Mahabharata - Anuśāsana Parva (महाभारत - अनुशासनपर्वम्)
13.012
भङ्गाश्वनोपाख्यानम्
युधिष्ठिर उवाच॥
स्त्रीपुंसयोः सम्प्रयोगे स्पर्शः कस्याधिको भवेत्। एतन्मे संशयं राजन्यथावद्वक्तुमर्हसि ॥१३-१२-१॥
भीष्म उवाच॥
अत्राप्युदाहरन्तीममितिहासं पुरातनम्। भङ्गाश्वनेन शक्रस्य यथा वैरमभूत्पुरा ॥१३-१२-२॥
पुरा भङ्गाश्वनो नाम राजर्षिरतिधार्मिकः। अपुत्रः स नरव्याघ्र पुत्रार्थं यज्ञमाहरत् ॥१३-१२-३॥
अग्निष्टुं नाम राजर्षिरिन्द्रद्विष्टं महाबलः। प्रायश्चित्तेषु मर्त्यानां पुत्रकामस्य चेष्यते ॥१३-१२-४॥
इन्द्रो ज्ञात्वा तु तं यज्ञं महाभागः सुरेश्वरः। अन्तरं तस्य राजर्षेरन्विच्छन्नियतात्मनः ॥१३-१२-५॥
कस्यचित्त्वथ कालस्य मृगयामटतो नृप। इदमन्तरमित्येव शक्रो नृपममोहयत् ॥१३-१२-६॥
एकाश्वेन च राजर्षिर्भ्रान्त इन्द्रेण मोहितः। न दिशोऽविन्दत नृपः क्षुत्पिपासार्दितस्तदा ॥१३-१२-७॥
इतश्चेतश्च वै धावञ्श्रमतृष्णार्दितो नृपः। सरोऽपश्यत्सुरुचिरं पूर्णं परमवारिणा ॥ सोऽवगाह्य सरस्तात पाययामास वाजिनम् ॥१३-१२-८॥
अथ पीतोदकं सोऽश्वं वृक्षे बद्ध्वा नृपोत्तमः। अवगाह्य ततः स्नातो राजा स्त्रीत्वमवाप ह ॥१३-१२-९॥
आत्मानं स्त्रीकृतं दृष्ट्वा व्रीडितो नृपसत्तमः। चिन्तानुगतसर्वात्मा व्याकुलेन्द्रियचेतनः ॥१३-१२-१०॥
आरोहिष्ये कथं त्वश्वं कथं यास्यामि वै पुरम्। अग्निष्टुं नाम इष्टं मे पुत्राणां शतमौरसम् ॥१३-१२-११॥
जातं महाबलानां वै तान्प्रवक्ष्यामि किं त्वहम्। दारेषु चास्मदीयेषु पौरजानपदेषु च ॥१३-१२-१२॥
मृदुत्वं च तनुत्वं च विक्लवत्वं तथैव च। स्त्रीगुणा ऋषिभिः प्रोक्ता धर्मतत्त्वार्थदर्शिभिः ॥ व्यायामः कर्कशत्वं च वीर्यं च पुरुषे गुणाः ॥१३-१२-१३॥
पौरुषं विप्रनष्टं मे स्त्रीत्वं केनापि मेऽभवत्। स्त्रीभावात्कथमश्वं तु पुनरारोढुमुत्सहे ॥१३-१२-१४॥
महता त्वथ खेदेन आरुह्याश्वं नराधिपः। पुनरायात्पुरं तात स्त्रीभूतो नृपसत्तम ॥१३-१२-१५॥
पुत्रा दाराश्च भृत्याश्च पौरजानपदाश्च ते। किं न्विदं त्विति विज्ञाय विस्मयं परमं गताः ॥१३-१२-१६॥
अथोवाच स राजर्षिः स्त्रीभूतो वदतां वरः। मृगयामस्मि निर्यातो बलैः परिवृतो दृढम् ॥ उद्भ्रान्तः प्राविशं घोरामटवीं दैवमोहितः ॥१३-१२-१७॥
अटव्यां च सुघोरायां तृष्णार्तो नष्टचेतनः। सरः सुरुचिरप्रख्यमपश्यं पक्षिभिर्वृतम् ॥१३-१२-१८॥
तत्रावगाढः स्त्रीभूतो व्यक्तं दैवान्न संशयः। अतृप्त इव पुत्राणां दाराणां च धनस्य च ॥१३-१२-१९॥
उवाच पुत्रांश्च ततः स्त्रीभूतः पार्थिवोत्तमः। सम्प्रीत्या भुज्यतां राज्यं वनं यास्यामि पुत्रकाः ॥ अभिषिच्य स पुत्राणां शतं राजा वनं गतः ॥१३-१२-२०॥
तामाश्रमे स्त्रियं तात तापसोऽभ्यवपद्यत। तापसेनास्य पुत्राणामाश्रमेऽप्यभवच्छतम् ॥१३-१२-२१॥
अथ सा तान्सुतान्गृह्य पूर्वपुत्रानभाषत। पुरुषत्वे सुता यूयं स्त्रीत्वे चेमे शतं सुताः ॥१३-१२-२२॥
एकत्र भुज्यतां राज्यं भ्रातृभावेन पुत्रकाः। सहिता भ्रातरस्तेऽथ राज्यं बुभुजिरे तदा ॥१३-१२-२३॥
तान्दृष्ट्वा भ्रातृभावेन भुञ्जानान्राज्यमुत्तमम्। चिन्तयामास देवेन्द्रो मन्युनाभिपरिप्लुतः ॥ उपकारोऽस्य राजर्षेः कृतो नापकृतं मया ॥१३-१२-२४॥
ततो ब्राह्मणरूपेण देवराजः शतक्रतुः। भेदयामास तान्गत्वा नगरं वै नृपात्मजान् ॥१३-१२-२५॥
भ्रातॄणां नास्ति सौभ्रात्रं येऽप्येकस्य पितुः सुताः। राज्यहेतोर्विवदिताः कश्यपस्य सुरासुराः ॥१३-१२-२६॥
यूयं भङ्गाश्वनापत्यास्तापसस्येतरे सुताः। कश्यपस्य सुराश्चैव असुराश्च सुतास्तथा ॥ युष्माकं पैतृकं राज्यं भुज्यते तापसात्मजैः ॥१३-१२-२७॥
इन्द्रेण भेदितास्ते तु युद्धेऽन्योन्यमपातयन्। तच्छ्रुत्वा तापसी चापि सन्तप्ता प्ररुरोद ह ॥१३-१२-२८॥
ब्राह्मणच्छद्मनाभ्येत्य तामिन्द्रोऽथान्वपृच्छत। केन दुःखेन सन्तप्ता रोदिषि त्वं वरानने ॥१३-१२-२९॥
ब्राह्मणं तु ततो दृष्ट्वा सा स्त्री करुणमब्रवीत्। पुत्राणां द्वे शते ब्रह्मन्कालेन विनिपातिते ॥१३-१२-३०॥
अहं राजाभवं विप्र तत्र पुत्रशतं मया। समुत्पन्नं सुरूपाणां विक्रान्तानां द्विजोत्तम ॥१३-१२-३१॥
कदाचिन्मृगयां यात उद्भ्रान्तो गहने वने। अवगाढश्च सरसि स्त्रीभूतो ब्राह्मणोत्तम ॥ पुत्रान्राज्ये प्रतिष्ठाप्य वनमस्मि ततो गतः ॥१३-१२-३२॥
स्त्रियाश्च मे पुत्रशतं तापसेन महात्मना। आश्रमे जनितं ब्रह्मन्नीतास्ते नगरं मया ॥१३-१२-३३॥
तेषां च वैरमुत्पन्नं कालयोगेन वै द्विज। एतच्छोचामि विप्रेन्द्र दैवेनाभिपरिप्लुता ॥१३-१२-३४॥
इन्द्रस्तां दुःखितां दृष्ट्वा अब्रवीत्परुषं वचः। पुरा सुदुःसहं भद्रे मम दुःखं त्वया कृतम् ॥१३-१२-३५॥
इन्द्रद्विष्टेन यजता मामनादृत्य दुर्मते। इन्द्रोऽहमस्मि दुर्बुद्धे वैरं ते यातितं मया ॥१३-१२-३६॥
इन्द्रं तु दृष्ट्वा राजर्षिः पादयोः शिरसा गतः। प्रसीद त्रिदशश्रेष्ठ पुत्रकामेन स क्रतुः ॥ इष्टस्त्रिदशशार्दूल तत्र मे क्षन्तुमर्हसि ॥१३-१२-३७॥
प्रणिपातेन तस्येन्द्रः परितुष्टो वरं ददौ। पुत्रा वै कतमे राजञ्जीवन्तु तव शंस मे ॥ स्त्रीभूतस्य हि ये जाताः पुरुषस्याथ येऽभवन् ॥१३-१२-३८॥
तापसी तु ततः शक्रमुवाच प्रयताञ्जलिः। स्त्रीभूतस्य हि ये जातास्ते मे जीवन्तु वासव ॥१३-१२-३९॥
इन्द्रस्तु विस्मितो हृष्टः स्त्रियं पप्रच्छ तां पुनः। पुरुषोत्पादिता ये ते कथं द्वेष्याः सुतास्तव ॥१३-१२-४०॥
स्त्रीभूतस्य हि ये जाताः स्नेहस्तेभ्योऽधिकः कथम्। कारणं श्रोतुमिच्छामि तन्मे वक्तुमिहार्हसि ॥१३-१२-४१॥
स्त्र्युवाच॥
स्त्रियास्त्वभ्यधिकः स्नेहो न तथा पुरुषस्य वै। तस्मात्ते शक्र जीवन्तु ये जाताः स्त्रीकृतस्य वै ॥१३-१२-४२॥
भीष्म उवाच॥
एवमुक्ते ततस्त्विन्द्रः प्रीतो वाक्यमुवाच ह। सर्व एवेह जीवन्तु पुत्रास्ते सत्यवादिनि ॥१३-१२-४३॥
वरं च वृणु राजेन्द्र यं त्वमिच्छसि सुव्रत। पुरुषत्वमथ स्त्रीत्वं मत्तो यदभिकाङ्क्षसि ॥१३-१२-४४॥
स्त्र्युवाच॥
स्त्रीत्वमेव वृणे शक्र प्रसन्ने त्वयि वासव। एवमुक्तस्तु देवेन्द्रस्तां स्त्रियं प्रत्युवाच ह। पुरुषत्वं कथं त्यक्त्वा स्त्रीत्वं रोचयसे विभो ॥१३-१२-४६॥
एवमुक्तः प्रत्युवाच स्त्रीभूतो राजसत्तमः। स्त्रियाः पुरुषसंयोगे प्रीतिरभ्यधिका सदा ॥ एतस्मात्कारणाच्छक्र स्त्रीत्वमेव वृणोम्यहम् ॥१३-१२-४७॥
रमे चैवाधिकं स्त्रीत्वे सत्यं वै देवसत्तम। स्त्रीभावेन हि तुष्टोऽस्मि गम्यतां त्रिदशाधिप ॥१३-१२-४८॥
एवमस्त्विति चोक्त्वा तामापृच्छ्य त्रिदिवं गतः। एवं स्त्रिया महाराज अधिका प्रीतिरुच्यते ॥१३-१२-४९॥

...

ॐ असतो मा सद्गमय। तमसो मा ज्योतिर्गमय। मृत्योर्माऽमृतं गमय। ॐ शान्ति: शान्ति: शान्ति: ॥ - बृहदारण्यकोपनिषद् 1.3.28
"Ōm! Lead me from the unreal to the real, from darkness to light, and from death to immortality. Let there be peace, peace, and peace. Ōm!" - Brihadaranyaka Upanishad 1.3.28

Copyright © 2025, Incredible Wisdom.
All rights reserved.