मसमानवक्त्राम्। कौतूहलाद्विस्मितचारुनेत्रा; पप्रच्छ माता मकरध्वजस्य ॥१३-११-३॥
कानीह भूतान्युपसेवसे त्वं; सन्तिष्ठती कानि न सेवसे त्वम्। तानि त्रिलोकेश्वरभूतकान्ते; तत्त्वेन मे ब्रूहि महर्षिकन्ये ॥१३-११-४॥
एवं तदा श्रीरभिभाष्यमाणा; देव्या समक्षं गरुडध्वजस्य। उवाच वाक्यं मधुराभिधानं; मनोहरं चन्द्रमुखी प्रसन्ना ॥१३-११-५॥
वसामि सत्ये सुभगे प्रगल्भे; दक्षे नरे कर्मणि वर्तमाने। नाकर्मशीले पुरुषे वसामि; न नास्तिके साङ्करिके कृतघ्ने ॥ न भिन्नवृत्ते न नृशंसवृत्ते; न चापि चौरे न गुरुष्वसूये ॥१३-११-६॥
ये चाल्पतेजोबलसत्त्वसारा; हृष्यन्ति कुप्यन्ति च यत्र तत्र। न देवि तिष्ठामि तथाविधेषु; नरेषु संसुप्तमनोरथेषु ॥१३-११-७॥
यश्चात्मनि प्रार्थयते न किं चि; द्यश्च स्वभावोपहतान्तरात्मा। तेष्वल्पसन्तोषरतेषु नित्यं; नरेषु नाहं निवसामि देवि ॥१३-११-८॥
वसामि धर्मशीलेषु धर्मज्ञेषु महात्मसु। वृद्धसेविषु दान्तेषु सत्त्वज्ञेषु महात्मसु ॥१३-११-९॥
स्त्रीषु क्षान्तासु दान्तासु देवद्विजपरासु च। वसामि सत्यशीलासु स्वभावनिरतासु च ॥१३-११-१०॥
प्रकीर्णभाण्डामनवेक्ष्यकारिणीं; सदा च भर्तुः प्रतिकूलवादिनीम्। परस्य वेश्माभिरतामलज्जा; मेवंविधां स्त्रीं परिवर्जयामि ॥१३-११-११॥
लोलामचोक्षामवलेहिनीं च; व्यपेतधैर्यां कलहप्रियां च। निद्राभिभूतां सततं शयाना; मेवंविधां स्त्रीं परिवर्जयामि ॥१३-११-१२॥
सत्यासु नित्यं प्रियदर्शनासु; सौभाग्ययुक्तासु गुणान्वितासु। वसामि नारीषु पतिव्रतासु; कल्याणशीलासु विभूषितासु ॥१३-११-१३॥
यानेषु कन्यासु विभूषणेषु; यज्ञेषु मेघेषु च वृष्टिमत्सु। वसामि फुल्लासु च पद्मिनीषु; नक्षत्रवीथीषु च शारदीषु ॥१३-११-१४॥
शैलेषु गोष्ठेषु तथा वनेषु; सरःसु फुल्लोत्पलपङ्कजेषु। नदीषु हंसस्वननादितासु; क्रौञ्चावघुष्टस्वरशोभितासु ॥१३-११-१५॥
विस्तीर्णकूलह्रदशोभितासु; तपस्विसिद्धद्विजसेवितासु। वसामि नित्यं सुबहूदकासु; सिंहैर्गजैश्चाकुलितोदकासु ॥ मत्ते गजे गोवृषभे नरेन्द्रे; सिंहासने सत्पुरुषे च नित्यम् ॥१३-११-१६॥
यस्मिन्गृहे हूयते हव्यवाहो; गोब्राह्मणश्चार्च्यते देवताश्च। काले च पुष्पैर्बलयः क्रियन्ते; तस्मिन्गृहे नित्यमुपैमि वासम् ॥१३-११-१७॥
स्वाध्यायनित्येषु द्विजेषु नित्यं; क्षत्रे च धर्माभिरते सदैव। वैश्ये च कृष्याभिरते वसामि; शूद्रे च शुश्रूषणनित्ययुक्ते ॥१३-११-१८॥
नारायणे त्वेकमना वसामि; सर्वेण भावेन शरीरभूता। तस्मिन्हि धर्मः सुमहान्निविष्टो; ब्रह्मण्यता चात्र तथा प्रियत्वम् ॥१३-११-१९॥
नाहं शरीरेण वसामि देवि; नैवं मया शक्यमिहाभिधातुम्। यस्मिंस्तु भावेन वसामि पुंसि; स वर्धते धर्मयशोर्थकामैः ॥१३-११-२०॥