13.013
शुभाशुभकर्मफलम्
युधिष्ठिर उवाच॥
किं कर्तव्यं मनुष्येण लोकयात्राहितार्थिना। कथं वै लोकयात्रां तु किंशीलश्च समाचरेत् ॥१३-१३-१॥
भीष्म उवाच॥
कायेन त्रिविधं कर्म वाचा चापि चतुर्विधम्। मनसा त्रिविधं चैव दश कर्मपथांस्त्यजेत् ॥१३-१३-२॥
प्राणातिपातं स्तैन्यं च परदारमथापि च। त्रीणि पापानि कायेन सर्वतः परिवर्जयेत् ॥१३-१३-३॥
असत्प्रलापं पारुष्यं पैशुन्यमनृतं तथा। चत्वारि वाचा राजेन्द्र न जल्पेन्नानुचिन्तयेत् ॥१३-१३-४॥
अनभिध्या परस्वेषु सर्वसत्त्वेषु सौहृदम्। कर्मणां फलमस्तीति त्रिविधं मनसा चरेत् ॥१३-१३-५॥
तस्माद्वाक्कायमनसा नाचरेदशुभं नरः। शुभाशुभान्याचरन्हि तस्य तस्याश्नुते फलम् ॥१३-१३-६॥