Mahabharata - Anuśāsana Parva (महाभारत - अनुशासनपर्वम्)
13.017
शिवसहस्रनाम
वासुदेव उवाच॥
ततः स प्रयतो भूत्वा मम तात युधिष्ठिर। प्राञ्जलिः प्राह विप्रर्षिर्नामसंहारमादितः ॥१३-१७-१॥
उपमन्युरुवाच॥
ब्रह्मप्रोक्तैरृषिप्रोक्तैर्वेदवेदाङ्गसम्भवैः। सर्वलोकेषु विख्यातैः स्थाणुं स्तोष्यामि नामभिः ॥१३-१७-२॥
महद्भिर्विहितैः सत्यैः सिद्धैः सर्वार्थसाधकैः। ऋषिणा तण्डिना भक्त्या कृतैर्देवकृतात्मना ॥१३-१७-३॥
यथोक्तैर्लोकविख्यातैर्मुनिभिस्तत्त्वदर्शिभिः। प्रवरं प्रथमं स्वर्ग्यं सर्वभूतहितं शुभम् ॥ श्रुतैः सर्वत्र जगति ब्रह्मलोकावतारितैः ॥१३-१७-४॥
यत्तद्रहस्यं परमं ब्रह्मप्रोक्तं सनातनम्। वक्ष्ये यदुकुलश्रेष्ठ शृणुष्वावहितो मम ॥१३-१७-५॥
परत्वेन भवं देवं भक्तस्त्वं परमेश्वरम्। तेन ते श्रावयिष्यामि यत्तद्ब्रह्म सनातनम् ॥१३-१७-६॥
न शक्यं विस्तरात्कृत्स्नं वक्तुं शर्वस्य केनचित्। युक्तेनापि विभूतीनामपि वर्षशतैरपि ॥१३-१७-७॥
यस्यादिर्मध्यमन्तश्च सुरैरपि न गम्यते। कस्तस्य शक्नुयाद्वक्तुं गुणान्कार्त्स्न्येन माधव ॥१३-१७-८॥
किं तु देवस्य महतः सङ्क्षिप्तार्थपदाक्षरम्। शक्तितश्चरितं वक्ष्ये प्रसादात्तस्य चैव हि ॥१३-१७-९॥
अप्राप्येह ततोऽनुज्ञां न शक्यः स्तोतुमीश्वरः। यदा तेनाभ्यनुज्ञातः स्तुवत्येव सदा भवम् ॥१३-१७-१०॥
अनादिनिधनस्याहं सर्वयोनेर्महात्मनः। नाम्नां कञ्चित्समुद्देशं वक्ष्ये ह्यव्यक्तयोनिनः ॥१३-१७-११॥
वरदस्य वरेण्यस्य विश्वरूपस्य धीमतः। शृणु नामसमुद्देशं यदुक्तं पद्मयोनिना ॥१३-१७-१२॥
दश नामसहस्राणि यान्याह प्रपितामहः। तानि निर्मथ्य मनसा दध्नो घृतमिवोद्धृतम् ॥१३-१७-१३॥
गिरेः सारं यथा हेम पुष्पात्सारं यथा मधु। घृतात्सारं यथा मण्डस्तथैतत्सारमुद्धृतम् ॥१३-१७-१४॥
सर्वपाप्मापहमिदं चतुर्वेदसमन्वितम्। प्रयत्नेनाधिगन्तव्यं धार्यं च प्रयतात्मना ॥ शान्तिकं पौष्टिकं चैव रक्षोघ्नं पावनं महत् ॥१३-१७-१५॥
इदं भक्ताय दातव्यं श्रद्दधानास्तिकाय च। नाश्रद्दधानरूपाय नास्तिकायाजितात्मने ॥१३-१७-१६॥
यश्चाभ्यसूयते देवं भूतात्मानं पिनाकिनम्। स कृष्ण नरकं याति सह पूर्वैः सहानुगैः ॥१३-१७-१७॥
इदं ध्यानमिदं योगमिदं ध्येयमनुत्तमम्। इदं जप्यमिदं ज्ञानं रहस्यमिदमुत्तमम् ॥ इदं ज्ञात्वान्तकालेऽपि गच्छेद्धि परमां गतिम् ॥१३-१७-१८॥
पवित्रं मङ्गलं पुण्यं कल्याणमिदमुत्तमम्। निगदिष्ये महाबाहो स्तवानामुत्तमं स्तवम् ॥१३-१७-१९॥
इदं ब्रह्मा पुरा कृत्वा सर्वलोकपितामहः। सर्वस्तवानां दिव्यानां राजत्वे समकल्पयत् ॥१३-१७-२०॥
तदाप्रभृति चैवायमीश्वरस्य महात्मनः। स्तवराजेति विख्यातो जगत्यमरपूजितः ॥ ब्रह्मलोकादयं चैव स्तवराजोऽवतारितः ॥१३-१७-२१॥
यस्मात्तण्डिः पुरा प्राह तेन तण्डिकृतोऽभवत्। स्वर्गाच्चैवात्र भूलोकं तण्डिना ह्यवतारितः ॥१३-१७-२२॥
सर्वमङ्गलमङ्गल्यं सर्वपापप्रणाशनम्। निगदिष्ये महाबाहो स्तवानामुत्तमं स्तवम् ॥१३-१७-२३॥
ब्रह्मणामपि यद्ब्रह्म पराणामपि यत्परम्। तेजसामपि यत्तेजस्तपसामपि यत्तपः ॥१३-१७-२४॥
शान्तीनामपि या शान्तिर्द्युतीनामपि या द्युतिः। दान्तानामपि यो दान्तो धीमतामपि या च धीः ॥१३-१७-२५॥
देवानामपि यो देवो मुनीनामपि यो मुनिः। यज्ञानामपि यो यज्ञः शिवानामपि यः शिवः ॥१३-१७-२६॥
रुद्राणामपि यो रुद्रः प्रभुः प्रभवतामपि। योगिनामपि यो योगी कारणानां च कारणम् ॥१३-१७-२७॥
यतो लोकाः सम्भवन्ति न भवन्ति यतः पुनः। सर्वभूतात्मभूतस्य हरस्यामिततेजसः ॥१३-१७-२८॥
अष्टोत्तरसहस्रं तु नाम्नां शर्वस्य मे शृणु। यच्छ्रुत्वा मनुजश्रेष्ठ सर्वान्कामानवाप्स्यसि ॥१३-१७-२९॥
स्थिरः स्थाणुः प्रभुर्भानुः प्रवरो वरदो वरः। सर्वात्मा सर्वविख्यातः सर्वः सर्वकरो भवः ॥१३-१७-३०॥
जटी चर्मी शिखण्डी च सर्वाङ्गः सर्वभावनः। हरिश्च हरिणाक्षश्च सर्वभूतहरः प्रभुः ॥१३-१७-३१॥
प्रवृत्तिश्च निवृत्तिश्च नियतः शाश्वतो ध्रुवः। श्मशानचारी भगवान्खचरो गोचरोऽर्दनः ॥१३-१७-३२॥
अभिवाद्यो महाकर्मा तपस्वी भूतभावनः। उन्मत्तवेशप्रच्छन्नः सर्वलोकप्रजापतिः ॥१३-१७-३३॥
महारूपो महाकायः सर्वरूपो महायशाः। महात्मा सर्वभूतश्च विरूपो वामनो मनुः ॥१३-१७-३४॥
लोकपालोऽन्तर्हितात्मा प्रसादो हयगर्दभिः। पवित्रश्च महांश्चैव नियमो नियमाश्रयः ॥१३-१७-३५॥
सर्वकर्मा स्वयम्भूश्च आदिरादिकरो निधिः। सहस्राक्षो विरूपाक्षः सोमो नक्षत्रसाधकः ॥१३-१७-३६॥
चन्द्रसूर्यगतिः केतुर्ग्रहो ग्रहपतिर्वरः। अद्रिरद्र्यालयः कर्ता मृगबाणार्पणोऽनघः ॥१३-१७-३७॥
महातपा घोरतपा अदीनो दीनसाधकः। संवत्सरकरो मन्त्रः प्रमाणं परमं तपः ॥१३-१७-३८॥
योगी योज्यो महाबीजो महारेता महातपाः। सुवर्णरेताः सर्वज्ञः सुबीजो वृषवाहनः ॥१३-१७-३९॥
दशबाहुस्त्वनिमिषो नीलकण्ठ उमापतिः। विश्वरूपः स्वयंश्रेष्ठो बलवीरो बलो गणः ॥१३-१७-४०॥
गणकर्ता गणपतिर्दिग्वासाः काम्य एव च। पवित्रं परमं मन्त्रः सर्वभावकरो हरः ॥१३-१७-४१॥
कमण्डलुधरो धन्वी बाणहस्तः कपालवान्। अशनी शतघ्नी खड्गी पट्टिशी चायुधी महान् ॥१३-१७-४२॥
स्रुवहस्तः सुरूपश्च तेजस्तेजस्करो निधिः। उष्णीषी च सुवक्त्रश्च उदग्रो विनतस्तथा ॥१३-१७-४३॥
दीर्घश्च हरिकेशश्च सुतीर्थः कृष्ण एव च। सृगालरूपः सर्वार्थो मुण्डः कुण्डी कमण्डलुः ॥१३-१७-४४॥
अजश्च मृगरूपश्च गन्धधारी कपर्द्यपि। ऊर्ध्वरेता ऊर्ध्वलिङ्ग ऊर्ध्वशायी नभस्तलः ॥१३-१७-४५॥
त्रिजटश्चीरवासाश्च रुद्रः सेनापतिर्विभुः। अहश्चरोऽथ नक्तं च तिग्ममन्युः सुवर्चसः ॥१३-१७-४६॥
गजहा दैत्यहा लोको लोकधाता गुणाकरः। सिंहशार्दूलरूपश्च आर्द्रचर्माम्बरावृतः ॥१३-१७-४७॥
कालयोगी महानादः सर्ववासश्चतुष्पथः। निशाचरः प्रेतचारी भूतचारी महेश्वरः ॥१३-१७-४८॥
बहुभूतो बहुधनः सर्वाधारोऽमितो गतिः। नृत्यप्रियो नित्यनर्तो नर्तकः सर्वलासकः ॥१३-१७-४९॥
घोरो महातपाः पाशो नित्यो गिरिचरो नभः। सहस्रहस्तो विजयो व्यवसायो ह्यनिन्दितः ॥१३-१७-५०॥
अमर्षणो मर्षणात्मा यज्ञहा कामनाशनः। दक्षयज्ञापहारी च सुसहो मध्यमस्तथा ॥१३-१७-५१॥
तेजोपहारी बलहा मुदितोऽर्थो जितो वरः। गम्भीरघोषो गम्भीरो गम्भीरबलवाहनः ॥१३-१७-५२॥
न्यग्रोधरूपो न्यग्रोधो वृक्षकर्णस्थितिर्विभुः। तीक्ष्णतापश्च हर्यश्वः सहायः कर्मकालवित् ॥१३-१७-५३॥
विष्णुप्रसादितो यज्ञः समुद्रो वडवामुखः। हुताशनसहायश्च प्रशान्तात्मा हुताशनः ॥१३-१७-५४॥
उग्रतेजा महातेजा जयो विजयकालवित्। ज्योतिषामयनं सिद्धिः सन्धिर्विग्रह एव च ॥१३-१७-५५॥
शिखी दण्डी जटी ज्वाली मूर्तिजो मूर्धगो बली। वैणवी पणवी ताली कालः कालकटङ्कटः ॥१३-१७-५६॥
नक्षत्रविग्रहविधिर्गुणवृद्धिर्लयोऽगमः। प्रजापतिर्दिशाबाहुर्विभागः सर्वतोमुखः ॥१३-१७-५७॥
विमोचनः सुरगणो हिरण्यकवचोद्भवः। मेढ्रजो बलचारी च महाचारी स्तुतस्तथा ॥१३-१७-५८॥
सर्वतूर्यनिनादी च सर्ववाद्यपरिग्रहः। व्यालरूपो बिलावासी हेममाली तरङ्गवित् ॥१३-१७-५९॥
त्रिदशस्त्रिकालधृक्कर्मसर्वबन्धविमोचनः। बन्धनस्त्वसुरेन्द्राणां युधि शत्रुविनाशनः ॥१३-१७-६०॥
साङ्ख्यप्रसादो दुर्वासाः सर्वसाधुनिषेवितः। प्रस्कन्दनो विभागश्च अतुल्यो यज्ञभागवित् ॥१३-१७-६१॥
सर्वावासः सर्वचारी दुर्वासा वासवोऽमरः। हेमो हेमकरो यज्ञः सर्वधारी धरोत्तमः ॥१३-१७-६२॥
लोहिताक्षो महाक्षश्च विजयाक्षो विशारदः। सङ्ग्रहो निग्रहः कर्ता सर्पचीरनिवासनः ॥१३-१७-६३॥
मुख्योऽमुख्यश्च देहश्च देहर्द्धिः सर्वकामदः। सर्वकालप्रसादश्च सुबलो बलरूपधृक् ॥१३-१७-६४॥
आकाशनिधिरूपश्च निपाती उरगः खगः। रौद्ररूपोंऽशुरादित्यो वसुरश्मिः सुवर्चसी ॥१३-१७-६५॥
वसुवेगो महावेगो मनोवेगो निशाचरः। सर्वावासी श्रियावासी उपदेशकरो हरः ॥१३-१७-६६॥
मुनिरात्मपतिर्लोके सम्भोज्यश्च सहस्रदः। पक्षी च पक्षिरूपी च अतिदीप्तो विशां पतिः ॥१३-१७-६७॥
उन्मादो मदनाकारो अर्थार्थकररोमशः। वामदेवश्च वामश्च प्राग्दक्षिण्यश्च वामनः ॥१३-१७-६८॥
सिद्धयोगापहारी च सिद्धः सर्वार्थसाधकः। भिक्षुश्च भिक्षुरूपश्च विषाणी मृदुरव्ययः ॥१३-१७-६९॥
महासेनो विशाखश्च षष्टिभागो गवां पतिः। वज्रहस्तश्च विष्कम्भी चमूस्तम्भन एव च ॥१३-१७-७०॥
ऋतुरृतुकरः कालो मधुर्मधुकरोऽचलः। वानस्पत्यो वाजसेनो नित्यमाश्रमपूजितः ॥१३-१७-७१॥
ब्रह्मचारी लोकचारी सर्वचारी सुचारवित्। ईशान ईश्वरः कालो निशाचारी पिनाकधृक् ॥१३-१७-७२॥
नन्दीश्वरश्च नन्दी च नन्दनो नन्दिवर्धनः। भगस्याक्षिनिहन्ता च कालो ब्रह्मविदां वरः ॥१३-१७-७३॥
चतुर्मुखो महालिङ्गश्चारुलिङ्गस्तथैव च। लिङ्गाध्यक्षः सुराध्यक्षो लोकाध्यक्षो युगावहः ॥१३-१७-७४॥
बीजाध्यक्षो बीजकर्ता अध्यात्मानुगतो बलः। इतिहासकरः कल्पो गौतमोऽथ जलेश्वरः ॥१३-१७-७५॥
दम्भो ह्यदम्भो वैदम्भो वश्यो वश्यकरः कविः। लोककर्ता पशुपतिर्महाकर्ता महौषधिः ॥१३-१७-७६॥
अक्षरं परमं ब्रह्म बलवाञ्शक्र एव च। नीतिर्ह्यनीतिः शुद्धात्मा शुद्धो मान्यो मनोगतिः ॥१३-१७-७७॥
बहुप्रसादः स्वपनो दर्पणोऽथ त्वमित्रजित्। वेदकारः सूत्रकारो विद्वान्समरमर्दनः ॥१३-१७-७८॥
महामेघनिवासी च महाघोरो वशीकरः। अग्निज्वालो महाज्वालो अतिधूम्रो हुतो हविः ॥१३-१७-७९॥
वृषणः शङ्करो नित्यो वर्चस्वी धूमकेतनः। नीलस्तथाङ्गलुब्धश्च शोभनो निरवग्रहः ॥१३-१७-८०॥
स्वस्तिदः स्वस्तिभावश्च भागी भागकरो लघुः। उत्सङ्गश्च महाङ्गश्च महागर्भः परो युवा ॥१३-१७-८१॥
कृष्णवर्णः सुवर्णश्च इन्द्रियः सर्वदेहिनाम्। महापादो महाहस्तो महाकायो महायशाः ॥१३-१७-८२॥
महामूर्धा महामात्रो महानेत्रो दिगालयः। महादन्तो महाकर्णो महामेढ्रो महाहनुः ॥१३-१७-८३॥
महानासो महाकम्बुर्महाग्रीवः श्मशानधृक्। महावक्षा महोरस्को अन्तरात्मा मृगालयः ॥१३-१७-८४॥
लम्बनो लम्बितोष्ठश्च महामायः पयोनिधिः। महादन्तो महादंष्ट्रो महाजिह्वो महामुखः ॥१३-१७-८५॥
महानखो महारोमा महाकेशो महाजटः। असपत्नः प्रसादश्च प्रत्ययो गिरिसाधनः ॥१३-१७-८६॥
स्नेहनोऽस्नेहनश्चैव अजितश्च महामुनिः। वृक्षाकारो वृक्षकेतुरनलो वायुवाहनः ॥१३-१७-८७॥
मण्डली मेरुधामा च देवदानवदर्पहा। अथर्वशीर्षः सामास्य ऋक्सहस्रामितेक्षणः ॥१३-१७-८८॥
यजुःपादभुजो गुह्यः प्रकाशो जङ्गमस्तथा। अमोघार्थः प्रसादश्च अभिगम्यः सुदर्शनः ॥१३-१७-८९॥
उपहारप्रियः शर्वः कनकः काञ्चनः स्थिरः। नाभिर्नन्दिकरो भाव्यः पुष्करस्थपतिः स्थिरः ॥१३-१७-९०॥
द्वादशस्त्रासनश्चाद्यो यज्ञो यज्ञसमाहितः। नक्तं कलिश्च कालश्च मकरः कालपूजितः ॥१३-१७-९१॥
सगणो गणकारश्च भूतभावनसारथिः। भस्मशायी भस्मगोप्ता भस्मभूतस्तरुर्गणः ॥१३-१७-९२॥
अगणश्चैव लोपश्च महात्मा सर्वपूजितः। शङ्कुस्त्रिशङ्कुः सम्पन्नः शुचिर्भूतनिषेवितः ॥१३-१७-९३॥
आश्रमस्थः कपोतस्थो विश्वकर्मा पतिर्वरः। शाखो विशाखस्ताम्रोष्ठो ह्यम्बुजालः सुनिश्चयः ॥१३-१७-९४॥
कपिलोऽकपिलः शूर आयुश्चैव परोऽपरः। गन्धर्वो ह्यदितिस्तार्क्ष्यः सुविज्ञेयः सुसारथिः ॥१३-१७-९५॥
परश्वधायुधो देव अर्थकारी सुबान्धवः। तुम्बवीणी महाकोप ऊर्ध्वरेता जलेशयः ॥१३-१७-९६॥
उग्रो वंशकरो वंशो वंशनादो ह्यनिन्दितः। सर्वाङ्गरूपो मायावी सुहृदो ह्यनिलोऽनलः ॥१३-१७-९७॥
बन्धनो बन्धकर्ता च सुबन्धनविमोचनः। स यज्ञारिः स कामारिर्महादंष्ट्रो महायुधः ॥१३-१७-९८॥
बाहुस्त्वनिन्दितः शर्वः शङ्करः शङ्करोऽधनः। अमरेशो महादेवो विश्वदेवः सुरारिहा ॥१३-१७-९९॥
अहिर्बुध्नो निरृतिश्च चेकितानो हरिस्तथा। अजैकपाच्च कापाली त्रिशङ्कुरजितः शिवः ॥१३-१७-१००॥
धन्वन्तरिर्धूमकेतुः स्कन्दो वैश्रवणस्तथा। धाता शक्रश्च विष्णुश्च मित्रस्त्वष्टा ध्रुवो धरः ॥१३-१७-१०१॥
प्रभावः सर्वगो वायुरर्यमा सविता रविः। उदग्रश्च विधाता च मान्धाता भूतभावनः ॥१३-१७-१०२॥
रतितीर्थश्च वाग्मी च सर्वकामगुणावहः। पद्मगर्भो महागर्भश्चन्द्रवक्त्रो मनोरमः ॥१३-१७-१०३॥
बलवांश्चोपशान्तश्च पुराणः पुण्यचञ्चुरी। कुरुकर्ता कालरूपी कुरुभूतो महेश्वरः ॥१३-१७-१०४॥
सर्वाशयो दर्भशायी सर्वेषां प्राणिनां पतिः। देवदेवमुखोऽसक्तः सदसत्सर्वरत्नवित् ॥१३-१७-१०५॥
कैलासशिखरावासी हिमवद्गिरिसंश्रयः। कूलहारी कूलकर्ता बहुविद्यो बहुप्रदः ॥१३-१७-१०६॥
वणिजो वर्धनो वृक्षो नकुलश्चन्दनश्छदः। सारग्रीवो महाजत्रुरलोलश्च महौषधः ॥१३-१७-१०७॥
सिद्धार्थकारी सिद्धार्थश्छन्दोव्याकरणोत्तरः। सिंहनादः सिंहदंष्ट्रः सिंहगः सिंहवाहनः ॥१३-१७-१०८॥
प्रभावात्मा जगत्कालस्तालो लोकहितस्तरुः। सारङ्गो नवचक्राङ्गः केतुमाली सभावनः ॥१३-१७-१०९॥
भूतालयो भूतपतिरहोरात्रमनिन्दितः। वाहिता सर्वभूतानां निलयश्च विभुर्भवः ॥१३-१७-११०॥
अमोघः संयतो ह्यश्वो भोजनः प्राणधारणः। धृतिमान्मतिमान्दक्षः सत्कृतश्च युगाधिपः ॥१३-१७-१११॥
गोपालिर्गोपतिर्ग्रामो गोचर्मवसनो हरः। हिरण्यबाहुश्च तथा गुहापालः प्रवेशिनाम् ॥१३-१७-११२॥
प्रतिष्ठायी महाहर्षो जितकामो जितेन्द्रियः। गन्धारश्च सुरालश्च तपःकर्मरतिर्धनुः ॥१३-१७-११३॥
महागीतो महानृत्तो ह्यप्सरोगणसेवितः। महाकेतुर्धनुर्धातुर्नैकसानुचरश्चलः ॥१३-१७-११४॥
आवेदनीय आवेशः सर्वगन्धसुखावहः। तोरणस्तारणो वायुः परिधावति चैकतः ॥१३-१७-११५॥
संयोगो वर्धनो वृद्धो महावृद्धो गणाधिपः। नित्य आत्मसहायश्च देवासुरपतिः पतिः ॥१३-१७-११६॥
युक्तश्च युक्तबाहुश्च द्विविधश्च सुपर्वणः। आषाढश्च सुषाढश्च ध्रुवो हरिहणो हरः ॥१३-१७-११७॥
वपुरावर्तमानेभ्यो वसुश्रेष्ठो महापथः। शिरोहारी विमर्षश्च सर्वलक्षणभूषितः ॥१३-१७-११८॥
अक्षश्च रथयोगी च सर्वयोगी महाबलः। समाम्नायोऽसमाम्नायस्तीर्थदेवो महारथः ॥१३-१७-११९॥
निर्जीवो जीवनो मन्त्रः शुभाक्षो बहुकर्कशः। रत्नप्रभूतो रक्ताङ्गो महार्णवनिपानवित् ॥१३-१७-१२०॥
मूलो विशालो ह्यमृतो व्यक्ताव्यक्तस्तपोनिधिः। आरोहणो निरोहश्च शैलहारी महातपाः ॥१३-१७-१२१॥
सेनाकल्पो महाकल्पो युगायुगकरो हरिः। युगरूपो महारूपः पवनो गहनो नगः ॥१३-१७-१२२॥
न्यायनिर्वापणः पादः पण्डितो ह्यचलोपमः। बहुमालो महामालः सुमालो बहुलोचनः ॥१३-१७-१२३॥
विस्तारो लवणः कूपः कुसुमः सफलोदयः। वृषभो वृषभाङ्काङ्गो मणिबिल्वो जटाधरः ॥१३-१७-१२४॥
इन्दुर्विसर्गः सुमुखः सुरः सर्वायुधः सहः। निवेदनः सुधाजातः सुगन्धारो महाधनुः ॥१३-१७-१२५॥
गन्धमाली च भगवानुत्थानः सर्वकर्मणाम्। मन्थानो बहुलो बाहुः सकलः सर्वलोचनः ॥१३-१७-१२६॥
तरस्ताली करस्ताली ऊर्ध्वसंहननो वहः। छत्रं सुच्छत्रो विख्यातः सर्वलोकाश्रयो महान् ॥१३-१७-१२७॥
मुण्डो विरूपो विकृतो दण्डिमुण्डो विकुर्वणः। हर्यक्षः ककुभो वज्री दीप्तजिह्वः सहस्रपात् ॥१३-१७-१२८॥
सहस्रमूर्धा देवेन्द्रः सर्वदेवमयो गुरुः। सहस्रबाहुः सर्वाङ्गः शरण्यः सर्वलोककृत् ॥१३-१७-१२९॥
पवित्रं त्रिमधुर्मन्त्रः कनिष्ठः कृष्णपिङ्गलः। ब्रह्मदण्डविनिर्माता शतघ्नी शतपाशधृक् ॥१३-१७-१३०॥
पद्मगर्भो महागर्भो ब्रह्मगर्भो जलोद्भवः। गभस्तिर्ब्रह्मकृद्ब्रह्मा ब्रह्मविद्ब्राह्मणो गतिः ॥१३-१७-१३१॥
अनन्तरूपो नैकात्मा तिग्मतेजाः स्वयम्भुवः। ऊर्ध्वगात्मा पशुपतिर्वातरंहा मनोजवः ॥१३-१७-१३२॥
चन्दनी पद्ममालाग्र्यः सुरभ्युत्तरणो नरः। कर्णिकारमहास्रग्वी नीलमौलिः पिनाकधृक् ॥१३-१७-१३३॥
उमापतिरुमाकान्तो जाह्नवीधृगुमाधवः। वरो वराहो वरदो वरेशः सुमहास्वनः ॥१३-१७-१३४॥
महाप्रसादो दमनः शत्रुहा श्वेतपिङ्गलः। प्रीतात्मा प्रयतात्मा च संयतात्मा प्रधानधृक् ॥१३-१७-१३५॥
सर्वपार्श्वसुतस्तार्क्ष्यो धर्मसाधारणो वरः। चराचरात्मा सूक्ष्मात्मा सुवृषो गोवृषेश्वरः ॥१३-१७-१३६॥
साध्यर्षिर्वसुरादित्यो विवस्वान्सविता मृडः। व्यासः सर्वस्य सङ्क्षेपो विस्तरः पर्ययो नयः ॥१३-१७-१३७॥
ऋतुः संवत्सरो मासः पक्षः सङ्ख्यासमापनः। कला काष्ठा लवो मात्रा मुहूर्तोऽहः क्षपाः क्षणाः ॥१३-१७-१३८॥
विश्वक्षेत्रं प्रजाबीजं लिङ्गमाद्यस्त्वनिन्दितः। सदसद्व्यक्तमव्यक्तं पिता माता पितामहः ॥१३-१७-१३९॥
स्वर्गद्वारं प्रजाद्वारं मोक्षद्वारं त्रिविष्टपम्। निर्वाणं ह्लादनं चैव ब्रह्मलोकः परा गतिः ॥१३-१७-१४०॥
देवासुरविनिर्माता देवासुरपरायणः। देवासुरगुरुर्देवो देवासुरनमस्कृतः ॥१३-१७-१४१॥
देवासुरमहामात्रो देवासुरगणाश्रयः। देवासुरगणाध्यक्षो देवासुरगणाग्रणीः ॥१३-१७-१४२॥
देवातिदेवो देवर्षिर्देवासुरवरप्रदः। देवासुरेश्वरो देवो देवासुरमहेश्वरः ॥१३-१७-१४३॥
सर्वदेवमयोऽचिन्त्यो देवतात्मात्मसम्भवः। उद्भिदस्त्रिक्रमो वैद्यो विरजो विरजोम्बरः ॥१३-१७-१४४॥
ईड्यो हस्ती सुरव्याघ्रो देवसिंहो नरर्षभः। विबुधाग्रवरः श्रेष्ठः सर्वदेवोत्तमोत्तमः ॥१३-१७-१४५॥
प्रयुक्तः शोभनो वज्र ईशानः प्रभुरव्ययः। गुरुः कान्तो निजः सर्गः पवित्रः सर्ववाहनः ॥१३-१७-१४६॥
शृङ्गी शृङ्गप्रियो बभ्रू राजराजो निरामयः। अभिरामः सुरगणो विरामः सर्वसाधनः ॥१३-१७-१४७॥
ललाटाक्षो विश्वदेहो हरिणो ब्रह्मवर्चसः। स्थावराणां पतिश्चैव नियमेन्द्रियवर्धनः ॥१३-१७-१४८॥
सिद्धार्थः सर्वभूतार्थोऽचिन्त्यः सत्यव्रतः शुचिः। व्रताधिपः परं ब्रह्म मुक्तानां परमा गतिः ॥१३-१७-१४९॥
विमुक्तो मुक्ततेजाश्च श्रीमाञ्श्रीवर्धनो जगत्। यथाप्रधानं भगवानिति भक्त्या स्तुतो मया ॥१३-१७-१५०॥
यं न ब्रह्मादयो देवा विदुर्यं न महर्षयः। तं स्तव्यमर्च्यं वन्द्यं च कः स्तोष्यति जगत्पतिम् ॥१३-१७-१५१॥
भक्तिमेव पुरस्कृत्य मया यज्ञपतिर्वसुः। ततोऽभ्यनुज्ञां प्राप्यैव स्तुतो मतिमतां वरः ॥१३-१७-१५२॥
शिवमेभिः स्तुवन्देवं नामभिः पुष्टिवर्धनैः। नित्ययुक्तः शुचिर्भूत्वा प्राप्नोत्यात्मानमात्मना ॥१३-१७-१५३॥
एतद्धि परमं ब्रह्म स्वयं गीतं स्वयम्भुवा। ऋषयश्चैव देवाश्च स्तुवन्त्येतेन तत्परम् ॥१३-१७-१५४॥
स्तूयमानो महादेवः प्रीयते चात्मनामभिः। भक्तानुकम्पी भगवानात्मसंस्थान्करोति तान् ॥१३-१७-१५५॥
तथैव च मनुष्येषु ये मनुष्याः प्रधानतः। आस्तिकाः श्रद्दधानाश्च बहुभिर्जन्मभिः स्तवैः ॥१३-१७-१५६॥
जाग्रतश्च स्वपन्तश्च व्रजन्तः पथि संस्थिताः। स्तुवन्ति स्तूयमानाश्च तुष्यन्ति च रमन्ति च ॥ जन्मकोटिसहस्रेषु नानासंसारयोनिषु ॥१३-१७-१५७॥
जन्तोर्विशुद्धपापस्य भवे भक्तिः प्रजायते। उत्पन्ना च भवे भक्तिरनन्या सर्वभावतः ॥१३-१७-१५८॥
कारणं भावितं तस्य सर्वमुक्तस्य सर्वतः। एतद्देवेषु दुष्प्रापं मनुष्येषु न लभ्यते ॥१३-१७-१५९॥
निर्विघ्ना निश्चला रुद्रे भक्तिरव्यभिचारिणी। तस्यैव च प्रसादेन भक्तिरुत्पद्यते नृणाम् ॥ यया यान्ति परां सिद्धिं तद्भावगतचेतसः ॥१३-१७-१६०॥
ये सर्वभावोपगताः परत्वेनाभवन्नराः। प्रपन्नवत्सलो देवः संसारात्तान्समुद्धरेत् ॥१३-१७-१६१॥
एवमन्ये न कुर्वन्ति देवाः संसारमोचनम्। मनुष्याणां महादेवादन्यत्रापि तपोबलात् ॥१३-१७-१६२॥
इति तेनेन्द्रकल्पेन भगवान्सदसत्पतिः। कृत्तिवासाः स्तुतः कृष्ण तण्डिना शुद्धबुद्धिना ॥१३-१७-१६३॥
स्तवमेतं भगवतो ब्रह्मा स्वयमधारयत्। ब्रह्मा प्रोवाच शक्राय शक्रः प्रोवाच मृत्यवे ॥१३-१७-१६४॥
मृत्युः प्रोवाच रुद्राणां रुद्रेभ्यस्तण्डिमागमत्। महता तपसा प्राप्तस्तण्डिना ब्रह्मसद्मनि ॥१३-१७-१६५॥
तण्डिः प्रोवाच शुक्राय गौतमायाह भार्गवः। वैवस्वताय मनवे गौतमः प्राह माधव ॥१३-१७-१६६॥
नारायणाय साध्याय मनुरिष्टाय धीमते। यमाय प्राह भगवान्साध्यो नारायणोऽच्युतः ॥१३-१७-१६७॥
नाचिकेताय भगवानाह वैवस्वतो यमः। मार्कण्डेयाय वार्ष्णेय नाचिकेतोऽभ्यभाषत ॥१३-१७-१६८॥
मार्कण्डेयान्मया प्राप्तं नियमेन जनार्दन। तवाप्यहममित्रघ्न स्तवं दद्म्यद्य विश्रुतम् ॥ स्वर्ग्यमारोग्यमायुष्यं धन्यं बल्यं तथैव च ॥१३-१७-१६९॥
न तस्य विघ्नं कुर्वन्ति दानवा यक्षराक्षसाः। पिशाचा यातुधानाश्च गुह्यका भुजगा अपि ॥१३-१७-१७०॥
यः पठेत शुचिर्भूत्वा ब्रह्मचारी जितेन्द्रियः। अभग्नयोगो वर्षं तु सोऽश्वमेधफलं लभेत् ॥१३-१७-१७१॥

...

ॐ असतो मा सद्गमय। तमसो मा ज्योतिर्गमय। मृत्योर्माऽमृतं गमय। ॐ शान्ति: शान्ति: शान्ति: ॥ - बृहदारण्यकोपनिषद् 1.3.28
"Ōm! Lead me from the unreal to the real, from darkness to light, and from death to immortality. Let there be peace, peace, and peace. Ōm!" - Brihadaranyaka Upanishad 1.3.28

Copyright © 2025, Incredible Wisdom.
All rights reserved.