Mahabharata - Anuśāsana Parva (महाभारत - अनुशासनपर्वम्)
13.016
कृष्ण उवाच॥
मूर्ध्ना निपत्य नियतस्तेजःसंनिचये ततः। परमं हर्षमागम्य भगवन्तमथाब्रुवम् ॥१३-१६-१॥
धर्मे दृढत्वं युधि शत्रुघातं; यशस्तथाग्र्यं परमं बलं च। योगप्रियत्वं तव संनिकर्षं; वृणे सुतानां च शतं शतानि ॥१३-१६-२॥
एवमस्त्विति तद्वाक्यं मयोक्तः प्राह शङ्करः। ततो मां जगतो माता धरणी सर्वपावनी। उवाचोमा प्रणिहिता शर्वाणी तपसां निधिः ॥१३-१६-४॥
दत्तो भगवता पुत्रः साम्बो नाम तवानघ। मत्तोऽप्यष्टौ वरानिष्टान्गृहाण त्वं ददामि ते ॥ प्रणम्य शिरसा सा च मयोक्ता पाण्डुनन्दन ॥१३-१६-५॥
द्विजेष्वकोपं पितृतः प्रसादं; शतं सुतानामुपभोगं परं च। कुले प्रीतिं मातृतश्च प्रसादं; शमप्राप्तिं प्रवृणे चापि दाक्ष्यम् ॥१३-१६-६॥
देव्युवाच॥
एवं भविष्यत्यमरप्रभाव; नाहं मृषा जातु वदे कदाचित्। भार्यासहस्राणि च षोडशैव; तासु प्रियत्वं च तथाक्षयत्वम् ॥१३-१६-७॥
प्रीतिं चाग्र्यां बान्धवानां सकाशा; द्ददामि ते वपुषः काम्यतां च। भोक्ष्यन्ते वै सप्ततिर्वै शतानि; गृहे तुभ्यमतिथीनां च नित्यम् ॥१३-१६-८॥
वासुदेव उवाच॥
एवं दत्त्वा वरान्देवो मम देवी च भारत। अन्तर्हितः क्षणे तस्मिन्सगणो भीमपूर्वज ॥१३-१६-९॥
एतदत्यद्भुतं सर्वं ब्राह्मणायातितेजसे। उपमन्यवे मया कृत्स्नमाख्यातं कौरवोत्तम ॥१३-१६-१०॥
नमस्कृत्वा तु स प्राह देवदेवाय सुव्रत। नास्ति शर्वसमो दाने नास्ति शर्वसमो रणे ॥ नास्ति शर्वसमो देवो नास्ति शर्वसमा गतिः ॥१३-१६-११॥
ऋषिरासीत्कृते तात तण्डिरित्येव विश्रुतः। दश वर्षसहस्राणि तेन देवः समाधिना ॥ आराधितोऽभूद्भक्तेन तस्योदर्कं निशामय ॥१३-१६-१२॥
स दृष्टवान्महादेवमस्तौषीच्च स्तवैर्विभुम्। पवित्राणां पवित्रस्त्वं गतिर्गतिमतां वर ॥ अत्युग्रं तेजसां तेजस्तपसां परमं तपः ॥१३-१६-१३॥
विश्वावसुहिरण्याक्षपुरुहूतनमस्कृत। भूरिकल्याणद विभो पुरुसत्य नमोऽस्तु ते ॥१३-१६-१४॥
जातीमरणभीरूणां यतीनां यततां विभो। निर्वाणद सहस्रांशो नमस्तेऽस्तु सुखाश्रय ॥१३-१६-१५॥
ब्रह्मा शतक्रतुर्विष्णुर्विश्वेदेवा महर्षयः। न विदुस्त्वां तु तत्त्वेन कुतो वेत्स्यामहे वयम् ॥१३-१६-१६॥
त्वत्तः प्रवर्तते कालस्त्वयि कालश्च लीयते। कालाख्यः पुरुषाख्यश्च ब्रह्माख्यश्च त्वमेव हि ॥१३-१६-१७॥
तनवस्ते स्मृतास्तिस्रः पुराणज्ञैः सुरर्षिभिः। अधिपौरुषमध्यात्ममधिभूताधिदैवतम् ॥ अधिलोक्याधिविज्ञानमधियज्ञस्त्वमेव हि ॥१३-१६-१८॥
त्वां विदित्वात्मदेहस्थं दुर्विदं दैवतैरपि। विद्वांसो यान्ति निर्मुक्ताः परं भावमनामयम् ॥१३-१६-१९॥
अनिच्छतस्तव विभो जन्ममृत्युरनेकतः। द्वारं त्वं स्वर्गमोक्षाणामाक्षेप्ता त्वं ददासि च ॥१३-१६-२०॥
त्वमेव मोक्षः स्वर्गश्च कामः क्रोधस्त्वमेव हि। सत्त्वं रजस्तमश्चैव अधश्चोर्ध्वं त्वमेव हि ॥१३-१६-२१॥
ब्रह्मा विष्णुश्च रुद्रश्च स्कन्देन्द्रौ सविता यमः। वरुणेन्दू मनुर्धाता विधाता त्वं धनेश्वरः ॥१३-१६-२२॥
भूर्वायुर्ज्योतिरापश्च वाग्बुद्धिस्त्वं मतिर्मनः। कर्म सत्यानृते चोभे त्वमेवास्ति च नास्ति च ॥१३-१६-२३॥
इन्द्रियाणीन्द्रियार्थाश्च तत्परं प्रकृतेर्ध्रुवम्। विश्वाविश्वपरो भावश्चिन्त्याचिन्त्यस्त्वमेव हि ॥१३-१६-२४॥
यच्चैतत्परमं ब्रह्म यच्च तत्परमं पदम्। या गतिः साङ्ख्ययोगानां स भवान्नात्र संशयः ॥१३-१६-२५॥
नूनमद्य कृतार्थाः स्म नूनं प्राप्ताः सतां गतिम्। यां गतिं प्राप्नुवन्तीह ज्ञाननिर्मलबुद्धयः ॥१३-१६-२६॥
अहो मूढाः स्म सुचिरमिमं कालमचेतसः। यन्न विद्मः परं देवं शाश्वतं यं विदुर्बुधाः ॥१३-१६-२७॥
सोऽयमासादितः साक्षाद्बहुभिर्जन्मभिर्मया। भक्तानुग्रहकृद्देवो यं ज्ञात्वामृतमश्नुते ॥१३-१६-२८॥
देवासुरमनुष्याणां यच्च गुह्यं सनातनम्। गुहायां निहितं ब्रह्म दुर्विज्ञेयं सुरैरपि ॥१३-१६-२९॥
स एष भगवान्देवः सर्वकृत्सर्वतोमुखः। सर्वात्मा सर्वदर्शी च सर्वगः सर्ववेदिता ॥१३-१६-३०॥
प्राणकृत्प्राणभृत्प्राणी प्राणदः प्राणिनां गतिः। देहकृद्देहभृद्देही देहभुग्देहिनां गतिः ॥१३-१६-३१॥
अध्यात्मगतिनिष्ठानां ध्यानिनामात्मवेदिनाम्। अपुनर्मारकामानां या गतिः सोऽयमीश्वरः ॥१३-१६-३२॥
अयं च सर्वभूतानां शुभाशुभगतिप्रदः। अयं च जन्ममरणे विदध्यात्सर्वजन्तुषु ॥१३-१६-३३॥
अयं च सिद्धिकामानामृषीणां सिद्धिदः प्रभुः। अयं च मोक्षकामानां द्विजानां मोक्षदः प्रभुः ॥१३-१६-३४॥
भूराद्यान्सर्वभुवनानुत्पाद्य सदिवौकसः। विभर्ति देवस्तनुभिरष्टाभिश्च ददाति च ॥१३-१६-३५॥
अतः प्रवर्तते सर्वमस्मिन्सर्वं प्रतिष्ठितम्। अस्मिंश्च प्रलयं याति अयमेकः सनातनः ॥१३-१६-३६॥
अयं स सत्यकामानां सत्यलोकः परः सताम्। अपवर्गश्च मुक्तानां कैवल्यं चात्मवादिनाम् ॥१३-१६-३७॥
अयं ब्रह्मादिभिः सिद्धैर्गुहायां गोपितः प्रभुः। देवासुरमनुष्याणां न प्रकाशो भवेदिति ॥१३-१६-३८॥
तं त्वां देवासुरनरास्तत्त्वेन न विदुर्भवम्। मोहिताः खल्वनेनैव हृच्छयेन प्रवेशिताः ॥१३-१६-३९॥
ये चैनं सम्प्रपद्यन्ते भक्तियोगेन भारत। तेषामेवात्मनात्मानं दर्शयत्येष हृच्छयः ॥१३-१६-४०॥
यं ज्ञात्वा न पुनर्जन्म मरणं चापि विद्यते। यं विदित्वा परं वेद्यं वेदितव्यं न विद्यते ॥१३-१६-४१॥
यं लब्ध्वा परमं लाभं मन्यते नाधिकं पुनः। प्राणसूक्ष्मां परां प्राप्तिमागच्छत्यक्षयावहाम् ॥१३-१६-४२॥
यं साङ्ख्या गुणतत्त्वज्ञाः साङ्ख्यशास्त्रविशारदाः। सूक्ष्मज्ञानरताः पूर्वं ज्ञात्वा मुच्यन्ति बन्धनैः ॥१३-१६-४३॥
यं च वेदविदो वेद्यं वेदान्तेषु प्रतिष्ठितम्। प्राणायामपरा नित्यं यं विशन्ति जपन्ति च ॥१३-१६-४४॥
अयं स देवयानानामादित्यो द्वारमुच्यते। अयं च पितृयानानां चन्द्रमा द्वारमुच्यते ॥१३-१६-४५॥
एष कालगतिश्चित्रा संवत्सरयुगादिषु। भावाभावौ तदात्वे च अयने दक्षिणोत्तरे ॥१३-१६-४६॥
एवं प्रजापतिः पूर्वमाराध्य बहुभिः स्तवैः। वरयामास पुत्रत्वे नीललोहितसञ्ज्ञितम् ॥१३-१६-४७॥
ऋग्भिर्यमनुशंसन्ति तन्त्रे कर्मणि बह्वृचः। यजुर्भिर्यं त्रिधा वेद्यं जुह्वत्यध्वर्यवोऽध्वरे ॥१३-१६-४८॥
सामभिर्यं च गायन्ति सामगाः शुद्धबुद्धयः। यज्ञस्य परमा योनिः पतिश्चायं परः स्मृतः ॥१३-१६-४९॥
रात्र्यहःश्रोत्रनयनः पक्षमासशिरोभुजः। ऋतुवीर्यस्तपोधैर्यो ह्यब्दगुह्योरुपादवान् ॥१३-१६-५०॥
मृत्युर्यमो हुताशश्च कालः संहारवेगवान्। कालस्य परमा योनिः कालश्चायं सनातनः ॥१३-१६-५१॥
चन्द्रादित्यौ सनक्षत्रौ सग्रहौ सह वायुना। ध्रुवः सप्तर्षयश्चैव भुवनाः सप्त एव च ॥१३-१६-५२॥
प्रधानं महदव्यक्तं विशेषान्तं सवैकृतम्। ब्रह्मादि स्तम्बपर्यन्तं भूतादि सदसच्च यत् ॥१३-१६-५३॥
अष्टौ प्रकृतयश्चैव प्रकृतिभ्यश्च यत्परम्। अस्य देवस्य यद्भागं कृत्स्नं सम्परिवर्तते ॥१३-१६-५४॥
एतत्परममानन्दं यत्तच्छाश्वतमेव च। एषा गतिर्विरक्तानामेष भावः परः सताम् ॥१३-१६-५५॥
एतत्पदमनुद्विग्नमेतद्ब्रह्म सनातनम्। शास्त्रवेदाङ्गविदुषामेतद्ध्यानं परं पदम् ॥१३-१६-५६॥
इयं सा परमा काष्ठा इयं सा परमा कला। इयं सा परमा सिद्धिरियं सा परमा गतिः ॥१३-१६-५७॥
इयं सा परमा शान्तिरियं सा निर्वृतिः परा। यं प्राप्य कृतकृत्याः स्म इत्यमन्यन्त वेधसः ॥१३-१६-५८॥
इयं तुष्टिरियं सिद्धिरियं श्रुतिरियं स्मृतिः। अध्यात्मगतिनिष्ठानां विदुषां प्राप्तिरव्यया ॥१३-१६-५९॥
यजतां यज्ञकामानां यज्ञैर्विपुलदक्षिणैः। या गतिर्दैवतैर्दिव्या सा गतिस्त्वं सनातन ॥१३-१६-६०॥
जप्यहोमव्रतैः कृच्छ्रैर्नियमैर्देहपातनैः। तप्यतां या गतिर्देव वैराजे सा गतिर्भवान् ॥१३-१६-६१॥
कर्मन्यासकृतानां च विरक्तानां ततस्ततः। या गतिर्ब्रह्मभवने सा गतिस्त्वं सनातन ॥१३-१६-६२॥
अपुनर्मारकामानां वैराग्ये वर्ततां परे। विकृतीनां लयानां च सा गतिस्त्वं सनातन ॥१३-१६-६३॥
ज्ञानविज्ञाननिष्ठानां निरुपाख्या निरञ्जना। कैवल्या या गतिर्देव परमा सा गतिर्भवान् ॥१३-१६-६४॥
वेदशास्त्रपुराणोक्ताः पञ्चैता गतयः स्मृताः। त्वत्प्रसादाद्धि लभ्यन्ते न लभ्यन्तेऽन्यथा विभो ॥१३-१६-६५॥
इति तण्डिस्तपोयोगात्तुष्टावेशानमव्ययम्। जगौ च परमं ब्रह्म यत्पुरा लोककृज्जगौ ॥१३-१६-६६॥
ब्रह्मा शतक्रतुर्विष्णुर्विश्वेदेवा महर्षयः। न विदुस्त्वामिति ततस्तुष्टः प्रोवाच तं शिवः ॥१३-१६-६७॥
अक्षयश्चाव्ययश्चैव भविता दुःखवर्जितः। यशस्वी तेजसा युक्तो दिव्यज्ञानसमन्वितः ॥१३-१६-६८॥
ऋषीणामभिगम्यश्च सूत्रकर्ता सुतस्तव। मत्प्रसादाद्द्विजश्रेष्ठ भविष्यति न संशयः ॥१३-१६-६९॥
कं वा कामं ददाम्यद्य ब्रूहि यद्वत्स काङ्क्षसे। प्राञ्जलिः स उवाचेदं त्वयि भक्तिर्दृढास्तु मे ॥१३-१६-७०॥
एवं दत्त्वा वरं देवो वन्द्यमानः सुरर्षिभिः। स्तूयमानश्च विबुधैस्तत्रैवान्तरधीयत ॥१३-१६-७१॥
अन्तर्हिते भगवति सानुगे यादवेश्वर। ऋषिराश्रममागम्य ममैतत्प्रोक्तवानिह ॥१३-१६-७२॥
यानि च प्रथितान्यादौ तण्डिराख्यातवान्मम। नामानि मानवश्रेष्ठ तानि त्वं शृणु सिद्धये ॥१३-१६-७३॥
दश नामसहस्राणि वेदेष्वाह पितामहः। शर्वस्य शास्त्रेषु तथा दश नामशतानि वै ॥१३-१६-७४॥
गुह्यानीमानि नामानि तण्डिर्भगवतोऽच्युत। देवप्रसादाद्देवेश पुरा प्राह महात्मने ॥१३-१६-७५॥

...

ॐ असतो मा सद्गमय। तमसो मा ज्योतिर्गमय। मृत्योर्माऽमृतं गमय। ॐ शान्ति: शान्ति: शान्ति: ॥ - बृहदारण्यकोपनिषद् 1.3.28
"Ōm! Lead me from the unreal to the real, from darkness to light, and from death to immortality. Let there be peace, peace, and peace. Ōm!" - Brihadaranyaka Upanishad 1.3.28

Copyright © 2025, Incredible Wisdom.
All rights reserved.